अष्टमं मण्डलम् - सूक्तम् 29

10 ऋचः

ऋषिः: मनुर्वैवस्वतः कश्यपो वा मारीचः देवता: विश्वेदेवाः छन्दः: द्विपदा विराट्

सूक्तम् 8.29 - सम्पूर्णम्

1 / 10
ऋक्: 8.29.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (10)
8.29.1
ब॒भ्रुरेको॒ विषु᳚णः सू॒नरो॒ युवा॒ञ्ज्य᳚ङ्क्ते हिर॒ण्यय᳚म् ॥
▶ पदपाठः (Word-by-word)
ब॒भ्रुः । एकः᳚ । विषु᳚णः । सू॒नरः᳚ । युवा᳚ । अ॒ञ्जि । अ॒ङ्क्ते॒ । हि॒र॒ण्यय᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अत्र दशानामृचां किंचित्पदलिंगात् पृथक् देवताः अत्र प्रथमायां बभ्रुः इत्यनेन सोमोभिधीयते । सोम्यंबभ्रुमालभेतेरयादिषुदृष्टत्वात् । बभ्रुर्बभ्रुवर्णः सर्वलतादिषु परिपक्वः । यद्वा डुभृञ् धारणपोषणयोः कुर्भ्रश्चेति कुप्रत्ययः सर्वस्य सुधामयैः किरणैः तावदुद्गते चन्द्रमसि दुःखोपशमनानि पुष्टानि- खलु । तादृशः विषुणः विष्वगच्चनः सूनरः सुष्ठु रात्रीणां नेता रात्रयश्चन्द्रनेतृकाः खलु । एतादृशोयुवा प्रतिदिवसमाविर्भूतत्वात्तरुणः एकोदेवः सोमः हिरण्ययं हिरण्मयं अच्चि अभिव्यज्यते प्रकाश्यतेनेनेति अच्चि आभरणं अभिव्यक्तिसाधनं कुंडलमुकुटादिकं स्वशरीरमंक्ते अभिव्यच्चयति ॥ १ ॥

8.29.2
योनि॒मेक॒ आ स᳚साद॒ द्योत᳚नो॒॑न्तर्दे॒वेषु॒ मेधि᳚रः ॥
▶ पदपाठः (Word-by-word)
योनि᳚म् । एकः᳚ । आ । स॒सा॒द॒ । द्योत᳚नः । अ॒न्तः । दे॒वेषु᳚ । मेधि᳚रः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अत्र योनिमिति लिंगादग्निरुच्यते । अग्नयेगृहपतयेइत्यादिषु दृष्टत्वात् । देवेषु देवानामन्तर्मध्ये द्योतनः स्वतेजसा दीप्यमानो मेधिरोमेधावी अथवा मेधाकांक्षिणां स्तोतृणां मेधा दातृत्वेन मेधायुक्तः एवंविधएकोग्निः एवं स्थानभूतमाहवनीयादिकं आससाद हविःस्वीकरणार्थमासीदति ॥ २ ॥

8.29.3
वाशी॒मेको᳚ बिभर्ति॒ हस्त᳚ आय॒सीम॒न्तर्दे॒वेषु॒ निध्रु᳚विः ॥
▶ पदपाठः (Word-by-word)
वाशी᳚म् । एकः᳚ । बि॒भ॒र्ति॒ । हस्ते᳚ । आ॒य॒सीम् । अ॒न्तः । दे॒वेषु᳚ । नि॑ध्रु᳚विः ॥
▶ सायणभाष्यम् (Sayana Commentary)

देवेष्वन्तर्देवानांमध्ये द्योतमानः निध्रुविः नेश्चले स्थाने वर्तमानः यद्वा नितरां गमनमस्यास्तीति निध्रुविः सर्वदागच्छन् अथवा संग्रामेषु शत्रूणां पु- रतोतिशयेन स्थैर्यवान् एतादृशः एकस्त्वष्टृनामकोदेवः आयसीं अयोमयधारां वाशीं वाश्रृशब्दे शब्दयत्याक्रन्दयति शत्रूननयेति वाशी तक्षणसाधनं कुठारः तं स्वकीयहस्ते बिभर्ति धारयति ॥ ३ ॥

