अष्टमं मण्डलम् - सूक्तम् 82

9 ऋचः

ऋषिः: कुसीदी काण्वः देवता: इंद्रः छन्दः: गायत्री

सूक्तम् 8.82 - सम्पूर्णम्

1 / 9
ऋक्: 8.82.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (9)
8.82.1
आ प्र द्र᳚व परा॒वतो᳚॑र्वा॒वत᳚श्च वृत्रहन् ।
मध्व॒ः प्रति॒ प्रभ᳚र्मणि ॥
▶ पदपाठः (Word-by-word)
आ । प्र । द्र॒व॒ । प॒रा॒॑वतः᳚ । अ॒र्वा॒॑वतः᳚ । च॒ । वृ॒त्र॒॑ह॒न् ।
मध्वः᳚ । प्रति᳚ । प्र॑भ᳚र्मणि ॥
▶ सायणभाष्यम् (Sayana Commentary)

यस्यनिःश्वसितंवेदा योवेदेभ्योखिलंजगत् । निर्ममेतमहंवन्दे विद्यातीर्थमहेश्वरम् ॥ १ ॥

आप्रद्रवेति नवर्चं द्वितीयं सूक्तम् । तथाचानुक्रम्यते-आप्रद्रवेति । ऋषिश्चान्यस्मादिति परिभाषया काण्वःकुसीदऋषिः प्राग्वत्सप्रीयपरिभाषया गायत्रीछन्दः अनादेशपरिभाषयेन्द्रोदेवता । महाव्रते निष्केवल्ये सूक्तविनियोगउक्तः । द्वितीये रात्रिपर्याये मैत्रावरुणशस्त्रे आप्रद्रवेतितृचोनुरूपः । सूत्रितंच-आप्रद्रवपरावतो नह्य न्यंबळाकरमित्यष्टाविति ।

हे वृत्रहन् अपामावरकस्य वृत्रासुरस्य हन्तर्हे इन्द्र प्रभर्मणि प्रकृष्टानि भर्माणि भर्माणि भरणानि पशुग्रहादिसंपादनानि यस्मिन् सप्रभर्मा यज्ञः । यद्वा प्रकृष्टाः कर्मणिकुशला भर्माणः देवानां हविः प्रदानेन पोषका ऋत्विजोयस्मिन्निति सतथोक्तः एतादृशे यज्ञे मध्वः मदकरान् सोमान् प्रति परावतः विप्रकृष्ठात् दूरस्थाद्देशादपि अर्वावतश्च समीपस्थाद्देशादपि आभिमुख्येन प्रद्रव त्वं त्वरया आगच्छ । मध्वइति वाछन्दसीति पूर्वसवर्णदीर्घाभावः ॥ १ ॥

8.82.2
ती॒व्राः सोमा᳚स॒ आ ग᳚हि सु॒तासो᳚ मादयि॒ष्णवः᳚ ।
पिबा᳚ द॒धृग्यथो᳚चि॒षे ॥
▶ पदपाठः (Word-by-word)
ती॒व्राः । सोमा᳚सः । आ । ग॒हि॒ । सु॒तासः᳚ । मा॒द॒यि॒ष्णवः᳚ ।
पिब᳚ । द॒धृक् । यथा᳚ । ओ॒चि॒षे ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र तीव्राः तीव्रमदाः क्षिप्रं मदकारिणइत्यर्थः । मादयिष्णवः मादनशीला मादनकारिणोवा इमे सोमासः सोमाः सुतासः त्वदर्थमभिषुताः तस्मादागहि अस्मदीयं यज्ञं प्रत्यागच्छ । आगत्यच तान् पिब । सोमपाने कारणमाह-त्वं यथा दधृक् धृष्टः तत्प्रीतौ प्रगल्भःसन् तान् ओचिषे समवैषि सेबसे ततस्तान्यथाकामंपिबेत्यर्थः । दधृगिति ञिधृषाप्रागल्भ्येइत्यस्मादृत्विग्दधृगित्यादिना क्विन्प्रत्ययान्तोनिपात्यते । ओचिषे उचसमवाये छान्दसेलेटिरूपम् ॥ २ ॥

