स॒प्तो अधि॒ श्रियो᳚ धिरे ॥
पदपाठः (Word-by-word)
स॒प्तो इति᳚ । अधि᳚ । श्रियः᳚ । धि॒रे॒ ॥
सायणभाष्यम् (Sayana Commentary)
अत्र पुरातनीकथा इन्द्रसमानं पुत्रमिच्छन्त्याः दितेर्गर्भस्य केनचित्कारणेन इन्द्रेण सप्तधाभिन्नत्वात् सगर्भः सप्तगणात्मकोभवत् ततोमरुतः संपन्नाः । सप्तगणावैमरुतइतिश्रुतेः । एषा कथा इदंपित्रेमरुतामुच्यतेवचइत्यस्मिन्वर्गे । सप्रपच्चेनाभ्यधायि । तथाचास्याऋचोयमर्थः-सप्तानां मरुतां गणानां सप्त सप्तसंख्याका ऋष्टय आयुधविशेषाविभिन्नाःसन्ति तथा सप्तसंख्याकानि द्युम्नाः नि द्योतमानानि कुंडलादीन्याभरणानि द्युम्नान्यन्नानिवा एषां गणानां विभिन्नानि सन्ति ततः सप्तमरुतांगणाः सप्तो सप्तैव सप्तविधाःश्रियः सकलादीप्तिः अधिधिरे परस्परमधिकंदधिरे ॥ ५ ॥
बभ्रुरेकइति दशर्चं नवमं सूक्तं मरीचिपुत्रः कश्यपो वैवस्वतोमनुर्वा ऋषिः । तथाचानुक्रम्यते-बभ्रुर्दशकश्यपोवा मारीचो द्वैपदमिति । दशापिद्वि- पदा विंशत्यक्षराविराजः पूर्ववद्विश्वेदेवादेवता । तृतीयेछन्दोमे वैश्वदेवशस्त्रे वैश्वदेवसूक्तात्पूर्वमेव द्वैपदंसूक्तं शंसनीयम् । सूत्र्यतेहि-बभ्रुरेकइतिद्वि- पदासूक्तानिपुरस्ताद्वैश्वदेवसूक्तानामिति ।