अष्टमं मण्डलम् - सूक्तम् 5

39 ऋचः

ऋषिः: ब्रह्मातिथिः काण्वः देवता: अश्विनौ छन्दः: गायत्री

सूक्तम् 8.5 - सम्पूर्णम्

1 / 39
ऋक्: 8.5.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (39)
8.5.1
दू॒रादि॒हेव॒ यत्स॒त्य᳚रु॒णप्सु॒रशि᳚श्वितत् ।
वि भा॒नुं वि॒श्वधा᳚तनत् ॥
▶ पदपाठः (Word-by-word)
दू॒रात् । इ॒ह॑इ᳚व । यत् । स॒ती । अ॒रु॒ण॑प्सुः᳚ । अशि᳚श्वितत् ।
वि । भा॒नुम् । वि॒श्वधा᳚ । अ॒त॒न॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

यस्य निःश्वसितं वेदा योवेदेभ्योखिलंजगत् । निर्ममे तमहं वन्देविद्यातीर्थमहेश्वरम् ॥ १ ॥

अथाष्टमोव्याख्यातुमारभ्यते । अष्टमेमण्डले प्रथमेनुवाके चत्वारिसूक्तानि व्याकृतानि । दूरादित्येकोनचत्वारिंशदृचं पञ्चमं सूक्तं कण्वगोत्रस्य ब्रह्मातिथेरार्षम् । आदितः षट् त्रिंशद्गायत्र्यः । ततोद्वे बृहत्यौ । अन्तिमानुष्टुप् । अन्त्येषु पञ्चस्वर्धर्चेषु चेदिपुत्रस्य कशुना- म्नोराज्ञोदानं स्तूयते । अतस्तद्देवताकाः । शिष्टाआश्विन्यः तथाचानुक्रान्तम्-दूरादेकान्नचत्वारिंशद्ब्र्ह्मातिथिराश्विनं द्विबृहत्यनुष्टुबन्तं अन्त्याः पञ्चार्धर्चाश्चैद्यस्य कशोर्दानस्तुतिरिति । प्रातरनुवाकाश्विनशस्त्रयोराश्विने क्रतौ गायत्रे छन्दसि अन्त्यतृचवर्जमिदं सूक्तम् । सूत्र्यतेहि-दूरादिहेवेतितिस्रउद्धरेदिति ।

दूरात् दूरतएव विप्रकृष्टएव नभसः प्राक् प्रदेशे वर्तमाना इहेवसती इहसमीपे विद्यमानेव अस्तेः शतरि श्नसोरल्लोपे उगितश्चेतिङीप् शतुरनुमइतिनद्याउदात्तत्वम् । अरुणप्सुः आरोचमानरूपा ईदृशीउषाः यद्यदा अशिश्वितत् अश्वेतयत् श्वितावर्णे अस्मात् ण्यन्तात् लुङिचङिरूपम् यद्वृत्तान्नित्यमितिनिघातप्रतिषेधः । तदा भानुं दीप्तिं विश्वधा बहुविधां व्यतनत् विस्तारितवती तनोतेर्व्यत्ययेन शप् ईदृशीमुषसम् हे अश्विनौ सचेथे इति उत्तरयैकवाक्यता । यद्वा प्रातरनुवाके उषस्येन काण्डेन उषाः स्तुता सती प्रादुर्बभूव हे अश्विनौ संशिष्यमाणमाश्विनं क्रतुं श्रोतुं युवामपि प्रादुर्भवतमिति अध्याहारेण वाक्यं पूरणीयम् ॥ १ ॥

8.5.2
नृ॒वद्द᳚स्रा मनो॒युजा॒ रथे᳚न पृथु॒पाज᳚सा ।
सचे᳚थे अश्विनो॒षस᳚म् ॥
▶ पदपाठः (Word-by-word)
नृ॒॑वत् । द॒स्रा॒ । म॒नः॒॑युजा᳚ । रथे᳚न । पृ॒थु॒॑पाज᳚सा ।
सचे᳚थे॒ इति᳚ । अ॒श्वि॒ना॒ । उ॒षस᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे दस्रा दर्शनीयौ शत्रूणामुपक्षपयितारौ वा सुपांसुलुगित्याकारः । ईदृशौ हे अश्विना अश्विनौ नृवत् नृभिर्नेतृभिस्तुल्यं वर्तमानौ युवां तेनतुल्यमिति प्रथमार्थेवतिः यद्वा नेतृमतीं नृशब्दान्मतुपश्छान्दसंत्ववम् रश्रुतिसामान्यात् वा छन्दसीरइतिवत्वम् ङीपश्छान्दसोलुक् ह्रस्वनुड्भ्यांमतुबिति मतुपउदात्तत्वम् ईदृशीमुषसं रथेनात्मीयेन वाहनेन सचेथे सम्यग्गच्छथः । षचसमवाये यद्वा सचतिः सेवनार्थः सचेथे सवेथे तदाहयास्कः-सचस्वानःस्वस्तये सेवस्व नः स्वस्तयइति । कीदृशेन रथेन मनोयुजा मनसैव व्यापारान्तरनिरपेक्षेण स्मरण- मात्रेणाश्वैर्युज्यमानेन पृथुपाजसा विस्तीर्णबलेन बह्वन्नेनवा उषसोनन्तरमश्विनोः स्तूयमानत्वात् तामश्विनौ गच्छतइत्युच्यते ॥ २ ॥

8.5.3
यु॒वाभ्यां᳚ वाजिनीवसू॒ प्रति॒ स्तोमा᳚ अदृक्षत ।
वाचं᳚ दू॒तो यथो᳚हिषे ॥
▶ पदपाठः (Word-by-word)
यु॒वाभ्या᳚म् । वा॒जि॒नी॒व॒सू॒ इति᳚ वाजिनी॑वसू । प्रति᳚ । स्तोमाः᳚ । अ॒दृ॒क्ष॒त॒ ।
वाच᳚म् । दू॒तः । यथा᳚ । ओ॒हि॒षे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वाजिनीवसू वाजं हविर्लक्षणमन्नं तद्युक्तयागक्रिया वाजिनी तस्यां वसु धनं ययोरस्ति तौ तथोक्तौ यद्वा अन्नयुक्तं स्तोतृभ्योदेयं वसु धनं ययोरस्ति तादृशौ हे अश्विनौ युवाभ्यां स्तोमाःक् अस्माभिः कृतानि स्तोत्राणि प्रत्यदृक्षत प्रतिदृश्यन्ताम् दृशेश्छान्दसः कर्म- णिलुङ् लिङ्सिचावात्मनेपदेष्विति कित्त्वात्सूजिदृशोरित्यमभावः षत्वकत्वषत्वानि अहं च यथा येनप्रकारेण दूतः प्रेष्योवाचं स्वामि- नोवाक्यं याचते तथा युवयोः प्रीतिपूर्विकां वाचं ओहिषे पुरुषव्यत्ययः याचे ऊहिरर्दने याचने इत्यर्थः व्यत्ययेनात्मनेपदम् । यद्वा दूतो यथास्वामिनोक्तां वाचं विदेशस्थमन्यं प्रापयति एवमहमपि स्तुतिरूपां वाचं ओहिषे वहे युवां प्रापयामि वहेर्व्यत्ययेनमध्यमः छान्दसं सम्प्रसारणम् छन्दस्युभयथेत्यार्धधातुकत्वादिडागमः शबभावोलघूपधगुणश्च एङिपररूपमिति पररूपत्वम् ॥ ३ ॥

