वरु᳚णो मि॒त्रो अ᳚र्य॒मा स्मद्रा᳚तिषाचो अ॒ग्नयः᳚ ।
पत्नी᳚वन्तो॒ वष᳚ट्कृताः ॥
पत्नी᳚वन्तो॒ वष᳚ट्कृताः ॥
पदपाठः (Word-by-word)
वरु᳚णः । मि॒त्रः । अ॒र्य॒मा । स्मद्रा᳚ति॑साचः । अ॒ग्नयः᳚ ।
पत्नी᳚॑वन्तः । वष᳚ट्॑कृताः ॥
पत्नी᳚॑वन्तः । वष᳚ट्॑कृताः ॥
सायणभाष्यम् (Sayana Commentary)
वरुणोवरणीयः संभजनीयः मित्रः स्तोतृणां यष्टृणांच धनादिदानेन मित्रभूतःअर्यमास्तोत्रकारिणोधनं प्रापयन् यद्वा सततं गच्छन् एतन्नामकास्त्रयो- देवाः स्मद्रातिषाचः स्मत् सुमत् शोभना रातिर्हविःप्रदानं येषामस्तीति स्मद्रातयोयजमानाः तान् सचन्ते धनादिप्रदानेन सेवन्ते इति यथोक्ताः । यद्वा कल्याणं यथा भवति तथा हविषां दातृन् सचन्तइति । ते तादृशाःपत्नीवन्तोदेवपत्नीसहिता अग्नयः अंगनशीलाः नानाविधाअग्नयः वषट्कृताः मया सोमस्याग्नेयी हीवौषडित्यादिना स्वाहाकृताः सुहुताइत्यर्थः ॥ २ ॥