श्रवणम्

8.22.5
रथो॒ यो वां᳚ त्रिवन्धु॒रो हिर᳚ण्याभीशुरश्विना ।
परि॒ द्यावा᳚पृथि॒वी भूष᳚ति श्रु॒तस्तेन᳚ नास॒त्या ग᳚तम् ॥
▶ पदपाठः (Word-by-word)
रथः᳚ । यः । वा॒म् । त्रि॒॑व॒न्धु॒रः । हिर᳚ण्य॑अभीशुः । अ॒श्वि॒ना॒ ।
परि᳚ । द्यावा᳚पृथि॒वी इति᳚ । भूष᳚ति । श्रु॒तः । तेन᳚ । ना॒स॒त्या॒ । आ । ग॒त॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विना अश्विनौ त्रिवंधुरः वंधुरं सारथिस्थानं त्रिप्रकारवंधुरोपेतः यद्वा द्वे ईषे तन्मध्ये रज्जुसज्जनार्थकोदंडः एतेत्रयोवंधुरशब्देनोच्यन्ते त्रिवंधुर- युक्तः हिरण्याभीशुः हिरण्मयाश्वादिरज्जुः वां युवयोर्योरथः श्रुतः सर्वत्रप्रसिद्धः सन् द्यावापृथिवी द्यावापृथिव्यौ परिभूषति स्वबलेन परिभवति भ- वतेर्लेटि सिप्यडागमः । यद्वा परितः स्वप्रकाशेनालंकरोति हे नासत्या नासत्यौ तेन पूर्वोक्तेन रथेनागतम् आगच्छतम् ॥ ५ ॥