अष्टमं मण्डलम् - सूक्तम् 76

12 ऋचः

ऋषिः: कुरुसुतिः काण्वः देवता: इंद्रः छन्दः: गायत्री

सूक्तम् 8.76 - सम्पूर्णम्

1 / 12
ऋक्: 8.76.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (12)
8.76.1
इ॒मं नु मा॒यिनं᳚ हुव॒ इन्द्र॒मीशा᳚न॒मोज᳚सा ।
म॒रुत्व᳚न्तं॒ न वृ॒ञ्जसे᳚ ॥
▶ पदपाठः (Word-by-word)
इ॒मम् । नु । मा॒यिन᳚म् । हु॒वे॒ । इन्द्र᳚म् । ईशा᳚नम् । ओज᳚सा ।
म॒रुत्व᳚न्तम् । न । वृ॒ञ्जसे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

इमं मायिनं प्रज्ञावन्तं ओजसा स्वबलेन ईशानं सर्वस्य स्वामिनं मरुत्वन्तंन । नेति संप्रत्यर्थे । मरुद्भिस्तद्वन्तमिदानीमिन्द्रं वृंजसे शत्रूणां छेदनाय हुवे आह्वयामि ॥ १ ॥

8.76.2
अ॒यमिन्द्रो᳚ म॒रुत्स᳚खा॒ वि वृ॒त्रस्या᳚भिन॒च्छिरः᳚ ।
वज्रे᳚ण श॒तप᳚र्वणा ॥
▶ पदपाठः (Word-by-word)
अ॒यम् । इन्द्रः᳚ । म॒रुत्॑स᳚खा । वि । वृ॒त्रस्य᳚ । अ॒भि॒न॒त् । शिरः᳚ ।
वज्रे᳚ण । श॒त॑प᳚र्वणा ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयमिन्द्रो मरुत्सखा मरुद्युक्तोवृत्रस्य व्यभिनत् व्यच्छिनच्छिरः वज्रेण शतपर्वणा शतसंधिना ॥ २ ॥

8.76.3
वा॒वृ॒धा॒नो म॒रुत्स॒खेन्द्रो॒ वि वृ॒त्रमै᳚रयत् ।
सृ॒जन्त्स᳚मु॒द्रिया᳚ अ॒पः ॥
▶ पदपाठः (Word-by-word)
व॒वृ॒धा॒नः । म॒रुत्॑स᳚खा । इन्द्रः᳚ । वि । वृ॒त्रम् । ऐ॒र॒य॒त् ।
सृ॒जन् । स॒मु॒द्रियाः᳚ । अ॒पः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयमिन्द्रो वा वृधानो वर्धमानो मरुत्सखा मरुत्सहायो वृत्रं मेघं व्यैरयत् विदारितवान् । किंकुर्वन् समुद्रियाः समुद्रमन्तरिक्षं तत्संबन्धिन्यअपः सृजन् असृजन् ॥ ३ ॥ षष्ठेहनि मरुत्वतीये अयं हयेनेति मरुत्वन्निविद्धानीयः । सूत्रितंच-अयंहयेनवाइदम्-पनोहरिभिःसुतमिति ।

8.76.4
अ॒यं ह॒ येन॒ वा इ॒दं स्व᳚र्म॒रुत्व᳚ता जि॒तम् ।
इन्द्रे᳚ण॒ सोम᳚पीतये ॥
▶ पदपाठः (Word-by-word)
अ॒यम् । ह॒ । येन᳚ । वै । इ॒दम् । स्वः᳚ । म॒रुत्व᳚ता । जि॒तम् ।
इन्द्रे᳚ण । सोम᳚॑पीतये ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयंह खल्विन्द्रः येन वै येनखलु मरुत्वता मरुद्भिर्युक्तेनेन्द्रेणेदं स्वः स्वर्गाख्यं स्थानं इदं स्वः सर्वं कर्म वा यद्वेदं सर्वं जगत् जितम् । किमर्थं सोम- पीतये सोमपानाय ॥ ४ ॥

