अष्टमं मण्डलम् - सूक्तम् 98

12 ऋचः

ऋषिः: नृमेधः देवता: इंद्रः छन्दः: उष्णिक्

सूक्तम् 8.98 - सम्पूर्णम्

1 / 12
ऋक्: 8.98.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (12)
8.98.1
इन्द्रा᳚य॒ साम᳚ गायत॒ विप्रा᳚य बृह॒ते बृ॒हत् ।
ध॒र्म॒कृते᳚ विप॒श्चिते᳚ पन॒स्यवे᳚ ॥
▶ पदपाठः (Word-by-word)
इन्द्रा᳚य । साम᳚ । गा॒य॒त॒ । विप्रा᳚य । बृ॒ह॒ते । बृ॒हत् ।
ध॒र्म॒॑कृते᳚ । वि॒पः॒॑चिते᳚ । प॒न॒स्यवे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यस्यनिःश्वसितंवेदा योवेदेभ्योखिलंजगत् । निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ १ ॥

अथ षष्ठस्य सप्तमोध्यायआरभ्यते तत्र इन्द्रायेति द्वादशर्चं पंचमं सूक्तं आंगिरसस्य नृमेधस्यार्षं ऎन्द्रं सप्तमी दशम्येकादश्यौ च तिस्रः ककुभः । मध्यमपादस्य द्वादशाक्षरत्वात् मध्यमश्चेत्ककुबितिहि तल्लक्षणम् । नवमीद्वादश्यौ पुरउष्णिहौ प्रथमपादस्य द्वादशाक्षरत्वात् आद्यश्चेत्पुरउ- ष्णिगितिहि तल्लक्षणम् । शिष्टाउष्णिहः । तथाचानुक्रम्यते-इन्द्रायद्वादश नृमेधऔष्णिहं सप्तम्युपान्त्येच ककुभोन्त्यानवम्यौ पुरउष्णिहाविति । महाव्रते औष्णिहतृचाशीताविदंसूक्तम् । तथैवपंचमारण्यकेसूत्रितं-इन्द्रायसामगायत सखायआशिषामहीति । आभिप्लविकेषूक्थ्येषु तृतीयसवने ब्राह्मणाच्छंसिन इन्द्रायसामगायतेति वैकल्पिकः स्तोत्रियस्तृचः । सूत्रितंचइन्द्रायसामगायत सखायआशिषामहीति । पूर्वोक्तस्यैव ब्राह्मणाच्छंसिन आभिप्लविकेषूक्थ्येष्वेन्द्रनोगधीति वैकल्पिकःस्तोत्रियः । सूत्रितंच-एन्द्रनोगध्येदुमध्वोमदिन्तरमिति । उक्थे तृतीयसवनेच्छावाकस्याधाहीन्द्रेति स्तोत्रियस्तृचः । सूत्रितंच-अधाहीन्द्रगिर्वण इयंतइन्द्रगिर्वणइति । पूर्वोक्तएवशस्त्रे त्वंनइन्द्राभरेतितृचो वैकल्पिकःस्तोत्रियः । सूत्रितंच-त्वंनइ- न्द्राभर वयमुत्वामपूर्व्य योनइदमिदंपुरेति ।

हे उद्गातारः विप्राय मेधाविने बृहते महते धर्मकृते कर्मणः कर्त्रे विपश्चिते विदुषे पनस्यवे स्तुतिमिच्छते इन्द्राय बृहत् बृहन्नामकं साम गायत पठत ॥ १ ॥

8.98.2
त्वमि᳚न्द्राभि॒भूर᳚सि॒ त्वं सूर्य᳚मरोचयः ।
वि॒श्वक᳚र्मा वि॒श्वदे᳚वो म॒हा{4} अ᳚सि ॥
▶ पदपाठः (Word-by-word)
त्वम् । इ॒न्द्र॒ । अ॒भि॒॑भूः । अ॒सि॒ । त्वम् । सूर्य᳚म् । अ॒रो॒च॒यः॒ ।
वि॒श्व॑क᳚र्मा । वि॒श्व॑दे᳚वः । म॒हान् । अ॒सि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वं अभिभूः शत्रूणामभिभवितासि भवसि । किंच त्वं सूर्यमादित्यमरोचयः तेजोभिरदीपयः । किंच विश्वकर्मा विश्वस्य कर्तासि विश्वदेवः सर्वदेवश्चासि । तथाच यजुर्ब्राह्मणं-अग्निंवा अन्वन्यादेवता इन्द्रमन्वन्याइति । अतोमहान् सर्वाधिकोसि ॥ २ ॥