8.5.4
पु॒रु॒प्रि॒या ण᳚ ऊ॒तये᳚ पुरुम॒न्द्रा पु᳚रू॒वसू᳚ ।
स्तु॒षे कण्वा᳚सो अ॒श्विना᳚ ॥
▶ पदपाठः (Word-by-word)
पु॒रु॒॑प्रि॒या । नः॒ । ऊ॒तये᳚ । पु॒रु॒॑म॒न्द्रा । पु॒रु॒वसू॒ इति᳚ पु॒रु॒॑वसू᳚ ।
स्तु॒षे । कण्वा᳚सः । अ॒श्विना᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पुरुप्रिया बहूनां प्रियौ पुरुमन्द्रा बहुमदौ बहूनां मादयितारौ वा यद्वा पुरु बहुलं माद्यन्तौ पुरुवसू बहुधनौ ईदृशौ अश्विना अश्विनौ नोस्माकमूतये रक्षणाय कण्वासः कण्वगोत्रावयं स्तुषे स्तुमहे पुरुषवचयनोर्व्यत्ययः । यद्वा कण्वासइति पूजार्थं बहुवचनम् ऋषिरात्मा- नं संबोध्य ब्रूते हे अन्तरात्मन् कण्वासः कण्वगोत्रस्त्वं स्तुषे अश्विनौ स्तुहि ॥ ४ ॥

8.5.5
मंहि᳚ष्ठा वाज॒सात᳚मे॒षय᳚न्ता शु॒भस्पती᳚ ।
गन्ता᳚रा दा॒शुषो᳚ गृ॒हम् ॥
▶ पदपाठः (Word-by-word)
मंहि᳚ष्ठा । वा॒ज॒॑सात᳚मा । इ॒षय᳚न्ता । शु॒भः । पती॒ इति᳚ ।
गन्ता᳚रा । दा॒शुषः᳚ । गृ॒हम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

मंहिष्ठा मंहिष्ठौ मंहनीयौ पूजनीयौ यद्वा दातृतमौ वाजसातमा वाजोन्नं बलं वा तस्यातिशयेन दातारौ यद्वा वाजोन्नं हविर्लक्षणमन्नं तस्य संभक्तृतमौ सनोतेः सनतेर्वा जनसनेतिविट् विड्वनोरनुनासिकस्यात्वम् । इषयन्ता स्तोतृभ्यइषमन्नं कुर्वन्तौ इट्शब्दात्ततकरोती- तिणिच् णेरिष्ठवद्भावेनाटिलोपे प्राप्ते प्रकृत्येकाजितिप्रकृतिभावः । यद्वा एषयन्ता इषयन्तौ श्रेयांसि प्रपयन्तौ इषगतौ अस्माद्धेतुमति- चेति णिच् संज्ञापूर्वकस्यविधेरनित्यत्वाद्गुणाभावः शुभः शोभनस्य धनस्य उदकस्य वा पती स्वामिनौ षष्ठ्याः पतिपुत्रेति विसर्ज- नीयस्य सत्वम् दाशुषः चरुपुरोडाशादीनि दत्तवतोयजमानस्य गृहं गन्तारा गमनशीलौ गमेस्ताच्छीलिकस्तृन् अतोनलोकाव्ययेति कर्मणि षष्ठ्याः प्रतिषेधः । ईदृशावश्विनौ स्तुमइति शेषः ॥ ५ ॥

8.5.6
ता सु᳚दे॒वाय᳚ दा॒शुषे᳚ सुमे॒धामवि᳚तारिणीम् ।
घृ॒तैर्गव्यू᳚तिमुक्षतम् ॥
▶ पदपाठः (Word-by-word)
ता । सु॒॑दे॒वाय᳚ । दा॒शुषे᳚ । सु॒॑मे॒धाम् । अवि᳚॑तारिणीम् ।
घृ॒तैः । गव्यू᳚तिम् । उ॒क्ष॒त॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनौ ता तौ तादृशौ युवाम् सुदेवाय शोभनादेवा येनयष्टव्याः सतथोक्तः बहुव्रीहौनञ्सुभ्यामित्युत्तरपदान्तोदात्तत्वम् तस्मै दाशुषे हविर्दत्तवते यजमानाय तादर्थ्येचतुर्थी ईदृग्यजमानार्थं सुमेधां शोभनयज्ञां अवितारिणीं वितरणं विगमनम् अपायः अनपा- यिनीम् नञ् समासः अव्ययपूर्वपदप्रकृतिस्वरत्वम् ईदृशीं गव्यूतिं गावोयूयन्ते संयुज्यन्तेत्रेति गत्र्यूतिर्गोसञ्चारभूमिः गोर्यूतौछन्दसी- त्यवादेशः तां घृतैः क्षरणशीलैः उदकैः उक्षतम् सिञ्चतम् । उक्षसेचने ॥ ६ ॥

8.5.7
आ न॒ः स्तोम॒मुप᳚ द्र॒वत्तूयं᳚ श्ये॒नेभि᳚रा॒शुभि᳚ः ।
या॒तमश्वे᳚भिरश्विना ॥
▶ पदपाठः (Word-by-word)
आ । नः॒ । स्तोम᳚म् । उप᳚ । द्र॒वत् । तूय᳚म् । श्ये॒नेभिः᳚ । आ॒शु॑भिः᳚ ।
या॒तम् । अश्वे᳚भिः । अ॒श्वि॒ना॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विना अश्विनौ नोस्माकं स्तोमं स्तोत्रं अश्वेभिरश्वैः द्रवत् तूयमिति उभे क्षिप्रनामनी एकः पूरकः तूयम् क्षिप्रं उपायातं उपागच्छतम् । यद्वा द्रवदिति स्तोमविशेषणं द्रवत् शीघ्रं प्रवर्तमानं स्तोममित्यर्थः कीदृशैरश्वैः श्येनेभिः शंसनीयगतिभिः प्रशस्यगमनैः आशुभिः शी- घ्रगैः ॥ ७ ॥

