श्रवणम्

8.82.7
य इ᳚न्द्र चम॒सेष्वा सोम᳚श्च॒मूषु᳚ ते सु॒तः ।
पिबेद᳚स्य॒ त्वमी᳚शिषे ॥
▶ पदपाठः (Word-by-word)
यः । इ॒न्द्र॒ । च॒म॒सेषु᳚ । आ । सोमः᳚ । च॒मूषु᳚ । ते॒ । सु॒तः ।
पिब᳚ । इत् । अ॒स्य॒ । त्वम् । ई॒शि॒षे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र ते त्वदर्थं सुतोभिषुतो यः सोमः चमसेषु एतन्नामकेषु पात्रषु तथा चमूषु चमन्ति यजन्त्यत्रेति चम्वोग्रहाः तेषु चासर्वतोस्ति । अस्य तमेतं सोमं पिबेत् इदवधारणे पिबैव । कथमस्य सोमपानयोग्यता तत्राह-हे इन्द्र त्वमीशिषे तस्य त्वमेव ईश्वरो भवसि खलु । यतएवं ततः पिबेति समन्वयः । ईश ऎश्वर्ये लटि ईशःसइतीडागमः ॥ ७ ॥