8.29.4
वज्र॒मेको᳚ बिभर्ति॒ हस्त॒ आहि᳚तं॒ तेन᳚ वृ॒त्राणि᳚ जिघ्नते ॥
▶ पदपाठः (Word-by-word)
वज्र᳚म् । एकः᳚ । बि॒भ॒र्ति॒ । हस्ते᳚ । आ॑हि᳚तम् । तेन᳚ । वृ॒त्राणि᳚ । जि॒घ्न॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अत्र वज्रलिंगादिन्द्रोदेवता एकइन्द्रः आहितं स्वकीयहस्ते निहितं वज्रमेतन्नामकमायुधं बिभर्ति धत्ते सएवेन्द्रस्तेन निहितेन वज्रेण वृत्राणि अपामा- वरकाणि रक्षांसि पापानि वा जिघ्नते भृशं हन्ति ॥ ४ ॥

8.29.5
ति॒ग्ममेको᳚ बिभर्ति॒ हस्त॒ आयु᳚धं॒ शुचि᳚रु॒ग्रो जला᳚षभेषजः ॥
▶ पदपाठः (Word-by-word)
ति॒ग्मम् । एकः᳚ । बि॒भ॒र्ति॒ । हस्ते᳚ । आयु᳚धम् । शुचिः᳚ । उ॒ग्रः । जला᳚ष॑भेषजः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अत्र जलाषभेषजइत्यनेन रुद्रोभिधीयते शुचिः शुच दीप्तौ सर्वतः स्वतेजसा दीप्यमानः यद्वा शुच शोके शत्रूणां शोचयिता दुःखयिता अतएव उग्रः उद्रूर्णबलः जलाषभेषजः रोगापनयनेन सुखकरभैषज्यवान् यद्वा स्तोतृणाम् । दुःखरूपसंसारोच्छेदेन सुखकारिभिषग्रूपः । प्रथमोदैव्योभिषगित्यादि- श्रुतिभिरस्यभिषक्त्वंश्रूयते । तादृशएकोरुद्रः तिग्मं तीक्ष्णधारं आयुधं आयुध्यति सम्प्रहरति शत्रूननेनेति आयुधं पिनाकः तं स्वकीये हस्ते बिभर्ति । ॥ ५ ॥

8.29.6
प॒थ एकः᳚ पीपाय॒ तस्क᳚रो यथा{4} ए॒ष वे᳚द निधी॒नाम् ॥
▶ पदपाठः (Word-by-word)
प॒थः । एकः᳚ । पी॒पा॒य॒ । तस्क᳚रः । य॒था॒ । ए॒षः । वे॒द॒ । नि॒॑धी॒नाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

पथइतिलिंगेन पूषा निगद्यते । संपूषन्नध्वनस्तिरेत्यादिषुदृष्टत्वात् । एकः पूषनामकोदेवः पथः मार्गान् पीपाय प्यायतिर्वर्धनकर्मापि अत्र रक्षणार्थः ये अग्निहोत्रादिकर्मकुर्वन्ति तेषां स्वर्गमार्गम् । ये दुष्कृतं कर्म कुर्वन्ति तेषां यातनामार्गं च रक्षति । उभयेषां मार्गविपर्ययोयथा नभवति तथा पालय- तीत्यर्थः । एषसोयंपूषा विधीनां पृथिव्यां निहितानि धनानि वेद वेत्ति । ज्ञात्वा स्तोतृणां तानि ददातीत्यर्थः । तत्रदृष्टान्तः-तस्करो यथा चोरः प- थिगच्छतां पुरुषाणां धनहरणार्थं मार्गं रक्षति तथाच सचोरः गृहे निहितानि ज्ञात्वा तदाहृत्य तस्य सहायेभ्योयथा तानि ददाति तद्वत् ॥ ६ ॥

8.29.7
त्रीण्येक᳚ उरुगा॒यो वि च᳚क्रमे॒ यत्र᳚ दे॒वासो॒ मद᳚न्ति ॥
▶ पदपाठः (Word-by-word)
त्रीणि᳚ । एकः᳚ । उ॒रु॒॑गा॒यः । वि । च॒क्र॒मे॒ । यत्र᳚ । दे॒वासः᳚ । मद᳚न्ति ॥
▶ सायणभाष्यम् (Sayana Commentary)