8.5.8
येभि᳚स्ति॒स्रः प᳚रा॒वतो᳚ दि॒वो विश्वा᳚नि रोच॒ना ।
त्री{4}र॒क्तून्प᳚रि॒दीय᳚थः ॥
▶ पदपाठः (Word-by-word)
येभिः᳚ । ति॒स्रः । प॒रा॒॑वतः᳚ । दि॒वः । विश्वा᳚नि । रो॒च॒ना ।
त्रीन् । अ॒क्तून् । प॒रि॒॑दीय᳚थः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनौ तिस्रोदिवः त्रीन् दिवसान् त्रीन् अक्तून् तिस्रोरात्रीश्च अत्यन्तसंयोगे द्वितीया एतावन्तंकालं विश्वानि सर्वाणि व्याप्तानि वा रोचमानानि नक्षत्ररूपाणि देवगृहाणि परावतो दूरदेशात् येभिर्यैरश्वैः परिदीयथः परिगच्छथः दीयतिर्गतिकर्मा तैरस्माकं स्तोत्रमु- पायातमिति पूर्वत्रान्वयः ॥ ८ ॥

8.5.9
उ॒त नो॒ गोम᳚ती॒रिष᳚ उ॒त सा॒तीर᳚हर्विदा ।
वि प॒थः सा॒तये᳚ सितम् ॥
▶ पदपाठः (Word-by-word)
उ॒त । नः॒ । गो॑म᳚तीः । इषः᳚ । उ॒त । सा॒तीः । अ॒हः॒॑वि॒दा॒ ।
वि । प॒थः । सा॒तये᳚ । सि॒त॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतापिच हे अहर्विदा अह्नोलम्भयितारौ यद्वा अह्नि प्रभातसमये वेदितव्यौ स्तोतव्यौ नोस्मभ्यं गोमतीर्बहु भिर्गोभिर्युक्ता इषोन्नानि दत्तमितिशेषः उतापिच सातीः सम्भजनीयाः दातव्यावा रायश्च अस्मभ्यं दत्तम् सनतेः सनोतेर्वा कर्मणि क्तिन् जनसनखनामित्यात्वम् ऊतियूतीत्यादिना क्तिनउदातत्वं निपात्यते अपिचास्माकं सातये उक्तानां गवादीनां लाभाय सम्भजनाय वा पथः तदुपायरूपान्मार्गा- न्विसितं विशेषेण बन्धीतं यथा अन्ये न प्रविशन्ति तथा कुरुतमित्यर्थः । षिञ् बन्धने छान्दसोविकरणस्यलुक् यद्वा उपसर्गवशादयंधातुः स्वार्थविपरीतबन्धनाभावेवर्तते प्रस्मरणं प्रस्थानमिति यथा पथोमार्गान् विसितं विमुञ्चतं प्रदर्शयतमित्यर्थः । पथिन् शब्दोन्तोदात्तः तस्य शसि टिलोपे उदात्तनिवृत्तिस्वरेणशसउदात्तत्वम् ॥ ९ ॥

8.5.10
आ नो॒ गोम᳚न्तमश्विना सु॒वीरं᳚ सु॒रथं᳚ र॒यिम् ।
वो॒ळ्हमश्वा᳚वती॒रिषः᳚ ॥
▶ पदपाठः (Word-by-word)
आ । नः॒ । गो॑म᳚न्तम् । अ॒श्वि॒ना॒ । सु॒॑वीर᳚म् । सु॒॑रथ᳚म् । र॒यिम् ।
वो॒ळ्हम् । अश्व᳚॑वतीः । इषः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विना अश्विनौ नोस्मभ्यं रयिं धनं आवोह्ळं आवहतम् आहरतम् वहेर्लोटि छान्दसः शपोलुक् ढत्वधत्वष्टुत्वढलोषु कृतेषु सहिवहो- रोदवर्णस्येत्योत्वम् कीदृशं रयिम् गोमन्तं बहुभिर्गोभिर्युक्तम् सुवीरं वीर्याज्जायन्तइति वीराः पुत्राः शोभनैस्तैरुपेतम् विविधमीरयन्ति शत्रूनितिवीराः शूराः तैरुपेतम् सुरथम् शोभनरथेनयुक्तम् अपिच अश्वावतीः अश्वयुक्ताः मन्त्रेसोमाश्वेतिमतौदीर्घः इषः इष्यमाणान्य- न्नानिच अस्मभ्यं आवहतम् ॥ १० ॥

द्विदेवत्यस्याश्विनग्रहस्य वावृधानेत्येषा याज्या सूत्र्यतेहि-होतायक्षदश्विनानासत्यावावृधानाशुभस्पती इतीति ।

8.5.11
वा॒वृ॒धा॒ना शु᳚भस्पती दस्रा॒ हिर᳚ण्यवर्तनी ।
पिब᳚तं सो॒म्यं मधु᳚ ॥
▶ पदपाठः (Word-by-word)
व॒वृ॒धा॒ना । शु॒भः॒ । प॒ती॒ इति᳚ । दस्रा᳚ । हिर᳚ण्यवर्तनी॒ इति॒ हिर᳚ण्य॑वर्तनी ।
पिब᳚तम् । सो॒म्यम् । मधु᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे शुभस्पती शुभः शोभनस्यालङ्कारस्योदकस्य वा पती स्वामिनौ हेअश्विनौ सुबामन्त्रितइतिषष्ठ्यन्तस्य पराङ्गवद्भावात् षष्ठ्याम- न्त्रितसमुदायस्तोष्टमिकंसर्वानुदात्तत्वम् । दस्रा दर्शनीयौ शत्रूणामुपक्षपयितारौ वा हिरण्यवर्तनी हिरण्मयमार्गौ यद्वा वर्ततेस्मिन्निति वर्तनीरथः हिरण्मयोरथोययोस्तौ यद्वा वर्तनिर्वर्तनमाचरणं हितरमणीयाचरणौ ववृधाना प्रवृद्धौ वृधेः लिटः कानच् ईदृशौ युवां सोम्यं सोममयं मधु माधुर्योपेतं मदकरं वा रसं पिबतम् ॥ ११ ॥

8.5.12
अ॒स्मभ्यं᳚ वाजिनीवसू म॒घव᳚द्भ्यश्च स॒प्रथः᳚ ।
छ॒र्दिर्य᳚न्त॒मदा᳚भ्यम् ॥
▶ पदपाठः (Word-by-word)
अ॒स्मभ्य᳚म् । वा॒जि॒नी॒व॒सू॒ इति᳚ वाजिनी॑वसू । म॒घव᳚त्॑भ्यः । च॒ । स॒॑प्रथः᳚ ।
छ॒र्दिः । य॒न्त॒म् । अदा᳚भ्यम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वाजिनीवसू वाजिनी हविर्युक्ता यागक्रियातस्यां वसु धनं हविर्भागलक्षणं ययोस्तथा विधौ हे अश्विनौ अस्मभ्यं स्तोतृभ्यः मघवद्भ्यः मघं धनं हविर्लक्षणं तद्वद्भोयजमानेभ्यश्च सप्रथः सर्वतः पृथुविस्तीर्णं अदाभ्यं केनप्यहिंस्यं छर्दिः गृहनामैतत् गृहं यन्तं नियच्छतं दत्तमितियावत् यमेश्छान्दसःशपोलुक् छन्मस्युभयथेत्यार्धधातुकत्वेन ङित्त्वाभावत् अनुनासिकलोपाभावः ॥ १२ ॥