8.76.5
म॒रुत्व᳚न्तमृजी॒षिण॒मोज᳚स्वन्तं विर॒प्शिन᳚म् ।
इन्द्रं᳚ गी॒र्भिर्ह᳚वामहे ॥
▶ पदपाठः (Word-by-word)
म॒रुत्व᳚न्तम् । ऋ॒जी॒षिण᳚म् । ओज᳚स्वन्तम् । वि॒॑र॒प्शिन᳚म् ।
इन्द्र᳚म् । गीः॒॑भिः । ह॒वा॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

मरुत्वंतं मरुद्भिस्तद्वन्तं ऋजीषिणम् । अभिषुतशेषऋजीषः सच तृतीयसवने पुनः सूयते । तद्वन्तं ओजस्वन्तं ओजोनामाष्टमीदशा शरीरवृध्युपे- तमित्यर्थः । विरप्शिनं महन्नामैतत् महान्तं एवं महानुभावमिन्द्रं गीर्भिः स्तुतिभिर्हवामहे आह्वयामः ॥ ५ ॥

8.76.6
इन्द्रं᳚ प्र॒त्नेन॒ मन्म᳚ना म॒रुत्व᳚न्तं हवामहे ।
अ॒स्य सोम᳚स्य पी॒तये᳚ ॥
▶ पदपाठः (Word-by-word)
इन्द्र᳚म् । प्र॒त्नेन᳚ । मन्म᳚ना । म॒रुत्व᳚न्तम् । ह॒वा॒म॒हे॒ ।
अ॒स्य । सोम᳚स्य । पी॒तये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

मरुत्वन्तमिन्द्रं प्रत्नेन पुराणेन मन्मना मननीयेन स्तोत्रेण हवामहे अस्य सोमस्य पीतये पानाय ॥ ६ ॥ पंचमेहनिमरुत्वतीये मरुत्वाँइन्द्रमीढ्वइति तृचोनिविद्धानीयः । सूत्रितंच-मरुत्वाँइन्द्रमीढ्वस्तमिन्द्रंवाजयामसीति ।

8.76.7
म॒रुत्वा{4}᳚ इन्द्र मीढ्व॒ः पिबा॒ सोमं᳚ शतक्रतो ।
अ॒स्मिन्य॒ज्ञे पु᳚रुष्टुत ॥
▶ पदपाठः (Word-by-word)
म॒रुत्वा᳚न् । इ॒न्द्र॒ । मी॒ढ्वः॒ । पिब᳚ । सोम᳚म् । श॒त॒क्र॒तो॒ इति᳚ शत॑क्रतो ।
अ॒स्मिन् । य॒ज्ञे । पु॒रु॒॑स्तु॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मीढ्वः फलस्य वृष्टेर्वा सेक्तः शतक्रतो बहुकर्मेन्द्र त्वं मरुत्वान् सोमं पिबास्मिन्यज्ञे । हे पुरुष्टुत बहुभिराहूत ॥ ७ ॥

8.76.8
तुभ्येदि᳚न्द्र म॒रुत्व᳚ते सु॒ताः सोमा᳚सो अद्रिवः ।
हृ॒दा हू᳚यन्त उ॒क्थिनः᳚ ॥
▶ पदपाठः (Word-by-word)
तुभ्य᳚ । इत् । इ॒न्द्र॒ । म॒रुत्व᳚ते । सु॒ताः । सोमा᳚सः । अ॒द्रि॒॑वः॒ ।
हृ॒दा । हू॒य॒न्ते॒ । उ॒क्थिनः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अद्रिवोवज्रवन्निन्द्र मरुत्वते तुभ्येत् तुभ्यमेव सोमासः सुताअभिषुताः तेचोक्थिनः शस्त्रवन्तो हृदा मनसा भक्त्या हूयन्ते त्वदथेम् ॥ ८ ॥