8.98.3
वि॒भ्राज॒ञ्ज्योति᳚षा॒ स्व१॒᳚रग᳚च्छो रोच॒नं दि॒वः ।
दे॒वास्त᳚ इन्द्र स॒ख्याय᳚ येमिरे ॥
▶ पदपाठः (Word-by-word)
वि॒॑भ्राज᳚न् । ज्योति᳚षा । स्वः᳚ । अग᳚च्छः । रो॒च॒नम् । दि॒वः ।
दे॒वाः । ते॒ । इ॒न्द्र॒ । स॒ख्याय᳚ । ये॒मि॒रे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वं ज्योतिषा तेजसा दिवआदित्यस्य रोचनं प्रकाशकमधिकरणत्वेन स्वः स्वर्गं विभ्राजन् प्रकाशयन् अगच्छः अप्राप्नोः । किंच देवाः सर्वे ते तव सख्याय मित्रत्वाय येमिरे स्वंस्वमात्मानं नियमितवन्तः । अस्माकमिन्द्रः सखा यथास्यादिति सर्वे देवाः प्रयत्नमकार्षुरित्यर्थः ॥ ३ ॥

8.98.4
एन्द्र᳚ नो गधि प्रि॒यः स᳚त्रा॒जिदगो᳚ह्यः ।
गि॒रिर्न वि॒श्वत᳚स्पृ॒थुः पति᳚र्दि॒वः ॥
▶ पदपाठः (Word-by-word)
आ । इ॒न्द्र॒ । नः॒ । ग॒धि॒ । प्रि॒यः । स॒त्रा॒॑जित् । अगो᳚ह्यः ।
गि॒रिः । न । वि॒श्वतः᳚ । पृ॒थुः । पतिः᳚ । दि॒वः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र प्रियः प्रियतमः सत्राजित् महतां जेता अगोह्यः केनापि गूहितुमशक्यो गिरिनं पर्वतइव विश्वतः सर्वतः पृथुः पृथुतमोदिवः स्वर्गस्य पतिरीश्वरस्त्वं नोस्मानागधि आगच्छ ॥ ४ ॥

8.98.5
अ॒भि हि स᳚त्य सोमपा उ॒भे ब॒भूथ॒ रोद᳚सी ।
इन्द्रासि᳚ सुन्व॒तो वृ॒धः पति᳚र्दि॒वः ॥
▶ पदपाठः (Word-by-word)
अ॒भि । हि । स॒त्य॒ । सो॒म॒॑पाः॒ । उ॒भे इति᳚ । ब॒भूथ᳚ । रोद᳚सी॒ इति᳚ ।
इन्द्र᳚ । असि᳚ । सु॒न्व॒तः । वृ॒धः । पतिः᳚ । दि॒वः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सत्य सोमपाः सोमस्य पातरिन्द्र यस्त्वं उभे रोदसी द्यावापृथिव्यौ अभि बभूथ सामर्थ्येनाभिभवसि सत्वं सुन्वतः सोमाभिषवं कुर्वतो यजमानस्य वृधोवर्धकोसि दिवः स्वर्गस्यापि पतिरीश्वरोसि ॥ ५ ॥

8.98.6
त्वं हि शश्व᳚तीना॒मिन्द्र᳚ द॒र्ता पु॒रामसि᳚ ।
ह॒न्ता दस्यो॒र्मनो᳚र्वृ॒धः पति᳚र्दि॒वः ॥
▶ पदपाठः (Word-by-word)
त्वम् । हि । शश्व᳚तीनाम् । इन्द्र᳚ । द॒र्ता । पु॒राम् । असि᳚ ।
ह॒न्ता । दस्योः᳚ । मनोः᳚ । वृ॒धः । पतिः᳚ । दि॒वः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वं शश्वतीनां बह्वीनां पुरां शत्रुनगरीणां दर्तासि दारयिता भवसि । किंच दस्योः उपक्षपयितुरसुरस्य हंतासि घातकोभवसि मनोर्म- नुष्यस्य यागादिकं कुर्वतो वृधोवर्धकश्चासि दिवः स्वर्गस्यापि पतिरीश्वरोसि ॥ ६ ॥

