अष्टमं मण्डलम् - सूक्तम् 94

12 ऋचः

ऋषिः: बिंदुः पूतदक्षो वा देवता: मरुतः छन्दः: गायत्री

सूक्तम् 8.94 - सम्पूर्णम्

1 / 12
ऋक्: 8.94.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (12)
8.94.1
गौर्ध᳚यति म॒रुतां᳚ श्रव॒स्युर्मा॒ता म॒घोना᳚म् ।
यु॒क्ता वह्नी॒ रथा᳚नाम् ॥
▶ पदपाठः (Word-by-word)
गौः । ध॒य॒ति॒ । म॒रुता᳚म् । श्र॒व॒स्युः । मा॒ता । म॒घोना᳚म् ।
यु॒क्ता । वह्निः᳚ । रथा᳚नाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

मघोनां धनवतां मरुतां माता निर्मात्री गौः पृश्नियैवैपयसोमरुतोजाताइति श्रुतेः । यद्वा गौर्माध्यमिकीवाक् तत्रैव मध्यमस्थाने मरुतामपि वर्तनात् तेषां तत्पुत्रत्वमुपचर्यते धयति सोमं पिबति पाययविवा स्वपुत्रान् मरुतः । किमिच्छन्ती श्रवस्युरन्नं कामयमाना कीदृशी रथानां मारुतानां वह्रिः पृषतीभिर्वडवाभिर्वोढ्री संयोजयित्री सायुक्ता सर्वत्र समन्तात्पूज्या भवति ॥ १ ॥

8.94.2
यस्या᳚ दे॒वा उ॒पस्थे᳚ व्र॒ता विश्वे᳚ धा॒रय᳚न्ते ।
सूर्या॒मासा᳚ दृ॒शे कम् ॥
▶ पदपाठः (Word-by-word)
यस्याः᳚ । दे॒वाः । उ॒प॑स्थे᳚ । व्र॒ता । विश्वे᳚ । धा॒रय᳚न्ते ।
सूर्या॒मासा᳚ । दृ॒शे । कम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

गौः सर्वदेवमयीत्याह यस्या मरुतां मातुः गोरुपस्थे वर्तमानाः विश्वे सर्वे देवाः व्रता व्रतानि स्वस्वकर्माणि धारयन्ते बिभ्रति इयमेवास्माकं स्वप- योमिश्रितस्य सोमस्य दात्रीति सर्वे तत्समीपे तिष्ठन्तीत्यर्थः । किंच सूर्यामासा माति स्वकलाभिस्तिथीनिति माश्चंद्रमाः देवताद्वंद्वेचेत्युभयपद- प्रकृतिस्वरत्वम् । सूर्याचन्द्रमसौ दृशे दर्शनाय सर्वलोकप्रकाशनायच यस्या गोः समीपे कं सुखेन वर्तमानौ भवतः सेयंगौः सोमं धयतीति पूर्वेण समन्वयः ॥ २ ॥

8.94.3
तत्सु नो॒ विश्वे᳚ अ॒र्य आ सदा᳚ गृणन्ति का॒रवः᳚ ।
म॒रुत॒ः सोम᳚पीतये ॥
▶ पदपाठः (Word-by-word)
तत् । सु । नः॒ । विश्वे᳚ । अ॒र्यः । आ । सदा᳚ । गृ॒ण॒न्ति॒ । का॒रवः᳚ ।
म॒रुतः᳚ । सोम᳚॑पीतये ॥
▶ सायणभाष्यम् (Sayana Commentary)

अर्यः स्तोत्रकरणार्थमितस्ततोगन्तारो नोस्मदीया विश्वे सर्वे कारवः स्तोतारः तन्मरुतां बलं सदा सर्वदा सु सुष्ठु आगृणन्ति आभिमुख्येन स्तुतिभिः स्तुवन्ति । किमर्थं सोमपीतये अस्माभिर्दीयमानं सोमं पातुं मरुतएतन्नामकादेवा अस्माभिराह्वातव्याः खलु ततः पुरस्तात्तद्बलं स्तुवन्ती- त्यर्थः ॥ ३ ॥ पूर्वभिहितएवशस्त्रे अस्तिसोमइति स्तोत्रियस्तृचः । सूत्रंतु पूर्वेणसहोदाहृतम् ।

8.94.4
अस्ति॒ सोमो᳚ अ॒यं सु॒तः पिब᳚न्त्यस्य म॒रुतः᳚ ।
उ॒त स्व॒राजो᳚ अ॒श्विना᳚ ॥
▶ पदपाठः (Word-by-word)
अस्ति᳚ । सोमः᳚ । अ॒यम् । सु॒तः । पिब᳚न्ति । अ॒स्य॒ । म॒रुतः᳚ ।
उ॒त । स्व॒॑राजः᳚ । अ॒श्विना᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयं पुरोवर्ती सोमः सुतोमरुदर्थं अस्माभिरभिषुतोस्ति विद्यते । तस्मादस्य अन्वादेशे एनं सुतं सोमं स्वराजः स्वयं दीप्यमानाः स्वतेजसा नान्य- दीयेनेत्यर्थः तादृशाः मरुतः पिबन्ति । उतापिच अश्विना अश्विनौ च सोमं पिबतः ॥ ४ ॥

