श्रवणम्

8.22.10
याभि᳚ः प॒क्थमव᳚थो॒ याभि॒रध्रि᳚गुं॒ याभि᳚र्ब॒भ्रुं विजो᳚षसम् ।
ताभि᳚र्नो म॒क्षू तूय᳚मश्वि॒ना ग᳚तं भिष॒ज्यतं॒ यदातु᳚रम् ॥
▶ पदपाठः (Word-by-word)
याभिः᳚ । प॒क्थम् । अव᳚थः । याभिः᳚ । अध्रि᳚॑गुम् । याभिः᳚ । ब॒भ्रुम् । वि॑जो᳚षसम् ।
ताभिः᳚ । नः॒ । म॒क्षु । तूय᳚म् । अ॒श्वि॒ना॒ । आ । ग॒त॒म् । भि॒ष॒ज्यत᳚म् । यत् । आतु᳚रम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनौ याभिरूतिभिः पक्थं एतन्नामकं राजानं अवथः रक्षथः याभिरूतिभिश्च अप्रिगुं अधृतगमनं राजानं अवथःयाभिरूतिभिश्च बभ्रुं राजानंच विजोषसं विशेषेण सोमैःप्रीणयंतं एतान् सर्वान् यैःपालनैरवथः ताभिस्तैरक्षणैः मक्षु क्षिप्रं तूयं तूर्णं नोस्मानागतं रक्षणार्थमागच्छतम् । किंच यत् यत् आतुरं रोगादिसहितं अस्माकं पुत्रादिकं प्रति भिषज्यतंभैषज्यं कुरुतम् भिषक्कंड्वादिः ॥ १० ॥