श्रवणम्

8.68.5
अ॒भिष्ट᳚ये स॒दावृ᳚धं॒ स्व᳚र्मीळ्हेषु॒ यं नरः᳚ ।
नाना॒ हव᳚न्त ऊ॒तये᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒भिष्ट᳚ये । स॒दा॑वृ᳚धम् । स्वः॒॑मीळ्हेषु । यम् । नरः᳚ ।
नाना᳚ । हव᳚न्ते । ऊ॒तये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे यजमाना युष्माकं अभिष्टये साहाय्यार्थं अभिगमनाय अभिष्टये वा सदावृधं सर्वदा वर्धयन्तं सेवकान् स्वयं सर्वदा वर्धमानं वा हुवइतिशेषः । यं स्वर्मीह्ळेषु संग्रामेषु नरोनेतारो मनुष्याः नाना बहुप्रकारं हवन्ते आह्वयन्ति ऊतये रक्षार्थं तं हुवइतिशेषः ॥ ५ ॥