8.5.13
नि षु ब्रह्म॒ जना᳚नां॒ यावि᳚ष्टं॒ तूय॒मा ग᳚तम् ।
मो ष्व१॒᳚न्या{4} उपा᳚रतम् ॥
▶ पदपाठः (Word-by-word)
नि । सु । ब्रह्म᳚ । जना᳚नाम् । या । अवि᳚ष्टम् । तूय᳚म् । आ । ग॒त॒म् ।
मो इति᳚ । सु । अ॒न्यान् । उप᳚ । अ॒र॒त॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनौ या यौ युवां जनानां प्राणिनां मध्ये ब्रह्म ब्राह्मणजातिं सु सुष्ठु नि नितरां अविष्टं अरक्षिष्टम् यद्वा जनानां यजमनानां ब्रह्म परिवृढं स्तोत्रं हविर्लक्षणमन्नं वा यौ युवाम् न्यविष्टं न्यगच्छतम् अवतिर्गत्यर्थः तौ युवां तूयं क्षिप्रं आगतं अस्मानप्यागच्छतम् अन्यान् अस्मद्भ्यतिरिक्तान्यजमानान् मो मैव सूपारतम् उपगछतं कदाचिदपि मैव प्राप्नुतमित्यर्थः अर्तेर्माङि लुङि सर्तिशास्त्यर्तिभ्यश्चेति च्लेर- ङादेशः ॥ १३ ॥ आपराह्णिकेप्रवर्ग्ये घर्मस्यहविषोस्यपिबतमिति द्वितीया याज्या सूत्रितञ्च-अस्यपिबतमश्विनेतिचाप्रेषितोहोतेति ।

8.5.14
अ॒स्य पि᳚बतमश्विना यु॒वं मद᳚स्य॒ चारु᳚णः ।
मध्वो᳚ रा॒तस्य᳚ धिष्ण्या ॥
▶ पदपाठः (Word-by-word)
अ॒स्य । पि॒ब॒त॒म् । अ॒श्वि॒ना॒ । यु॒वम् । मद᳚स्य । चारु᳚णः ।
मध्वः᳚ । रा॒तस्य᳚ । धि॒ष्ण्या॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विना अश्विनौ हे धिष्ण्या धिषणा स्तुतिः तदर्हौ युवं युवां मदस्य मदकरस्य चारुणः शोभनस्य रातस्यास्माभिर्दत्तस्य अस्य मध्वो- मधुरस्य सोमस्य स्वांशलक्षणं भागं पिबतम् । यद्वा द्वितीयार्थेषष्ठी इमं सोमं पिबतम् ॥ १४ ॥

8.5.15
अ॒स्मे आ व᳚हतं र॒यिं श॒तव᳚न्तं सह॒स्रिण᳚म् ।
पु॒रु॒क्षुं वि॒श्वधा᳚यसम् ॥
▶ पदपाठः (Word-by-word)
अ॒स्मे इति᳚ । आ । व॒ह॒त॒म् । र॒यिम् । श॒त॑व᳚न्तम् । स॒ह॒स्रिण᳚म् ।
पु॒रु॒॑क्षुम् । वि॒श्व॑धा᳚यसम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनौ अस्मे अस्मभ्यं रयिं धनं आवहतम् आनयतम् कथंभूतं शतवन्तं शतसंख्योपेतं सहस्रिणं सहस्रसंख्योपेतंच पुरुक्षुम् बहुनिवासं यद्वा पुरुभिर्बहुभिः स्तुत्यं विश्वधायसं विश्वेषां सर्वेषामस्मदीयानां धारकं वहिहाधाञ्भ्यश्छन्दसीति दधातेरसुन् णिदित्यनुवृत्तेर्णि- द्वद्भावेनयुगागमः ॥ १५ ॥

8.5.16
पु॒रु॒त्रा चि॒द्धि वां᳚ नरा वि॒ह्वय᳚न्ते मनी॒षिणः᳚ ।
वा॒घद्भि᳚रश्वि॒ना ग᳚तम् ॥
▶ पदपाठः (Word-by-word)
पु॒रु॒॑त्रा । चि॒त् । हि । वा॒म् । न॒रा॒ । वि॒॑ह्वय᳚न्ते । म॒नी॒षिणः᳚ ।
वा॒घत्॑भिः᳚ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे नरा नरौ स्तोतॄणां धनस्य नेतारौ अश्विनौ मनीषिणोमनसईशितारः स्तोतारः वां युवां पुरुत्राचिद्धि बहुषु देशेषु विह्वयन्ते विविध- माह्वयन्ति तथासति हे अश्विनौ वाघद्भिः वाह्रकैरश्वैः आगत अस्मानेवागच्छतम् ॥ १६ ॥

8.5.17
जना᳚सो वृ॒क्तब᳚र्हिषो ह॒विष्म᳚न्तो अरं॒कृतः᳚ ।
यु॒वां ह᳚वन्ते अश्विना ॥
▶ पदपाठः (Word-by-word)
जना᳚सः । वृ॒क्त॑ब᳚र्हिषः । ह॒विष्म᳚न्तः । अ॒र॒म्॑कृतः᳚ ।
यु॒वाम् । ह॒व॒न्ते॒ । अ॒श्वि॒ना॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वृक्तबर्हिषः वृक्तं छिन्नं बर्हिर्यैस्ते तथोक्ताः हविष्मन्तो हविर्भिर्युक्ताः अरंकृतः पर्याप्तकारिणः यद्वा हविरादीनामलंकर्तारोजनासः ऋत्वि- ग्लक्षणाजनाः हे अश्विना अश्विनौ युवां हवन्ते आह्वयन्ति अताअगच्छतमितिशेषः ॥ १७ ॥

8.5.18
अ॒स्माक᳚म॒द्य वा᳚म॒यं स्तोमो॒ वाहि᳚ष्ठो॒ अन्त᳚मः ।
यु॒वाभ्यां᳚ भूत्वश्विना ॥
▶ पदपाठः (Word-by-word)
अ॒स्माक᳚म् । अ॒द्य । वा॒म् । अ॒यम् । स्तोमः᳚ । वाहि᳚ष्ठः । अन्त᳚मः ।
यु॒वाभ्या᳚म् । भू॒तु॒ । अ॒श्वि॒ना॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अद्येदानीं अस्माकं अयं स्तोमः अस्मदीयं स्तोत्रं हे अश्विनौ वां युवयोः वाहिष्ठः वाहयितृतमः प्रापयितृतमः सन् युवाभ्यां अन्तमः अन्ति- कतमः अतिशयेन समीपवर्ती भूतु भवतु तमेतादेश्चेति अन्तिकशब्दस्य तादिर्लुप्यते भवतेश्छान्दसः शपोलुक् ॥ १८ ॥