8.94.5
पिब᳚न्ति मि॒त्रो अ᳚र्य॒मा तना᳚ पू॒तस्य॒ वरु᳚णः ।
त्रि॒ष॒ध॒स्थस्य॒ जाव᳚तः ॥
▶ पदपाठः (Word-by-word)
पिब᳚न्ति । मि॒त्रः । अ॒र्य॒मा । तना᳚ । पू॒तस्य᳚ । वरु᳚णः ।
त्रि॒॑स॒ध॒स्थस्य᳚ । जा॑व᳚तः ॥
▶ सायणभाष्यम् (Sayana Commentary)

नकेवलं मरुतएव सोमपातारः । किंतु एतेपीत्याह-मित्रः सर्वेषां स्वस्वकर्मणि प्रवर्तकत्वात्साखिभूतः अर्यमाच वरुणः दुःखादीनां शत्रूणांवा वरिता निवारकः एतन्नामकास्त्रयोदेवाः तना ततमूर्णास्तुकेनेति तनं दशापवित्रं सुपांसुलुगिति तृतीयायाअलादेशः तनाद्युदात्तः तनापूतस्य परिशोधितं त्रिसधस्थस्य सहतिष्ठन्त्यत्रेति सधस्थं स्थानं द्रोणकलशाधवनीयपूतभृदाख्यानि त्रीणि स्थानानि यस्य तत्तथोक्तं तादृशं जावतः स्तुत्यजनवन्तमिमं सोमं पिबन्ति । द्वितीयार्थेषष्ठ्यः ॥ ५ ॥

8.94.6
उ॒तो न्व᳚स्य॒ जोष॒मा{4} इन्द्र᳚ः सु॒तस्य॒ गोम᳚तः ।
प्रा॒तर्होते᳚व मत्सति ॥
▶ पदपाठः (Word-by-word)
उ॒तो इति᳚ । नु । अ॒स्य॒ । जोष᳚म् । आ । इन्द्रः᳚ । सु॒तस्य᳚ । गो॑म᳚तः ।
प्रा॒तः । होता᳚॑इव । म॒त्स॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतो अपिच इन्द्रः सुतस्य अस्माभिरभिषुतस्य गोमतः गव्यैर्मिश्रणवतः अस्य अन्वादेशः पूर्ववद्दशापवित्रेण पूतस्य सोमस्य जोषं पानरूपां सेवां प्रातः प्रातःसवने नु क्षिप्रं आमत्सति मदिस्तुत्यादिषु आभिमुग्व्येन स्तौति । यद्वा सोममेवकामयते । तत्रदृष्टान्तः-होतेव यथा होता प्रातःसवने देवानभिष्टौति देवान् स्तोतुं वाभिवांछति ॥ ६ ॥

8.94.7
कद᳚त्विषन्त सू॒रय᳚स्ति॒र आप᳚ इव॒ स्रिधः᳚ ।
अर्ष᳚न्ति पू॒तद᳚क्षसः ॥
▶ पदपाठः (Word-by-word)
कत् । अ॒त्वि॒ष॒न्त॒ । सू॒रयः᳚ । ति॒रः । आपः᳚॑इव । स्रिधः᳚ ।
अर्ष᳚न्ति । पू॒त॑द᳚क्षसः ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऋषिर्मरुतो बहुवारंस्तुत्वेदानीमात्मानं वितर्कयति सूरयः प्राज्ञाः आपइव उदकानीव तिरः यथा उदकानि तिर्यग्गाच्छन्ति तद्वत्तिरश्चीनगतयः सन्तः कत्कदा अत्विषन्त त्विषदीप्तौ अन्तरिक्षे कदादीप्यन्ते । किंच स्रिधः शत्रूणां शोषकाहन्तारः तइमे मरुतः पूतदक्षसः सुद्धबलाः सन्तः कदावा अर्षन्ति अस्मदीयं यज्ञं प्रत्यागच्छन्ति ॥ ७ ॥

8.94.8
कद्वो᳚ अ॒द्य म॒हानां᳚ दे॒वाना॒मवो᳚ वृणे ।
त्मना᳚ च द॒स्मव᳚र्चसाम् ॥
▶ पदपाठः (Word-by-word)
कत् । वः॒ । अ॒द्य । म॒हाना᳚म् । दे॒वाना᳚म् । अवः᳚ । वृ॒णे॒ ।
त्मना᳚ । च॒ । द॒स्म॑व᳚र्चसाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मरुतः महानां मंहनीयानां महतां वात्मनाच आत्मनैव अलंकरणैर्विनापि दस्मवर्चसां दर्शनीयतेजस्कानां अतएव देवानां द्योतमानानां वोयु- ष्माकमवः पालनं कत् कदाहं वृणे संभजे । वृङ्संभक्तौ कैयादिकः ॥ ८ ॥