उरुगायोविचक्रमइति पदलिंगाद्विष्णुरुच्यते उरुगायः उरुभिर्बहुभिर्गातव्यः यद्वा बहुषु देशेषु गंता बहुकीर्तिर्वा सर्वान् शत्रून् स्व सामर्थ्येन शब्दय- त्याक्रन्दयतीतिवा उरुगायः एतादृशएकोसहायो विष्णुः त्रीणि पदानि भुवनानि विचक्रमे साधु पादेन विक्रान्तवान् वेःपादविहरणे इति क्रमतेः आत्मनेपदम् । यत्र येषु लोकेषु देवासः इन्द्रादयोदेवाः मदन्ति यजमानदत्तैर्हविर्भिर्माद्यन्ति तानि विचक्रमइत्यन्वयः ॥ ७ ॥

8.29.8
विभि॒र्द्वा च᳚रत॒ एक᳚या स॒ह प्र प्र᳚वा॒सेव᳚ वसतः ॥
▶ पदपाठः (Word-by-word)
वि॑भिः᳚ । द्वा । च॒र॒तः॒ । एक᳚या । स॒ह । प्र । प्र॒वा॒सा॑इ᳚व । व॒स॒तः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

एकयासहेति लिंगात् अश्विनावभिधीयेते द्वा द्वौ द्वित्वसंख्योपेतावश्विनौ विभिः वीगत्यादिषु क्विप् छान्दसोह्रस्वः गमनसाधनैः अश्वैः चरतः सच्चरे- ते किच्च इमावश्विनौ एकया सूर्याख्यया ताभ्यां स्वयं वृतया स्त्रिया सह प्रवसतः प्रवासं सर्वत्रगमनं कुरुतः । प्रवासे दृष्टान्तः-प्रवासेव यथा प्रवासि- नौ द्वौ पुरुषौ एकया स्त्रिया सह प्रवसतः तद्वत् ॥ ८ ॥

8.29.9
सदो॒ द्वा च᳚क्राते उप॒मा दि॒वि स॒म्राजा᳚ स॒र्पिरा᳚सुती ॥
▶ पदपाठः (Word-by-word)
सदः᳚ । द्वा । च॒क्रा॒ते॒ इति᳚ । उ॒प॒॑मा । दि॒वि । स॒म्॑राजा᳚ । स॒र्पिर्॑आ᳚सुती॒ इति᳚ स॒र्पिः॑आ᳚सुती ॥
▶ सायणभाष्यम् (Sayana Commentary)

सम्राजाविति लिंगेन मित्रावरुणावभिधीयेते उपमा उपमौ परस्परं स्वकांत्योपमानभूतौ यद्वा उपमीयते आभ्यां सर्वमिति उपमौसर्वस्य एतावेव सम्राजौ सम्यग्दीप्यमानौ सर्पिरासुती सर्पिर्घृतमाभ्यामासूयते इति सर्पिरासुती घृतहविष्कौ द्वा द्वौ मित्रावरुणौ दिवि द्युलोके सदः सीदन्त्यत्रेति सदः स्थानं तच्चक्राते अकार्ष्टाम् ॥ ९ ॥

8.29.10
अर्च᳚न्त॒ एके॒ महि॒ साम᳚ मन्वत॒ तेन॒ सूर्य᳚मरोचयन् ॥
▶ पदपाठः (Word-by-word)
अर्च᳚न्तः । एके᳚ । महि᳚ । साम᳚ । म॒न्व॒त॒ । तेन᳚ । सूर्य᳚म् । अ॒रो॒च॒य॒न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अर्चन्तः देवान्पूजयन्तः एके केचनात्रयः महि महत् साम मन्वत उच्चारयन्तीत्यर्थः । तादृशा अत्रयः तेनोक्तेन साम्ना सूर्यं अरोचयन्नदीपयन् तएवांत्र देवता ॥ १० ॥

नहिवइति चतुरृचं दशमं सुक्तं आद्यागायत्री द्वितीयापुरउष्णिक् तृतीयाबृहती चतुर्थ्यनुष्टुप् मनुर्वैवस्वतऋषिः पूर्ववद्विश्वेदेवादेवता । तथाचानु- क्रान्तम्-नहिवश्चतुष्कंपुरउष्णिग् बृहत्यनुष्टुबन्तमिति । विनियोगस्तु लिंगादवगन्तव्यः ।