8.82.3
इ॒षा म᳚न्द॒स्वादु॒ ते॑रं॒ वरा᳚य म॒न्यवे᳚ ।
भुव᳚त्त इन्द्र॒ शं हृ॒दे ॥
▶ पदपाठः (Word-by-word)
इ॒षा । म॒न्द॒स्व॒ । आत् । ऊं॒ इति᳚ । ते॒ । अर᳚म् । वरा᳚य । म॒न्यवे᳚ ।
भुव᳚त् । ते॒ । इ॒न्द्र॒ । शम् । हृ॒दे ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र इषा सोमलक्षणेनान्नेन मन्दस्य मोदस्व हष्टोभव । उइत्यवधारणे । आदनन्तरमेव ते तव वराय शत्रुनिवारकाय मन्यवे क्रोधाय ससोमः अरमलं पर्याप्तोभवतु क्रोधशमने समर्थोभवतु । यद्वा सोमं पिबति तदा मन्युं त्यजतीत्यर्थः । किंच ते तव हृदे हृदये ससोमः शं शंकरः सुखकरो- भुवत् भवतु ॥ ३ ॥ तृतीये पर्याये आत्वशत्रवित्यनुरूपस्तृचः । सूत्रितंच-आत्वेतानिषीदतात्वशत्रवागहीति ।

8.82.4
आ त्व᳚शत्र॒वा ग᳚हि॒ न्यु१॒᳚क्थानि᳚ च हूयसे ।
उ॒प॒मे रो᳚च॒ने दि॒वः ॥
▶ पदपाठः (Word-by-word)
आ । तु । अ॒श॒त्रो॒ इति᳚ । आ । ग॒हि॒ । नि । उ॒क्थानि᳚ । च॒ । हू॒य॒से॒ ।
उ॒प॒॑मे । रो॒च॒ने । दि॒वः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अशत्रो सपत्नरहित अस्य बहुबिधबलत्वात् रणाभिमुखं गन्तारः शत्रवो नसन्तीत्यर्थः । तादृशेन्द्र तु क्षिप्रं आगह्यस्मद्यज्ञं प्रत्यागच्छ । यतः दिवः स्वतेजसा दीप्यमानात् द्युलोकात् तत्रस्थैर्देवैरित्यर्थः रोचने अग्निभिर्दीप्यमाने लोकेच उपमे समीपे स्तोतारः स्तोत्रशस्त्रात्मकं शब्दंकुर्व- न्त्यत्रेति उपमोयज्ञः तस्मिन्नस्मदीये यज्ञे च उक्थानि त्रिवृत्पञ्चदशादिलक्षणानि स्तोत्राणि प्रति निहूयसे त्वं स्तोतव्यतया नितरामाहूयसे । यस्मादेवं तस्मादागच्छेति समन्वयः ॥ ४ ॥

8.82.5
तुभ्या॒यमद्रि᳚भिः सु॒तो गोभि᳚ः श्री॒तो मदा᳚य॒ कम् ।
प्र सोम᳚ इन्द्र हूयते ॥
▶ पदपाठः (Word-by-word)
तुभ्य᳚ । अ॒यम् । अद्रि᳚॑भिः । सु॒तः । गोभिः᳚ । श्री॒तः । मदा᳚य । कम् ।
प्र । सोमः᳚ । इ॒न्द्र॒ । हू॒य॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र अद्रिभिरभिषवसाधनैर्ग्रावभिरयं सोमः तुभ्य तुभ्यं त्वदर्थं सुतोभिषुतः ततोदशापवित्रेण पूत्वा गोभिः गोविकारैः क्षीरादिभिः श्रीतः सः अस्माभिः परावतएव संस्कृतः सोमः तव मदाय मदार्थं कं सुखेन प्रहूयते अग्नौ स्वाहाक्रियते तस्मादागत्य सोमं पिब ॥ ५ ॥

8.82.6
इन्द्र᳚ श्रु॒धि सु मे॒ हव᳚म॒स्मे सु॒तस्य॒ गोम᳚तः ।
वि पी॒तिं तृ॒प्तिम᳚श्नुहि ॥
▶ पदपाठः (Word-by-word)
इन्द्र᳚ । श्रु॒धि । सु । मे॒ । हव᳚म् । अ॒स्मे इति᳚ । सु॒तस्य᳚ । गो॑म᳚तः ।
वि । पी॒तिम् । तृ॒प्तिम् । अ॒श्नु॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र मे मदीयं हवं त्वद्विषयमाह्वानं सु सुष्ठु श्रुधि श्रृणु । तथास्मे अस्माभिः सुतस्याभिशुतस्य गोमतो गव्यक्षीरवतः क्षीरेण मिश्रितस्येत्यर्थः । तादृशस्य सोमस्य पीतिं पानं व्यश्नुहि विविधं प्राप्नुहि । तत्पानेन विविधां तृप्तिं च गच्छ । अशूव्याप्तौ व्यत्ययेन परस्मैपदम् ॥ ६ ॥ तृतीये पर्याये एवाच्छावाकशस्त्रे यइन्द्रचमसेष्वितितृचः । सूत्रितंच-यइन्द्रचमसेष्वासोमः प्रवः सतामिति ।

