वि॒दन्नह᳚ द्वि॒तास᳚नन् ॥
पदपाठः (Word-by-word)
वि॒दन् । अह᳚ । द्वि॒ता । अ॒स॒न॒न् ॥
सायणभाष्यम् (Sayana Commentary)
मनुराह त्रिंशति त्रिंशत्संख्यायाःपरः परस्तान्त्रयः त्रयस्त्रिंशद्देवताइत्यर्थः ये देवासोदेवाः बर्हिः अस्मदीययज्ञसंबंधिनि बर्हिषि हविःस्वीकरणार्थमा- सदन् आसीदन्तु । अह अथानन्तरं विदन् ते देवा अस्मान् हविषांप्रदातृनिति जानंतु । ततः द्विता द्विधा द्विप्रकारमसनन् अस्मभ्यं धनं पश्वादिकच्च प्रयच्छन्तु । यद्वा द्विता द्वैधं अनेन पौनःपुन्यं लक्ष्यते पुनःपुनरस्मभ्यं धनादिकं ददत्वित्यर्थः ॥ १ ॥