श्रवणम्

8.22.14
ताविद्दो॒षा ता उ॒षसि᳚ शु॒भस्पती॒ ता याम᳚न्रु॒द्रव᳚र्तनी ।
मा नो॒ मर्ता᳚य रि॒पवे᳚ वाजिनीवसू प॒रो रु᳚द्रा॒वति᳚ ख्यतम् ॥
▶ पदपाठः (Word-by-word)
तौ । इत् । दो॒षा । तौ । उ॒षसि᳚ । शु॒भः । पती॒ इति᳚ । ता । याम᳚न् । रु॒द्रव᳚र्तनी॒ इति᳚ रु॒द्र॑व᳚र्तनी ।
मा । नः॒ । मर्ता᳚य । रि॒पवे᳚ । वा॒जि॒नी॒व॒सू॒ इति᳚ वाजिनी॑वसू । प॒रः । रु॒द्रौ॒ । अति᳚ । ख्य॒त॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

शुभस्पती उदकस्यपालयितारौ रुद्रवर्तनी युद्धे रोदनशीलमार्गौ स्तूयमानमार्गौवा तावित् तावेवाश्विनौ दोषा दोषायां रात्रौ तावेव उषस्युषःकाले ता तावश्विनौ यामन् यामन्यहनिच सर्वेषु कालेषु वयमश्विनावाह्वयामः एवंसति वाजिनीवसू अन्नधनौ रुद्रौ हे अश्विनौ मर्ताय मनुष्याय रिपवे शत्रवे नोस्मत्परः परस्तान्मातिख्यतं माब्रूतम् शत्रवेस्मान्माकुरुतमित्यर्थः ॥ १४ ॥