यम᳚श्विना सुहवा रुद्रवर्तनी॒ आ सू॒र्यायै᳚ त॒स्थथु᳚ः ॥
पदपाठः (Word-by-word)
यम् । अ॒श्वि॒ना॒ । सु॒॑ह॒वा॒ । रु॒द्र॒व॒र्त॒नी॒ इति᳚ रुद्र॑वर्तनी । आ । सू॒र्यायै᳚ । त॒स्थथुः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे अश्विनौ दंसिष्ठमत्यंतदर्शनीयं यद्वा अतिशयेन शत्रूणामुपक्षपयितारं त्यं तं युवयोरथं ऊतये रक्षणाय अद्यास्मिन्यागदिने अह्वे सोभरिरहमाह्व- यामि सुहवा सुहवौ स्तोत्रशस्त्रादिभिः शोभनाह्वानौ रुद्रवर्तनी संग्रामे रोदनशीलमार्गौ यद्वा स्तूयमानमार्गौ हे अश्विनौ सूर्यायै सूर्यां स्वयंवरे वर- यितुं यं रथं युवां आतस्थथुः आश्रयथः तं रथमाह्वयामीति ॥ १ ॥