8.5.19
यो ह᳚ वां॒ मधु᳚नो॒ दृति॒राहि᳚तो रथ॒चर्ष᳚णे ।
ततः᳚ पिबतमश्विना ॥
▶ पदपाठः (Word-by-word)
यः । ह॒ । वा॒म् । मधु᳚नः । दृतिः᳚ । आ॑हि᳚तः । र॒थ॒॑चर्ष᳚णे ।
ततः᳚ । पि॒ब॒त॒म् । अ॒श्वि॒ना॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विना अश्विनौ रथचर्षणे स्थस्य चर्षणे द्रष्टव्ये मध्यदेशे योदृतिः मधुनः मधुरस्यास्माभिर्दत्तस्य सोमस्य संबन्धी तेन मधुना पूर्णः आहितः स्थापितोवर्तते ततोदृतेः सकाशात् सोमं पिबतं ॥ १९ ॥

8.5.20
तेन᳚ नो वाजिनीवसू॒ पश्वे᳚ तो॒काय॒ शं गवे᳚ ।
वह᳚तं॒ पीव᳚री॒रिषः᳚ ॥
▶ पदपाठः (Word-by-word)
तेन᳚ । नः॒ । वा॒जि॒नी॒व॒सू॒ इति᳚ वाजिनी॑वसू । पश्वे᳚ । तो॒काय᳚ । शम् । गवे᳚ ।
वह᳚तम् । पीव᳚रीः । इषः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वाजिनीवस् वाजोन्नं बलं वा तद्युक्तधनौ नोस्माकं पश्वे पशवे अश्वादिलक्षणाय जसादिषु छन्दसिवावचनमिति घेर्ङितीति गुणस्य विकल्पितत्वाद्यण् तोकाय पुत्राय गवेच जात्यभिप्रायं सर्वत्रैकवचनं पशुप्रभृतिभ्यः शं सुखं यथाभवति तथा पीवरीः प्रवृद्धानि इषोन्नानि तेन भवदीयेन रथेन आवहतं प्रापयतं दत्तमित्यर्थः ॥ २० ॥

8.5.21
उ॒त नो᳚ दि॒व्या इष᳚ उ॒त सिन्धू{4}᳚रहर्विदा ।
अप॒ द्वारे᳚व वर्षथः ॥
▶ पदपाठः (Word-by-word)
उ॒त । नः॒ । दि॒व्याः । इषः᳚ । उ॒त । सिन्धू᳚न् । अ॒हः॒॑वि॒दा॒ ।
अप᳚ । द्वारा᳚॑इव । व॒र्ष॒थः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतापिच हे अहर्विदा अह्नोलंभयितारौ यद्वा अह्नि प्रभातसमये वेदितव्यौ स्तोतव्यावश्विनौ दिव्याः दिविभवाः इषः इष्यमाणाअपः नोस्मदर्थं द्वारेव द्वारेणेव छिद्रेणेव अपवर्षथः मेघादपकृष्य युवां सिञ्चथः उतापिच सिन्धून् स्यन्दनशीलानदीः सुवृष्टैस्तैरुदकैरस्माकं स्नानपानादिकार्याय कृतवन्तावित्यर्थः ॥ २१ ॥

8.5.22
क॒दा वां᳚ तौ॒ग्र्यो वि᳚धत्समु॒द्रे ज᳚हि॒तो न᳚रा ।
यद्वां॒ रथो॒ विभि॒ष्पता᳚त् ॥
▶ पदपाठः (Word-by-word)
क॒दा । वा॒म् । तौ॒ग्र्यः । वि॒ध॒त् । स॒मु॒द्रे । ज॒हि॒तः । न॒रा॒ ।
यत् । वा॒म् । रथः᳚ । वि॑भिः᳚ । पता᳚त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे नरा नरौ नेतारावश्विनौ तौग्र्यः तुग्रपुत्रोभुज्युः समुद्रे जलधौ जहितः असुरैः प्रक्षिप्तः सन् कदा कस्मिन्काले वां युवां विधत् अविधत् स्तुतिभिः पर्यचरत् यत् यदा वां युवयोर्विभिः गन्तृभिः अश्वैरुपेतोरथः पतात् तंभुज्युं आनेतुं पतेत् गच्छेत् तदानीं भुज्युरस्तौदिति पूर्वेणार्धेन पृष्टस्य प्रतिवचनम् ॥ २२ ॥

8.5.23
यु॒वं कण्वा᳚य नासत्या॒ ऋपि᳚रिप्ताय ह॒र्म्ये ।
शश्व᳚दू॒तीर्द᳚शस्यथः ॥
▶ पदपाठः (Word-by-word)
यु॒वम् । कण्वा᳚य । ना॒स॒त्या॒ । अपि᳚॑रिप्ताय । ह॒र्म्ये ।
शश्व᳚त् । ऊ॒तीः । द॒श॒स्य॒थः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे नासत्या सत्सु साधुषु सत्यौ नसत्यावसत्यौ न असत्यौ नासत्यौ नभ्राण्नपादिति नञः प्रकृतिभावः यद्वा सत्यस्य नेतारौ नासिकाप्र- भवौ वा उक्तंच भगवतायास्केन-सत्यावेवनासत्यावित्यौर्णवाभः सत्यस्यप्रणेतारावित्याग्रायणोनासिकाप्रभवौवेति । तौ युवं कण्वाय एतत्संज्ञाय ऋषये हर्म्ये हर्म्यतले अपिरिप्ताय असुरैर्बाधिताय शश्वत् शश्वतीर्बह्वीः ऊतीः रक्षाः दशस्यथः दत्तवंतौ । युवंकण्वायापिरिप्तायचक्षुःप्रत्यधत्तमित्यत्रेतिहासउक्तःसोत्रद्रष्टव्यः ॥ २३ ॥

8.5.24
ताभि॒रा या᳚तमू॒तिभि॒र्नव्य᳚सीभिः सुश॒स्तिभि᳚ः ।
यद्वां᳚ वृषण्वसू हु॒वे ॥
▶ पदपाठः (Word-by-word)
ताभिः᳚ । आ । या॒त॒म् । ऊ॒ति॑भिः᳚ । नव्य᳚सीभिः । सु॒श॒स्ति॑भिः᳚ ।
यत् । वा॒म् । वृ॒ष॒ण्व॒सू॒ इति᳚ वृषण्॑वसू । हु॒वे ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वृषण्वसु वर्षणधनौ वृषण्वस्वश्वयोरुपसंख्यानमिति वृषण् भावोनिपात्यते तदानीं ताभिः पूर्वोक्ताभिर्नव्यसीभिर्नवतराभिः सुश- स्तिभिः सुप्रशस्याभिः ऊतिभीरक्षाभिः सार्धं आयातं आगच्छतम् यद्यदा वां हुवे स्तुतिभिराह्वयामि ॥ २४ ॥

