अष्टमं मण्डलम् - सूक्तम् 11

10 ऋचः

ऋषिः: वत्सः काण्वः देवता: अग्निः छन्दः: प्रतिष्ठा

सूक्तम् 8.11 - सम्पूर्णम्

1 / 10
ऋक्: 8.11.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (10)
8.11.1
त्वम᳚ग्ने व्रत॒पा अ᳚सि दे॒व आ मर्त्ये॒ष्वा ।
त्वं य॒ज्ञेष्वीड्य᳚ः ॥
▶ पदपाठः (Word-by-word)
त्वम् । अ॒ग्ने॒ । व्र॒त॒॑पाः । अ॒सि॒ । दे॒वः । आ । मर्त्ये᳚षु । आ ।
त्वम् । य॒ज्ञेषु᳚ । ईड्यः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने देवोद्योतमानस्त्वं मर्त्येष्वा मनुष्येषु च आदेवेषु च मध्ये व्रतपाअसि व्रतानां कर्मणां रक्षिता भवसि अतःकारणात् यज्ञेषु त्वमीड्यः स्तुत्योसि ॥ १ ॥

8.11.2
त्वम᳚सि प्र॒शस्यो᳚ वि॒दथे᳚षु सहन्त्य ।
अग्ने᳚ र॒थीर᳚ध्व॒राणा᳚म् ॥
▶ पदपाठः (Word-by-word)
त्वम् । अ॒सि॒ । प्र॒॑शस्यः᳚ । वि॒दथे᳚षु । स॒ह॒न्त्य॒ ।
अग्ने᳚ । र॒थीः । अ॒ध्व॒राणा᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सहन्त्य शत्रूणामभिभवितरग्नेविदथेषु यज्ञेषु त्वं प्रशस्यः स्तुत्योसि अध्वराणां यागानां रथीर्नेताच भवसि ॥ २ ॥

8.11.3
स त्वम॒स्मदप॒ द्विषो᳚ युयो॒धि जा᳚तवेदः ।
अदे᳚वीरग्ने॒ अरा᳚तीः ॥
▶ पदपाठः (Word-by-word)
सः । त्वम् । अ॒स्मत् । अप᳚ । द्विषः᳚ । यु॒यो॒धि । जा॒त॒॑वे॒दः॒ ।
अदे᳚वीः । अ॒ग्ने॒ । अरा᳚तीः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे जातवेदः जातानां वेदितरग्ने सपूर्वोक्तगुणस्त्वं अस्मदस्मत्तः द्विषोद्वेष्टृन् शत्रून् अपयुयोधि पृथक्कुरु । अदेवीरासुरीः अरातीः शत्रुसेनाश्च पृथक्कुरु ॥ ३ ॥

8.11.4
अन्ति᳚ चि॒त्सन्त॒मह᳚ य॒ज्ञं मर्त᳚स्य रि॒पोः ।
नोप᳚ वेषि जातवेदः ॥
▶ पदपाठः (Word-by-word)
अन्ति᳚ । चि॒त् । सन्त᳚म् । अह᳚ । य॒ज्ञम् । मर्त᳚स्य । रि॒पोः ।
न । उप᳚ । वे॒षि॒ । जा॒त॒॑वे॒दः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे जातवेदः अन्तिचित् अन्तिकेपि सन्तं भवन्तं समीपे विद्यमानमपि रिपोः अस्मच्छत्रोर्मर्तस्य मनुष्यस्य यज्ञं नोपवेषि अहशब्दोव- धारणे नैवकामयसे ॥ ४ ॥

8.11.5
मर्ता॒ अम᳚र्त्यस्य ते॒ भूरि॒ नाम᳚ मनामहे ।
विप्रा᳚सो जा॒तवे᳚दसः ॥
▶ पदपाठः (Word-by-word)
मर्ताः᳚ । अम᳚र्त्यस्य । ते॒ । भूरि᳚ । नाम᳚ । म॒ना॒म॒हे॒ ।
विप्रा᳚सः । जा॒त॑वे᳚दसः ॥
▶ सायणभाष्यम् (Sayana Commentary)

मर्ता मनुष्याः विप्रासो मेधाविनोवयं हे अग्ने जातवेदसो जातानां वेदितुः अमर्त्यस्य मरणरहितस्य देवस्य ते तव भूरि विस्तृतं नाम स्तोत्रं मनामहे जानीमः कुर्मइति यावत् ॥ ५ ॥

8.11.6
विप्रं॒ विप्रा॒सो॑व᳚से दे॒वं मर्ता᳚स ऊ॒तये᳚ ।
अ॒ग्निं गी॒र्भिर्ह᳚वामहे ॥
▶ पदपाठः (Word-by-word)
विप्र᳚म् । विप्रा᳚सः । अव᳚से । दे॒वम् । मर्ता᳚सः । ऊ॒तये᳚ ।
अ॒ग्निम् । गीः॒॑भिः । ह॒वा॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

