यु॒वो रथ᳚स्य॒ परि᳚ च॒क्रमी᳚यत ई॒र्मान्यद्वा᳚मिषण्यति ।
अ॒स्मा{4} अच्छा᳚ सुम॒तिर्वां᳚ शुभस्पती॒ आ धे॒नुरि᳚व धावतु ॥
अ॒स्मा{4} अच्छा᳚ सुम॒तिर्वां᳚ शुभस्पती॒ आ धे॒नुरि᳚व धावतु ॥
पदपाठः (Word-by-word)
यु॒वोः । रथ᳚स्य । परि᳚ । च॒क्रम् । ई॒य॒ते॒ । ई॒र्मा । अ॒न्यत् । वा॒म् । इ॒ष॒ण्य॒ति॒ ।
अ॒स्मान् । अच्छ᳚ । सु॒॑म॒तिः । वा॒म् । शु॒भः॒ । प॒ती॒ इति᳚ । आ । धे॒नुः॑इ᳚व । धा॒व॒तु॒ ॥
अ॒स्मान् । अच्छ᳚ । सु॒॑म॒तिः । वा॒म् । शु॒भः॒ । प॒ती॒ इति᳚ । आ । धे॒नुः॑इ᳚व । धा॒व॒तु॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे अश्विनौ युवोः युवयोरथस्यैकंचक्रं परितोद्यां ईयते गच्छति अन्यकवस्थितं रथस्य चक्रमीर्मा ईर्मौ सर्वस्यान्तर्यामितया प्रेरकौ यद्वा उदकस्य प्रेर- यितारौ वां युवामिषण्यति गच्छति । उक्तार्थेमत्रांतरं-न्य१घ्न्यस्वमूर्धनीति । हे शुभस्पती उदकस्य पालयितारौ हे अश्विनौ वां युवयोः सुमतिः कल्याणीमतिरच्छाभिमुख्येन अस्मानाधावतु आगच्छतु । तत्रदृष्टान्तःधेनुरिव यथानवप्रसूतागौर्वत्सं प्रति पयोदानार्थमागच्छति तद्वद्युवयोः सुम- तिरस्मान्प्रति धनादिप्रदानार्थमागच्छतु ॥ ४ ॥