तावि॒दा चि॒दहा᳚नां॒ ताव॒श्विना॒ वन्द᳚मान॒ उप᳚ ब्रुवे ।
ता उ॒ नमो᳚भिरीमहे ॥
ता उ॒ नमो᳚भिरीमहे ॥
पदपाठः (Word-by-word)
तौ । इ॒दा । चि॒त् । अहा᳚नाम् । तौ । अ॒श्विना᳚ । वन्द᳚मानः । उप᳚ । ब्रु॒वे॒ ।
तौ । ऊं॒ इति᳚ । नमः᳚॑भिः । ई॒म॒हे॒ ॥
तौ । ऊं॒ इति᳚ । नमः᳚॑भिः । ई॒म॒हे॒ ॥
सायणभाष्यम् (Sayana Commentary)
तौ संग्रामे आयुधानि स्तोतृभ्योधनानिवा विस्तारयन्तौ तौ पूर्वोक्तावश्विनाश्विनौ अहानामह्नामिदाचित् इदानीमेव प्रातःकाले वन्दमानः अभिवादनं कुर्वन् सन् उपब्रुवे तयोः समीपे स्तौमि ततः ता ऊ तावेव नमोभिर्हविर्भिः स्तोत्रैर्वा ईमहे वयं धनादिकं याचामहे ॥ १३ ॥