8.76.9
पिबेदि᳚न्द्र म॒रुत्स᳚खा सु॒तं सोमं॒ दिवि᳚ष्टिषु ।
वज्रं॒ शिशा᳚न॒ ओज᳚सा ॥
▶ पदपाठः (Word-by-word)
पिब᳚ । इत् । इ॒न्द्र॒ । म॒रुत्॑स᳚खा । सु॒तम् । सोम᳚म् । दिवि᳚ष्टिषु ।
वज्र᳚म् । शिशा᳚नः । ओज᳚सा ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र मरुत्सखा त्वं सुतमभिषुतं सोमं पिब किमर्थं दिविष्टिषु अस्माकमह्नामभिगमनेषु दिवः स्वर्गस्य वा एषणेषु निमित्तेषु पीत्वा चौजसा बलेन सोमपानजनितेन वज्रं शिशानः तीक्ष्णीकुर्वन् शत्रून् जहीतिभावः ॥ ९ ॥ चतुर्विंशेहनि प्रातःसवने ब्राह्मणाच्छंसिशस्त्रे उत्तिष्ठन्निति तृचः षळहस्तोत्रियः । सूत्रितंच-उत्तिष्ठन्नोजसासहभिंधिविश्वाअपद्विषइति ब्राह्म- णाच्छंसिनइति ।

8.76.10
उ॒त्तिष्ठ॒न्नोज᳚सा स॒ह पी॒त्वी शिप्रे᳚ अवेपयः ।
सोम᳚मिन्द्र च॒मू सु॒तम् ॥
▶ पदपाठः (Word-by-word)
उ॒त्॑तिष्ठ᳚न् । ओज᳚सा । स॒ह । पी॒त्वी । शिप्रे॒ इति᳚ । अ॒वे॒प॒यः॒ ।
सोम᳚म् । इ॒न्द्र॒ । च॒मू इति᳚ । सु॒तम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वं पीत्वी पीत्वोजसा बलेन सहोत्तिष्ठन् शिमे हनु अवेपयः अकंपयः मदावेशादितिभावः । किं पीत्वा चमू चम्वोरधिषवणफलकयोः सुतं सोमम् ॥ १० ॥

8.76.11
अनु᳚ त्वा॒ रोद᳚सी उ॒भे क्रक्ष᳚माणमकृपेताम् ।
इन्द्र॒ यद्द᳚स्यु॒हाभ᳚वः ॥
▶ पदपाठः (Word-by-word)
अनु᳚ । त्वा॒ । रोद᳚सी॒ इति᳚ । उ॒भे इति᳚ । क्रक्ष᳚माणम् । अ॒कृ॒पे॒ता॒म् ।
इन्द्र᳚ । यत् । द॒स्यु॒॑हा । अभ᳚वः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र क्रक्षमाणं शत्रून्विलिखन्तं त्वा त्वां उभे रोदसी उभे अपि द्यावापृथिव्यौ अन्वकृपेतां अनुकल्पयेताम् । यद्यदा दस्युहा भवोभवसि तदा ॥ ११ ॥

8.76.12
वाच᳚म॒ष्टाप᳚दीम॒हं नव᳚स्रक्तिमृत॒स्पृश᳚म् ।
इन्द्रा॒त्परि᳚ त॒न्वं᳚ ममे ॥
▶ पदपाठः (Word-by-word)
वाच᳚म् । अ॒ष्टा॑प᳚दीम् । अ॒हम् । नव᳚॑स्रक्तिम् । ऋ॒त॒॑स्पृश᳚म् ।
इन्द्रा᳚त् । परि᳚ । त॒न्व᳚म् । म॒मे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अष्टापदीं अष्टाभिर्दिग्भिर्विदिग्भिः साष्टापदीं नवस्रक्तिं उपरिस्थितेनादित्येन नवस्रक्तिं आसु दिक्षु व्याप्तामित्यर्थः । ऋतस्पृशं यज्ञस्पृशं वाचं स्तुतिं मया परिपूर्णादिन्द्रात्तन्वं तनुं न्यूनां सतीं परिममे अन्यूनेयत्तां करोमीत्यर्थः । कार्त्स्न्येन स्वरूपं स्तुत्या विषयीकर्तुमशक्यत्वादिति भावः ॥ १२ ॥

जज्ञानइत्येकादशर्चं सप्तमं सूक्तं काण्वस्य पुरुसुतेरार्षं आद्यानव गायत्र्यः दशमी बृहती एकादशी सतोबृहती इन्द्रोदेवता । तथाचानुक्रान्तं- जज्ञानएकादशप्रगाथान्तमिति । महाव्रते निष्केवल्ये जज्ञानोनुशतक्रतुरित्येषा । तथैव पंचमारण्यके सूत्रितं-जज्ञानोनुशतक्रतुरित्येकेति ।