8.5.25
यथा᳚ चि॒त्कण्व॒माव᳚तं प्रि॒यमे᳚धमुपस्तु॒तम् ।
अत्रिं᳚ शि॒ञ्जार᳚मश्विना ॥
▶ पदपाठः (Word-by-word)
यथा᳚ । चि॒त् । कण्व᳚म् । आव᳚तम् । प्रि॒य॑मे᳚धम् । उ॒प॒॑स्तु॒तम् ।
अत्रि᳚म् । शि॒ञ्जार᳚म् । अ॒श्वि॒ना॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विना अश्विनौ यथाचित् येन खलु प्रकारेण कण्वं एतत्संज्ञमृषिं आवतम् अरक्षतम् प्रियमेधं प्रिययज्ञं एतत्सज्ञंच उपस्तुतं एतदाख्यंच शिञ्जारं शब्दयन्तं स्तुवन्तं अत्रिं एतानृषींश्च येनप्रकारेणारक्षतं तथास्मानपि रक्षतमिति शेषः यद्वा एतावद्वांवृषण्वसू इत्यनयैकवाक्यता ॥ २५ ॥

8.5.26
यथो॒त कृत्व्ये॒ धनें॒॑शुं गोष्व॒गस्त्य᳚म् ।
यथा॒ वाजे᳚षु॒ सोभ᳚रिम् ॥
▶ पदपाठः (Word-by-word)
यथा᳚ । उ॒त । कृत्व्ये᳚ । धने᳚ । अं॒शुम् । गोषु᳚ । अ॒गस्त्य᳚म् ।
यथा᳚ । वाजे᳚षु । सोभ᳚रिम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतापिच यथा येनप्रकारेण धने कृत्व्ये कर्तव्ये प्राप्तव्ये सति अंशुं एतत्संज्ञं स्तोतारं आवतं अरक्षतम् । गोषु च लब्धव्यासु यथा अगस्त्यमृषिं अरक्षतम् वाजेष्वन्नेषु लब्धव्येषु यथा येन प्रकारेण सोभरिं एतत्संज्ञमृषिंचारक्षतम् अत्रापि पूर्ववद्वाक्यशेषः उत्तरयैकवाक्यता वा ॥ २६ ॥

8.5.27
ए॒ताव᳚द्वां वृषण्वसू॒ अतो᳚ वा॒ भूयो᳚ अश्विना ।
गृ॒णन्त᳚ः सु॒म्नमी᳚महे ॥
▶ पदपाठः (Word-by-word)
ए॒ताव᳚त् । वा॒म् । वृ॒ष॒ण्व॒सू॒ इति᳚ वृषण्॑वसू । अतः᳚ । वा॒ । भूयः᳚ । अ॒श्वि॒ना॒ ।
गृ॒णन्तः᳚ । सु॒म्नम् । ई॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वृषण्वसू वर्षणधनौ अश्विना अश्विनौ गृणन्तः स्तुवन्तोवयं एतावत् यथाचित्कण्वमित्यादिना यावदनुक्रान्तम् एतत्परिमाणं सुम्नं सुखं अतोवा अस्माद्वा भूयोबहुतरमधिकं सुम्नं वां युवां ईमहे याचामहे ॥ २७ ॥

8.5.28 समानपद
रथं॒ हिर᳚ण्यवन्धुरं॒ हिर᳚ण्याभीशुमश्विना ।
आ हि स्थाथो᳚ दिवि॒स्पृश᳚म् ॥
▶ पदपाठः (Word-by-word)
रथ᳚म् । हिर᳚ण्य॑वन्धुरम् । हिर᳚ण्य॑अभीशुम् । अ॒श्वि॒ना॒ ।
आ । हि । स्थाथः᳚ । दि॒वि॒॑स्पृश᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विना अश्विनौ हिरण्यवन्धुरं सारथिस्थानं वन्धुरं हिरण्यसारथिस्थानं हिरण्याभीशुं हिरण्मयप्रग्रहं दिविस्पृशं अत्युन्नतत्वाद्दिवं स्पृशन्तम् स्पृशेः क्विन् दिव् शब्दात् द्वितीयार्थेसप्तमी हृद्युभ्यांङेरुपसंख्यानमितिलुक् ईदृशं रथं आहिस्थाथः युवामातिष्ठथ एव हिरवधारणे अस्मदीयां स्तुतिं श्रेतुं शीघ्रं रथमास्थायागतमितिभावः । ष्ठागतिनिवृत्तौ लटि छान्दसः शपोलुक् ॥ २८ ॥

8.5.29
हि॒र॒ण्ययी᳚ वां॒ रभि᳚री॒षा अक्षो᳚ हिर॒ण्ययः᳚ ।
उ॒भा च॒क्रा हि᳚र॒ण्यया᳚ ॥
▶ पदपाठः (Word-by-word)
हि॒र॒ण्ययी᳚म् । वा॒म् । रभिः᳚ । ई॒षा । अक्षः᳚ । हि॒र॒ण्ययः᳚ ।
उ॒भा । च॒क्रा । हि॒र॒ण्यया᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनौ वां युवयोः रभिः आरंभणीया आलभनभूता रथस्य ईषा हिरण्ययी हिरण्मयी हिरण्यविकारा अक्षश्च हिरण्ययः हिरण्मयः हिरण्यनिर्मितः ईषा अक्षादिषु छन्दसीति प्रकृतिभावः । अपिच उभा उभे द्वे अपि चक्रा चक्रे रथचरणे हिरण्यया हिरण्मये सुवर्ण- निर्मिते सुपांसुलुगिति द्विवचनस्याकारः ऋत्व्यवास्त्व्यवास्त्वेत्यादिना हिरण्यशब्दान्ममटोमलोपोनिपात्यते ॥ २९ ॥

8.5.30
तेन᳚ नो वाजिनीवसू परा॒वत᳚श्चि॒दा ग᳚तम् ।
उपे॒मां सु᳚ष्टु॒तिं मम᳚ ॥
▶ पदपाठः (Word-by-word)
तेन᳚ । नः॒ । वा॒जि॒नी॒व॒सू॒ इति᳚ वाजिनी॑वसू । प॒रा॒॑वतः᳚ । चि॒त् । आ । ग॒त॒म् ।
उप᳚ । इ॒माम् । सु॒॑स्तु॒तिम् । मम᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वाजिनीवसू अन्नवद्धनावश्विनौ यउक्तो हिरण्मयसर्वावयवोरथः तेन रथेन नोस्मान् परावतश्चित् दूरदेशादपि आगतमागच्छतम् गमेश्छान्दसः शपोलुक् अनुदात्तोपदेशेत्यनुनासिकलोपः इदानीमृषिरेकवदाह मम मदीयां इमां इदानीं क्रियमाणां सुष्टुतिं शोभनां स्तुतिं चोपगच्छतम् ॥ ३० ॥