8.82.7
य इ᳚न्द्र चम॒सेष्वा सोम᳚श्च॒मूषु᳚ ते सु॒तः ।
पिबेद᳚स्य॒ त्वमी᳚शिषे ॥
▶ पदपाठः (Word-by-word)
यः । इ॒न्द्र॒ । च॒म॒सेषु᳚ । आ । सोमः᳚ । च॒मूषु᳚ । ते॒ । सु॒तः ।
पिब᳚ । इत् । अ॒स्य॒ । त्वम् । ई॒शि॒षे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र ते त्वदर्थं सुतोभिषुतो यः सोमः चमसेषु एतन्नामकेषु पात्रषु तथा चमूषु चमन्ति यजन्त्यत्रेति चम्वोग्रहाः तेषु चासर्वतोस्ति । अस्य तमेतं सोमं पिबेत् इदवधारणे पिबैव । कथमस्य सोमपानयोग्यता तत्राह-हे इन्द्र त्वमीशिषे तस्य त्वमेव ईश्वरो भवसि खलु । यतएवं ततः पिबेति समन्वयः । ईश ऎश्वर्ये लटि ईशःसइतीडागमः ॥ ७ ॥

8.82.8
यो अ॒प्सु च॒न्द्रमा᳚ इव॒ सोम᳚श्च॒मूषु॒ ददृ᳚शे ।
पिबेद᳚स्य॒ त्वमी᳚शिषे ॥
▶ पदपाठः (Word-by-word)
यः । अ॒प्॑सु । च॒न्द्रमाः᳚॑इव । सोमः᳚ । च॒मूषु᳚ । ददृ᳚शे ।
पिब᳚ । इत् । अ॒स्य॒ । त्वम् । ई॒शि॒षे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र योगृहीतः सोमः चमूषु ग्रहेषु ददृशे अन्तर्दृश्यते । तत्र दृष्टान्तः-चन्द्रमाइव यथा चन्द्रमा अप्सु अन्तरिक्षे निर्मलतया दृश्यते तद्वत् । यद्वा अप्सु उदकेषु चन्द्रमाः प्रतिबिंबतया नानाविधो दृश्यते । तथाष्टग्रहेषु अनेकरूपः सन् दृश्यते तमेतं सोमं पिबैव यतस्त्वमेवेशिषे खलु ॥ ८ ॥

8.82.9
यं ते᳚ श्ये॒नः प॒दाभ᳚रत्ति॒रो रजां॒स्यस्पृ᳚तम् ।
पिबेद᳚स्य॒ त्वमी᳚शिषे ॥
▶ पदपाठः (Word-by-word)
यम् । ते॒ । श्ये॒नः । प॒दा । आ । अभ᳚रत् । ति॒रः । रजां᳚सि । अस्पृ᳚तम् ।
पिब᳚ । इत् । अ॒स्य॒ । त्वम् । ई॒शि॒षे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र श्येनः शंसनीयः पक्षी पक्षिरूपधारिणी गायत्रीत्यर्थः । सपक्षी रजांसि अन्तरिक्षादिलोकस्थितान् सोमपालान् गन्धर्वान् तिरस्तिरस्कुर्वन् अस्पृतं शत्रुभिरस्पृष्टं सन्तं यं सोमं ते त्वदर्थं पदापड्भ्यामाभरत् पदेति सवनद्वयाभिप्रायम् सवनद्वये आहृतं सोमं त्वं पिब । गायत्री पक्षिरूपं धारयित्वा पड्भ्यां सोममाहरत् इत्यत्रार्थे यजुर्ब्राह्मणं-पड्भ्यां द्वेसवने समगृह्णात् मुखेनैकं तस्माद्द्वेसवने शुक्रवती प्रातःसवनंच माध्यंदिनेचेति । तं पिबैव तस्य ईश्वरोभवसि ॥ ९ ॥

देवानामिति नवर्चं तृतीयं सूक्तं काण्वस्य कुसीदिनआर्षं गायत्रं वैश्वदेवम् । तथाचानुक्रम्यते-देवानां वैश्वदेवमिति । दशरात्रेष्टमेहनि वैश्वदेवशस्त्रे इदंसूक्तं वैश्वदेवनिविद्धानं सूत्रितंच-देवानामिदंवइति वैश्वदेवमिति ।