इ॒ह त्या पु᳚रु॒भूत᳚मा दे॒वा नमो᳚भिर॒श्विना᳚ ।
अ॒र्वा॒ची॒ना स्वव᳚से करामहे॒ गन्ता᳚रा दा॒शुषो᳚ गृ॒हम् ॥
अ॒र्वा॒ची॒ना स्वव᳚से करामहे॒ गन्ता᳚रा दा॒शुषो᳚ गृ॒हम् ॥
पदपाठः (Word-by-word)
इ॒ह । त्या । पु॒रु॒॑भूत᳚मा । दे॒वा । नमः᳚॑भिः । अ॒श्विना᳚ ।
अ॒र्वा॒ची॒ना । सु । अव᳚से । क॒रा॒म॒हे॒ । गन्ता᳚रा । दा॒शुषः᳚ । गृ॒हम् ॥
अ॒र्वा॒ची॒ना । सु । अव᳚से । क॒रा॒म॒हे॒ । गन्ता᳚रा । दा॒शुषः᳚ । गृ॒हम् ॥
सायणभाष्यम् (Sayana Commentary)
पुरुभूतमा अतिशयेन बहूनां शत्रूणां भावयितारौ देवा देवौ द्योतनशीलौ स्तोतव्यौ वा दाशुषः हविर्दत्तवतोयजमानस्य गृहं प्रति गंतारा गमनशी- लौ त्या तौ अश्विना अश्विनौ युवां इहास्मिन्कर्मणि अवसे रक्षणाय नमोभिर्हविर्भिःस्तोत्रैर्वा अर्वाचीना अर्वाचीनौ अभिमुखमागच्छन्तौ सुकरामहे वयं सुष्टु कुर्मः ॥ ३ ॥