आ हि रु॒हत᳚मश्विना॒ रथे॒ कोशे᳚ हिर॒ण्यये᳚ वृषण्वसू ।
यु॒ञ्जाथां॒ पीव᳚री॒रिषः᳚ ॥
यु॒ञ्जाथां॒ पीव᳚री॒रिषः᳚ ॥
पदपाठः (Word-by-word)
आ । हि । रु॒हत᳚म् । अ॒श्वि॒ना॒ । रथे᳚ । कोशे᳚ । हि॒र॒ण्यये᳚ । वृ॒ष॒ण्व॒सू॒ इति᳚ वृषण्॑वसू ।
यु॒ञ्जाथा᳚म् । पीव᳚रीः । इषः᳚ ॥
यु॒ञ्जाथा᳚म् । पीव᳚रीः । इषः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
वृषण्वसू वर्षणशीलधनौ हे अश्विना अश्विनौ हिरण्यये हिरण्मयरज्जवादियुक्ते कोशे आयुधादीनां कोशस्थाने रमणशीले रथे हिरवधारणे युवामेव आरुहतं आरोहणं कुरुतं ततः पीवरीः पावयितृणि स्थूलानि वा इषोन्नानि युंजाथां अस्मासु योजयतम् ॥ ९ ॥