श्रवणम्

8.22.11
यदध्रि᳚गावो॒ अध्रि᳚गू इ॒दा चि॒दह्नो᳚ अ॒श्विना॒ हवा᳚महे ।
व॒यं गी॒र्भिर्वि᳚प॒न्यवः᳚ ॥
▶ पदपाठः (Word-by-word)
यत् । अध्रि᳚॑गावः । अध्रि᳚गू॒ इत्यध्रि᳚॑गू । इ॒दा । चि॒त् । अह्नः᳚ । अ॒श्विना᳚ । हवा᳚महे ।
व॒यम् । गीः॒॑भिः । वि॒प॒न्यवः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अध्रिगावः अधृतधनाः कर्मसु त्वरमाणा विपन्यवोमेधाविनोवयं अध्रिगू अधऋतगमनौ संग्रामे श्त्रुवधार्थं त्वरयागच्छन्तौ अश्विना अश्विनौ युवां अह्रोदिवसस्य इदाचिदिदानीमेव प्रातःकाले गीर्भिः स्तुतिलक्षणाभिर्वाग्भिः यद्यदा हवामहे युवामाह्वयामः तदा ताभिरूतिभिः अस्मानागच्छत- मित्युत्तरत्रसंबन्धः ॥ ११ ॥