8.5.31
आ व᳚हेथे परा॒कात्पू॒र्वीर॒श्नन्ता᳚वश्विना ।
इषो॒ दासी᳚रमर्त्या ॥
▶ पदपाठः (Word-by-word)
आ । व॒हे॒थे॒ इति᳚ । प॒रा॒कात् । पू॒र्वीः । अ॒श्नन्तौ᳚ । अ॒श्वि॒ना॒ ।
इषः᳚ । दासीः᳚ । अ॒म॒र्त्या॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अमर्त्या अमरणौ अश्विना अशिनौ दासीः दासाउपक्षपयितारोसुराः तत्संबन्धिनीः पूर्वीः पुरीः अश्नन्तौ भक्षयन्तौ भंजन्तौ युवाम् इषोन्नानि पराकात् परागताद्दूरदेशात् आवहेथे अस्मान् प्रापयथः । यद्वा अश्नन्तौ व्याप्नुवन्तौ अशू व्याप्तौ अस्माव्द्यत्ययेनश्ना पर- स्मैपदंच पूर्वीर्बह्वीः दासीः दासस्योपक्षपयितुः शत्रोः सम्बन्धिनीः इषोन्नानि शत्रुभ्योपत्दृत्यास्मान्प्रापयथः ॥ ३१ ॥

8.5.32
आ नो᳚ द्यु॒म्नैरा श्रवो᳚भि॒रा रा॒या या᳚तमश्विना ।
पुरु᳚श्चन्द्रा॒ नास᳚त्या ॥
▶ पदपाठः (Word-by-word)
आ । नः॒ । द्यु॒म्नैः । आ । श्रवः᳚॑भिः । आ । रा॒या । या॒त॒म् । अ॒श्वि॒ना॒ ।
पुरु᳚॑चन्द्रा । नास᳚त्या ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे पुरुश्चन्द्रा बहुहिरण्यौ यद्वा पुरूणां बहूनामाह्लादकौ ह्रस्वाच्चन्द्रोत्तरपदेमन्त्रे इतिसुट् पादादित्वात्षाष्ठिकमामंत्रिताद्युदात्तत्वं हे नासत्या सत्यस्वभावौ सत्यस्य नेतारौ नासिका प्रभवौ वा । आमन्त्रितं पूर्वमविद्यमानवदिति पूर्वस्यामन्त्रितस्याविद्यमानवद्भावात् इदमत्यामन्त्रितमाद्युदात्तम् न च नामन्त्रिते समानाधिकरणइत्यविद्यमानवत्वनिषेधः पुरुश्चन्द्रेत्यस्यविशेषवचनत्वात् ईदृशौ हे अश्विना अश्विनौ द्युम्नै र्द्योतमानैः अन्नैर्दातव्यैः सार्धं नोस्मानायातमागच्छतम् तथा श्रवोभिः श्रवणीयैर्यशोभिश्चास्मानागच्छतम् तथा राया धनने च अस्मानागच्छतम् ॥ ३२ ॥

8.5.33
एह वां᳚ प्रुषि॒तप्स᳚वो॒ वयो᳚ वहन्तु प॒र्णिनः᳚ ।
अच्छा᳚ स्वध्व॒रं जन᳚म् ॥
▶ पदपाठः (Word-by-word)
आ । इ॒ह । वा॒म् । प्रु॒षि॒त॑प्स᳚वः । वयः᳚ । व॒ह॒न्तु॒ । प॒र्णिनः᳚ ।
अच्छ᳚ । सु॒॑अ॒ध्व॒रम् । जन᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनौ इहास्मिन्यागे वां युवां प्रुषितप्सवः प्रुषि स्नेहनकर्मा स्निग्धरूपाः पर्णिनः पक्षोपेताः यद्वा लुप्तोपममेतत् पक्षिणइव शीघ्र- गामिनोवयो गन्तारोश्वाः स्वध्वरं शोभनयज्ञं जनं यजमानलक्षणं अच्छाभिमुखं आवहन्तु आनयन्तु ॥ ३३ ॥

8.5.34
रथं᳚ वा॒मनु᳚गायसं॒ य इ॒षा वर्त᳚ते स॒ह ।
न च॒क्रम॒भि बा᳚धते ॥
▶ पदपाठः (Word-by-word)
रथ᳚म् । वा॒म् । अनु᳚॑गायसम् । यः । इ॒षा । वर्त᳚ते । स॒ह ।
न । च॒क्रम् । अ॒भि । बा॒ध॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनौ योरथः अस्मभ्यं देयेनान्नेन सहवर्तते वां युवयोःस्वभूतं अनुगायसं स्तोतृभिरनुगातव्यं तं रथं चक्रं परसैन्यं नाभिबाधते नाभिहन्ति । यद्वा चक्रं वीर्यकर्मसाधनं घञर्थेकविधानमितिकः कृञादीनांकइतिद्विर्वचनम् अस्मिन् पक्षे अन्यः शत्रुरिति कर्तृपदमध्या- हर्तव्यम् ॥ ३४ ॥

8.5.35
हि॒र॒ण्यये᳚न॒ रथे᳚न द्र॒वत्पा᳚णिभि॒रश्वै᳚ः ।
धीज᳚वना॒ नास᳚त्या ॥
▶ पदपाठः (Word-by-word)
हि॒र॒ण्यये᳚न । रथे᳚न । द्र॒वत्पा᳚णि॑भिः । अश्वैः᳚ ।
धी॑ज᳚वना । नास᳚त्या ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे धीजवना मनोवद्वेगवन्तौ आमन्त्रिताद्युदात्तत्वम् हे नासत्या सत्यस्वभावौ सत्यस्य नेतारौ वा आमन्त्रितं पूर्वमविद्यमानवदिति पूर्वस्याविद्यमानवत्त्वेन पदादपरत्वात् आष्टमिकनिघाताभावः न च नामन्त्रितइत्यविद्यमानवत्वनिषेधः धीजवनेत्यस्यविशेषणत्वेन सामान्यवचनत्वाभावात् व्यावतकंहि विशेषणम् ईदृशौ युवां द्रवत्पाणिभिः शीघ्रगमनपादैरश्वैर्युक्तेन हिरण्ययेन हिरण्मयेन स्वर्णमयेन रथेनागच्छतमितिशेषः । यद्वा धीजवना नासत्येत्येतत् द्वयमपि प्रथमांतमेव नामन्त्रितम् धियोजवइव जवोययोस्तौ बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । इदृशेन रथेन शीघ्रगमनौ अश्विनौ आगच्छतमिति शेषः ॥ ३५ ॥

8.5.36
यु॒वं मृ॒गं जा᳚गृ॒वांसं॒ स्वद᳚थो वा वृषण्वसू ।
ता नः᳚ पृङ्क्तमि॒षा र॒यिम् ॥
▶ पदपाठः (Word-by-word)
यु॒वम् । मृ॒गम् । जा॒गृ॒॑वांसम् । स्वद᳚थः । वा॒ । वृ॒ष॒ण्व॒सू॒ इति᳚ वृषण्॑वसू ।
ता । नः॒ । पृ॒ङ्क्त॒म् । इ॒षा । र॒यिम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

वाशब्दः समुच्चये अपिच हे वृषण्वसू वर्षणधनावश्विनौ युवं युवां जागृवांसं जागरणशीलं स्वकार्ये मदजननेऽव्यग्रं मृगं मृग्यमन्वेषणीयं सोमं स्वदथः आस्वादयथः । यद्वा जागृवांसं जाग्रतं मृगं मृगनामानमसुरं स्वदथः स्वादयथः हिंस्थइत्यर्थः । ता तौ युवां नोस्मदर्थं इषा अन्नेन रयिं धनं पृङ्क्तं संपृक्तं कुरुतं ईदृशं धनं अस्मभ्यं प्रयच्छतमित्यर्थः ॥ ३६ ॥