8.94.9
आ ये विश्वा॒ पार्थि᳚वानि प॒प्रथ᳚न्रोच॒ना दि॒वः ।
म॒रुत॒ः सोम᳚पीतये ॥
▶ पदपाठः (Word-by-word)
आ । ये । विश्वा᳚ । पार्थि᳚वानि । प॒प्रथ᳚न् । रो॒च॒ना । दि॒वः ।
म॒रुतः᳚ । सोम᳚॑पीतये ॥
▶ सायणभाष्यम् (Sayana Commentary)

ये मरुतः विश्वा विश्वानि पार्थिवानि पृथिवानि पृथिव्यां भवानि भूतजातानि दिवः द्युलोकस्य रोचना रोचमानानि ज्योतींषि च आपप्रथन् सर्वत्र विस्तारितान्यकार्षुः । प्रथप्रख्याने ण्यन्तस्य चङि अत् स्मृदॄत्वरप्रथम्रदस्तॄस्पशामिति अभ्यासस्य अदादेशः चङ्यन्यतरस्यामितिङित् स्वरेणमध्योदत्तः तादृशान् मरुतोदेवान् सोमपीतये सोमपानायाहमाह्वयामि ॥ ९ ॥

8.94.10
त्यान्नु पू॒तद᳚क्षसो दि॒वो वो᳚ मरुतो हुवे ।
अ॒स्य सोम᳚स्य पी॒तये᳚ ॥
▶ पदपाठः (Word-by-word)
त्यान् । नु । पू॒त॑द᳚क्षसः । दि॒वः । वः॒ । म॒रु॒तः॒ । हु॒वे॒ ।
अ॒स्य । सोम᳚स्य । पी॒तये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मरुतो मितराविण एतन्नामकादेवाः पुतदक्षसः परिशुद्धबलान् दिवः स्वतेजसा दीप्यमानान् यद्वा दिवः द्युलोकस्थितान् त्यान् तान् प्रसिद्धान् वोयुष्मान् नु क्षिप्रं हुवे आह्वयामि । किमर्थं अस्यास्मदीयस्य सोमस्य पीतये पानाय ॥ १० ॥

8.94.11
त्यान्नु ये वि रोद᳚सी तस्त॒भुर्म॒रुतो᳚ हुवे ।
अ॒स्य सोम᳚स्य पी॒तये᳚ ॥
▶ पदपाठः (Word-by-word)
त्यान् । नु । ये । वि । रोद᳚सी॒ इति᳚ । त॒स्त॒भुः । म॒रुतः᳚ । हु॒वे॒ ।
अ॒स्य । सोम᳚स्य । पी॒तये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ये मरुतः रोदसी द्यावापृथिव्यौ वितस्तभुः स्वबलेनैव अत्यर्थं स्तब्धे चकुः ते रोदसी स्वाधीने अदार्षुरित्यर्थः । त्यान् तान् सर्वतः प्रसिद्धान् नु क्षिप्रं अहं हुवे आह्वयामि । किमर्थं अस्येत्यादि ॥ ११ ॥

8.94.12
त्यं नु मारु᳚तं ग॒णं गि᳚रि॒ष्ठां वृष᳚णं हुवे ।
अ॒स्य सोम᳚स्य पी॒तये᳚ ॥
▶ पदपाठः (Word-by-word)
त्यम् । नु । मारु᳚तम् । ग॒णम् । गि॒रि॒॑स्थाम् । वृष᳚णम् । हु॒वे॒ ।
अ॒स्य । सोम᳚स्य । पी॒तये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

त्यं तं सर्वत्रविस्तृतं गिरिष्ठां गिरिषु मेघेषु पर्वतेषु वा तिष्ठन्तं वृषणं उदकानां कामानां वा वर्षितारं मारुतं मरुत्संबन्धिनं गणं संघं नु क्षिप्रं हुवे बिंदुरहमाह्वयामि । किं प्रयोजनं अस्य अस्मदीयस्य सोमस्य पीतये पानाय ॥ १२ ॥

आत्वेति नवर्चं द्वितीयंसूक्तं आनुष्टुभमैन्द्रं तिरश्चीनामांगिरसऋषिः । तथाचानुक्रम्यतेआत्वानव तिरश्चीरांगिरस आनुष्टुभमिति । आभिप्लविकेषुक्थ्येषु तृतीयसवनेच्छावाकस्यात्वागिरइति तृचोवैकल्पिकोनुरूपः सूत्र्यतेहि-गायन्तित्वागायत्रिण आत्वागिरोरथीरिवेति ।