श्रवणम्

8.22.2
पू॒र्वा॒युषं᳚ सु॒हवं᳚ पुरु॒स्पृहं᳚ भु॒ज्युं वाजे᳚षु॒ पूर्व्य᳚म् ।
स॒च॒नाव᳚न्तं सुम॒तिभि᳚ः सोभरे॒ विद्वे᳚षसमने॒हस᳚म् ॥
▶ पदपाठः (Word-by-word)
पू॒र्व॒॑आ॒युष᳚म् । सु॒॑हव᳚म् । पु॒रु॒॑स्पृह᳚म् । भु॒ज्युम् । वाजे᳚षु । पूर्व्य᳚म् ।
स॒च॒ना॑व᳚न्तम् । सु॒म॒ति॑भिः᳚ । सो॒भ॒रे॒ । वि॑द्वे᳚षसम् । अ॒ने॒हस᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोभरे सुमतिभिः कल्याणीभिः स्तुतिभिः अश्विनोरथं स्तुहि । किं विशिष्टं पूर्वापुषं पूर्वेषां स्तोतृणां धनादिदानेन पोषकं सुहवं युद्धेषु शोभना- ह्वानं पुरुस्पृहं बहुभिः स्पृहणीयं भुज्युं भुजपालने सर्वस्यरक्षकं वाजेषु पूर्व्यं संग्रामेष्वग्रतोगंतारं सचनावन्तं सर्वैर्भजनवन्तं विद्वेषसं शत्रूणां विशे- षेणद्वेष्टारं अनेहसं कैश्चिदप्यनुपद्रवं पागरहितं वा रथं स्तुहीत्यन्वयः ॥ २ ॥