विप्रासोमेधाविनः मर्तासोमनुष्यावयं विप्रं मेधाविनं देवं दानादिगुणयुक्तमग्निं अवसे हविर्भिः तर्पयितुं ऊतये अस्माकं रक्षणार्थं च गीर्भिः स्तुतिभिः हवामहे आह्वयामहे ॥ ६ ॥ आभिप्लविकेषूक्थ्येषु तृतीयसवने आतेवत्सइति वैकल्पिकःस्तोत्रियस्तृचः सूत्रितञ्च-आतेवत्सोमनोयमदाग्नेस्थूरंरयिंभरेति ।

8.11.7
आ ते᳚ व॒त्सो मनो᳚ यमत्पर॒माच्चि᳚त्स॒धस्था᳚त् ।
अग्ने॒ त्वांका᳚मया गि॒रा ॥
▶ पदपाठः (Word-by-word)
आ । ते॒ । व॒त्सः । मनः᳚ । य॒म॒त् । प॒र॒मात् । चि॒त् । स॒ध॑स्था᳚त् ।
अग्ने᳚ । त्वाम्॑का᳚मया । गि॒रा ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने वत्स ऋषिः ते तव मनः परमाच्चित् उत्कृष्टादपि सधस्थानात् सहस्थात् द्युलोकात् आयमत् आयमयति । केन साधनेन त्वां कामया त्वामभिलषंत्या गिरा स्तुत्या ॥ ७ ॥

8.11.8
पु॒रु॒त्रा हि स॒दृङ्ङसि॒ विशो॒ विश्वा॒ अनु᳚ प्र॒भुः ।
स॒मत्सु᳚ त्वा हवामहे ॥
▶ पदपाठः (Word-by-word)
पु॒रु॒॑त्रा । हि । स॒॑दृङ् । असि᳚ । विशः᳚ । विश्वाः᳚ । अनु᳚ । प्र॒॑भुः ।
स॒मत्॑सु᳚ । त्वा॒ । ह॒वा॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने पुरुत्रा बहुषु देशेषु त्वं सदृङ्ङसि समानद्रष्टा भवसि हि पूरणः अत एव विश्वाः सर्वा विशः प्रजाः अनु अनुलक्ष्य प्रभुरीश्वरो भवसि । ईदृशं त्वा त्वां समप्सु सङ्ग्रामेषु रक्षणार्थं हवामहे आह्वयामहे ॥ ८ ॥

8.11.9
स॒मत्स्व॒ग्निमव᳚से वाज॒यन्तो᳚ हवामहे ।
वाजे᳚षु चि॒त्ररा᳚धसम् ॥
▶ पदपाठः (Word-by-word)
स॒मत्॑सु᳚ । अ॒ग्निम् । अव᳚से । वा॒ज॒॑यन्तः᳚ । ह॒वा॒म॒हे॒ ।
वाजे᳚षु । चि॒त्र॑रा᳚धसम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

समत्सु सहमदनेषु सङ्ग्रामेषु वाजयन्तो बलमिच्छन्तो वयं अवसे रक्षणार्थमग्निं हवामहे कीदृशं वाजेषु सङ्ग्रामेषु चित्रराधसं चायनी- यधनम् ॥ ९ ॥

8.11.10
प्र॒त्नो हि क॒मीड्यो᳚ अध्व॒रेषु᳚ स॒नाच्च॒ होता॒ नव्य᳚श्च॒ सत्सि᳚ ।
स्वां चा᳚ग्ने त॒न्वं᳚ पि॒प्रय᳚स्वा॒स्मभ्यं᳚ च॒ सौभ᳚ग॒मा य᳚जस्व ॥
▶ पदपाठः (Word-by-word)
प्र॒त्नः । हि । क॒म् । ईड्यः᳚ । अ॒ध्व॒रेषु᳚ । स॒नात् । च॒ । होता᳚ । नव्यः᳚ । च॒ । सत्सि᳚ ।
स्वाम् । च॒ । अ॒ग्ने॒ । त॒न्व᳚म् । पि॒प्रय᳚स्व । अ॒स्मभ्य᳚म् । च॒ । सौभ᳚गम् । आ । य॒ज॒स्व॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने अध्वरेषु यज्ञेषु ईड्यः स्तुत्यस्त्वं प्रत्नोहि चिरन्तनः खलु भवसि कमितिपूरकः तथा सनात् चिरकालादारभ्य होता देवानामा- ह्वाता च सन् नव्यः स्तुत्यश्च सन् सत्सि यज्ञेषु निषीदसि । हे अग्ने देवानां हविर्वहंस्त्वं स्वां च तन्वं आत्मीयं च शरीरं पिप्रयस्व त्वदीयेन हविर्भागेन तर्पय अस्मभ्यं स्तोतृभ्यश्च सौभगं सुभगत्वं च आ यजस्व प्रदेहि सुभगशब्दाद्भावार्थे सुभगान्मन्त्र इत्युद्गात्रादिषु पाठादङ्प्रत्ययः ॥ १० ॥

वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् । पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥ १ ॥

इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थ- प्रकाशे ऋक्संहिताभाष्ये पञ्चमाष्टके अष्टमोऽध्यायः ॥ ८ ॥

॥ इति पञ्चमाष्टकः समाप्तः ॥ ५ ॥