8.98.7
अधा॒ ही᳚न्द्र गिर्वण॒ उप᳚ त्वा॒ कामा᳚न्म॒हः स᳚सृ॒ज्महे᳚ ।
उ॒देव॒ यन्त᳚ उ॒दभि᳚ः ॥
▶ पदपाठः (Word-by-word)
अध᳚ । हि । इ॒न्द्र॒ । गि॒र्व॒णः॒ । उप᳚ । त्वा॒ । कामा᳚न् । म॒हः । स॒सृ॒ज्महे᳚ ।
उ॒दा॑इ᳚व । यन्तः᳚ । उ॒द॑भिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे गिर्वणो गीर्भिर्वननीयेन्द्र अधाहि संप्रतिहि त्वा त्वां महोमहतः कामान् कमनीयान् स्तोमान् उपससृज्महे उपसृजामः प्रापयामइत्यर्थः । तत्र दृष्टान्तमाह-उदेव यथा उदकेन यन्तोगच्छन्तः उदभिः अञ्चलिनोत्क्षिप्योदकैः समीपस्थान् पुरुषान् क्रीडार्थं संसृजन्ति तद्वदित्यर्थः ॥ ७ ॥

8.98.8
वार्ण त्वा᳚ य॒व्याभि॒र्वर्ध᳚न्ति शूर॒ ब्रह्मा᳚णि ।
वा॒वृ॒ध्वांसं᳚ चिदद्रिवो दि॒वेदि᳚वे ॥
▶ पदपाठः (Word-by-word)
वाः । न । त्वा॒ । य॒व्याभिः᳚ । वर्ध᳚न्ति । शू॒र॒ । ब्रह्मा᳚णि ।
व॒वृ॒ध्वांस᳚म् । चि॒त् । अ॒द्रि॒॑वः॒ । दि॒वे॑दि᳚वे ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अद्रिवो वज्रिन् शूरेन्द्र वार्ण यथोदकमुदकस्थानं यव्याभिर्नदीभिः । अवनयः यव्याः इति नदीनामसुपाठात् । वर्धन्ति वर्धयन्ति । तथा ब्रह्माणि स्तोत्रैर्ववृध्वांसं चित् यथा निरुदकं देशं नदीभिस्तथा न । किंतु प्रवृद्धमेव त्वां दिवेदिवे अन्वहं वर्धयन्ति स्तोतारोवर्धयन्ति ॥ ८ ॥

8.98.9
यु॒ञ्जन्ति॒ हरी᳚ इषि॒रस्य॒ गाथ᳚यो॒रौ रथ᳚ उ॒रुयु᳚गे ।
इ॒न्द्र॒वाहा᳚ वचो॒युजा᳚ ॥
▶ पदपाठः (Word-by-word)
यु॒ञ्जन्ति᳚ । हरी॒ इति᳚ । इ॒षि॒रस्य᳚ । गाथ᳚या । उ॒रौ । रथे᳚ । उ॒रु॑यु᳚गे ।
इ॒न्द्र॒॑वाहा᳚ । व॒चः॒॑युजा᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

इषिरस्य गमनशीलस्य इन्द्रस्य उरुयुगे महायुगे उरौ महति रथे इन्द्रवाहा इन्द्रस्य वाहनभूतौ वचोयुजा वचनमात्रेणैव युज्यमानौ हरी अश्वौ गाथया स्तोत्रेण स्तोतारोयुञ्चन्ति योजयन्ति ॥ ९ ॥

