आ सुग्म्या᳚य॒ सुग्म्यं᳚ प्रा॒ता रथे᳚ना॒श्विना᳚ वा स॒क्षणी᳚ ।
हु॒वे पि॒तेव॒ सोभ᳚री ॥
हु॒वे पि॒तेव॒ सोभ᳚री ॥
पदपाठः (Word-by-word)
आ । सुग्म्या᳚य । सुग्म्य᳚म् । प्रा॒तरिति᳚ । रथे᳚न । अ॒श्विना᳚ । वा॒ । स॒क्षणी॒ इति᳚ ।
हु॒वे । पि॒ता॑इ᳚व । सोभ᳚री ॥
हु॒वे । पि॒ता॑इ᳚व । सोभ᳚री ॥
सायणभाष्यम् (Sayana Commentary)
वा अपिच सक्षणी सेचनीयशीलौ अश्विना अश्विनौ युवां सुग्म्याय सुखार्हाय मत्द्यं सुग्म्यं सुखं प्रातः काले रथेनावहतम् । ततः सोभरिरहं हुवे युवामाह्वयामि । तत्रदृष्टान्तः-पितेव यथा मम पिता जुहाव तद्वदहमाह्वयामि ॥ १५ ॥