8.5.37
ता मे᳚ अश्विना सनी॒नां वि॒द्यातं॒ नवा᳚नाम् ।
यथा᳚ चिच्चै॒द्यः क॒शुः श॒तमुष्ट्रा᳚नां॒ दद᳚त्स॒हस्रा॒ दश॒ गोना᳚म् ॥
▶ पदपाठः (Word-by-word)
ता । मे॒ । अ॒श्वि॒ना॒ । स॒नी॒नाम् । वि॒द्यात᳚म् । नवा᳚नाम् ।
यथा᳚ । चि॒त् । चै॒द्यः । क॒शुः । श॒तम् । उष्ट्रा᳚नाम् । दद᳚त् । स॒हस्रा᳚ । दश᳚ । गोना᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विना अशिनौ ता तादृशौ युवां नवानां अभिनवानां श्रेष्ठानां सनीनां संभजनीयानां धनानां कर्मणि षष्ठी ईदृशानि धनानि मे मत्द्यं दापयितुं विद्यातं जानीतं यथाचित् येन खलु प्रकारेण चैद्यः चेदिपुत्रः कशुः एतत्संज्ञोराजा उष्ट्रानां शतं तथा गोनां गवां दशसहस्रा दशसंख्यानि सहस्राणि ददत् दद्यात् तथा विद्यातमिति पूर्वत्रान्वयः ॥ ३७ ॥

8.5.38
यो मे॒ हिर᳚ण्यसंदृशो॒ दश॒ राज्ञो॒ अमं᳚हत ।
अ॒ध॒स्प॒दा इच्चै॒द्यस्य᳚ कृ॒ष्टय᳚श्चर्म॒म्ना अ॒भितो॒ जना᳚ः ॥
▶ पदपाठः (Word-by-word)
यः । मे॒ । हिर᳚ण्य॑सन्दृशः । दश᳚ । राज्ञः॒᳚ । अमं᳚हत ।
अ॒धः॒॑प॒दाः । इत् । चै॒द्यस्य᳚ । कृ॒ष्टयः᳚ । च॒र्म॒॑म्नाः । अ॒भितः᳚ । जनाः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यः कशुसंज्ञोराजा मे मत्द्यं हिरण्यसन्दृशः हिरण्यसंदर्शनान् हिरण्यसमानतेजस्कान् दशराज्ञः अमंहत परिचरणार्थं दत्तवान् दशसंख्या- कान् राज्ञोयुद्धे पराजितान् गृहीत्वा दासत्वेन अस्मै दत्तवानित्यर्थः । ननु ईदृशानां बहुविधानां राज्ञां दाने एकः कथं शक्रुयादिति तत्राह कृष्टयः सर्वाः प्रजाः तस्य चैद्यस्य चेदिपुत्रस्य कशोः अधस्पदा इत् पादयोरधस्तादेव वर्तन्ते नकश्चिदपि तत्समानस्तदधिकोवा विद्यते । अभितः सर्वतोवर्तमानाजनाः चर्मम्नाः चर्ममयस्यकवचादेर्धारणे कृताभ्यासाः । यद्वा चर्माणि चरणसाधनान् पश्वादीनि वाहनानि तेषु मनन्त्यभ्यस्यन्तीति चर्मम्नाः म्नाअभ्यासे आतोमनिन्नितिविच् सर्वेमनुष्यास्तस्य भटाइत्यर्थः ॥ ३७ ॥

8.5.39
माकि᳚रे॒ना प॒था गा॒द्येने॒मे यन्ति᳚ चे॒दयः᳚ ।
अ॒न्यो नेत्सू॒रिरोह᳚ते भूरि॒दाव᳚त्तरो॒ जनः᳚ ॥
▶ पदपाठः (Word-by-word)
माकिः᳚ । ए॒ना । प॒था । गा॒त् । येन᳚ । इ॒मे । यन्ति᳚ । चे॒दयः᳚ ।
अ॒न्यः । न । इत् । सू॒रिः । ओह᳚ते । भू॒रि॒दाव᳚त्॑तरः । जनः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

येन मार्गेण इमे चेदयः अस्य राज्ञः पितृपितामहादयोयन्ति गच्छन्ति एना अनेन पथा मार्गेण माकिर्गात् अन्योनगन्तुं शक्रोति अपिचा- स्माद्राज्ञः अन्यः भूरिदावत्तरः बहुदातृतमः सूरिर्विद्वान् सन् जनः नेत् नैव ओहते वहति स्तोतृभ्योधनं प्रापयति । यद्वा बहुदातृत- मोयोजनः कशुर्नाम अस्मादन्यः व्यत्ययेन प्रथमा अन्यं सूरिः स्तोता नैवौहते नैव याचते ओहिर्याच्चाकर्मा यथान्यं न याचते तथा बहुधनं प्रयच्छतीत्यर्थः ॥ ३९ ॥

द्वितीयानुवाके सप्त सूक्तानि । तत्र महांइन्द्रइति अष्टाचत्वारिंशदृचं प्रथमं सूक्तं काण्वस्य वत्सस्यार्षं गायत्रं अन्त्यतृचवर्जमैन्द्रं तस्मिन्परशुनाम्नोराज्ञः पुत्रस्य तितिन्दिरस्य दानं स्तूयते अतःसतृचस्तद्देवताकः । तथाचानुक्रान्तम्-महाँइन्द्रोष्टाचत्वारिंशद्वत्सस्तृ- चोन्त्यस्तिरिन्दिरस्य पारशव्यस्य दानस्तुतिरिति । महाव्रते गायत्रतृचाशीतौ अन्त्यतृचवर्जमिदं सूक्तम् तथैवपञ्चमारण्यकेसूत्र्यते- महाँइन्द्रोयओजसेति तिस्रउत्तमाउद्धरतीति । प्रातःसवने सोमातिरेके महानित्यादिकाः स्तोमातिशंसनार्थाः सूत्रितञ्च-महाँइन्द्रोय- ओजसा अतोदेवाअवन्तुनइत्यैन्द्रीभिर्वैष्णवीभिश्च स्तोममतिशस्येति । तृतीयेपर्याये होतुःशस्त्रे महाँइन्द्रइति तृचोनुरूपः सूत्रितं च महाँइन्द्रोयओजसासमस्यमन्यवेविशइतीति । अप्तोर्यामे ब्रह्मणोतिरिक्तोक्थे अयमेव तृचोनुरूपः सूत्र्यतेहि-महाँइन्द्रोयओजसानूनम- श्विनोरिति । दर्शयागे महेन्द्रयाजिनः सान्नाय्यस्य महानित्येषानुवाक्या सूत्र्यतेहि-महाँइन्द्रोयओजसाभुवस्त्वमिन्द्रब्रह्मणामहानिति ।