8.98.10
त्वं न᳚ इ॒न्द्रा भ᳚र{4}॒ ओजो᳚ नृ॒म्णं श᳚तक्रतो विचर्षणे ।
आ वी॒रं पृ᳚तना॒षह᳚म् ॥
▶ पदपाठः (Word-by-word)
त्वम् । नः॒ । इ॒न्द्र॒ । आ । भ॒र॒ । ओजः᳚ । नृ॒म्णम् । श॒त॒क्र॒तो॒ इति᳚ शत॑क्रतो । वि॒॑च॒र्ष॒णे॒ ।
आ । वी॒रम् । पृ॒त॒ना॒॑सह᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे शतक्रतो बहुकर्मन् विचर्षणे विद्रष्टरिन्द्र त्वं नोस्मभ्यमोजोबलं नृंम्णं धनम् । गयः नृम्णमिति धननामसुपाठात् । आभराहर । वीरं वीर्योपेतं पृतनासहं सेनासहं सेनामभिभवितारं त्वामा याचामहइति शेषः ॥ १० ॥

8.98.11
त्वं हि नः᳚ पि॒ता व᳚सो॒ त्वं मा॒ता श᳚तक्रतो ब॒भूवि᳚थ ।
अधा᳚ ते सु॒म्नमी᳚महे ॥
▶ पदपाठः (Word-by-word)
त्वम् । हि । नः॒ । पि॒ता । व॒सो॒ इति᳚ । त्वम् । मा॒ता । श॒त॒क्र॒तो॒ इति᳚ शत॑क्रतो । ब॒भूवि᳚थ ।
अध᳚ । ते॒ । सु॒म्नम् । ई॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वसो वासयितः शतक्रतो बहुकर्मन्निन्द्र त्वं नोस्माकं पिता पितृवत्पालको बभूविथ भव । त्वं माता मातृवद्धारकश्च बभूविथ । अध अथ्च वयं ते तव स्वभूतं सुम्नं सुखमीमहे याचामहे ॥ ११ ॥

8.98.12
त्वां शु᳚ष्मिन्पुरुहूत वाज॒यन्त॒मुप᳚ ब्रुवे शतक्रतो ।
स नो᳚ रास्व सु॒वीर्य᳚म् ॥
▶ पदपाठः (Word-by-word)
त्वाम् । शु॒ष्मि॒न् । पु॒रु॒॑हू॒त॒ । वा॒ज॒॑यन्त᳚म् । उप᳚ । ब्रु॒वे॒ । श॒त॒क्र॒तो॒ इति᳚ शत॑क्रतो ।
सः । नः॒ । रा॒स्व॒ । सु॒॑वीर्य᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे शुष्मिन् बलवन् पुरुहूत बहुभिर्यजमानैराहूत शतक्रतो बहुकर्मन्निन्द्र वाजयन्तं बलमिच्छन्तं त्वामुपब्रुवे उपस्तौमि । सत्वं नोस्मभ्यं सुवीर्थं धनं रास्व देहि ॥ १२ ॥

त्वामिदाह्यइत्यष्टर्चं षष्ठं सूक्तं नृमेधस्यार्षं अयुजोबृहत्यः युजः सतोबृहत्यः तथाचानुक्रान्तं-त्वामिदाष्टौप्रागाथमिति । चातुर्विंशिकेहनि माध्यन्दिनसवनेच्छावाकस्य त्वामिदाह्यइतिवैकल्पिकः स्तोत्रियः प्रगाथः । महाव्रतेपि निष्केवल्ये बार्हततृचाशीतावयं प्रगाथः । तथैव पंच- मारण्यके सूत्रितं-त्वामिदाह्योनरइत्येतं प्रगाथं प्रत्यवदधातीति । चातुर्विंशिकेहनि माध्यन्दिनसवने ब्राह्मणाच्छंसिनः श्रायन्तइवेति वैकल्पिकः स्तोत्रियःप्रगाथः । सूत्रितंच-श्रायन्तइवसूर्यं बण्महाँअसिसूर्येति । चातुर्विशिकेहनि माध्यन्दिने त्वमिन्द्रप्रतूर्तिषु त्वमिन्द्रयशाअसीति । तस्मिन्ने- वाहनि निष्केवल्ये वैराजयोनिभूतोयं प्रगाथः शंसनीयः । सूत्रितंच-तयोरक्रियमाणस्य योनिंशंसेद्वैरूपवैराजशाक्वररैवतानां चेति ।