श्रवणम्

8.5.36
यु॒वं मृ॒गं जा᳚गृ॒वांसं॒ स्वद᳚थो वा वृषण्वसू ।
ता नः᳚ पृङ्क्तमि॒षा र॒यिम् ॥
▶ पदपाठः (Word-by-word)
यु॒वम् । मृ॒गम् । जा॒गृ॒॑वांसम् । स्वद᳚थः । वा॒ । वृ॒ष॒ण्व॒सू॒ इति᳚ वृषण्॑वसू ।
ता । नः॒ । पृ॒ङ्क्त॒म् । इ॒षा । र॒यिम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

वाशब्दः समुच्चये अपिच हे वृषण्वसू वर्षणधनावश्विनौ युवं युवां जागृवांसं जागरणशीलं स्वकार्ये मदजननेऽव्यग्रं मृगं मृग्यमन्वेषणीयं सोमं स्वदथः आस्वादयथः । यद्वा जागृवांसं जाग्रतं मृगं मृगनामानमसुरं स्वदथः स्वादयथः हिंस्थइत्यर्थः । ता तौ युवां नोस्मदर्थं इषा अन्नेन रयिं धनं पृङ्क्तं संपृक्तं कुरुतं ईदृशं धनं अस्मभ्यं प्रयच्छतमित्यर्थः ॥ ३६ ॥