श्रवणम्

8.22.7
उप᳚ नो वाजिनीवसू या॒तमृ॒तस्य᳚ प॒थिभि᳚ः ।
येभि᳚स्तृ॒क्षिं वृ᳚षणा त्रासदस्य॒वं म॒हे क्ष॒त्राय॒ जिन्व᳚थः ॥
▶ पदपाठः (Word-by-word)
उप᳚ । नः॒ । वा॒जि॒नी॒व॒सू॒ इति᳚ वाजिनी॑वसू । या॒तम् । ऋ॒तस्य᳚ । प॒थि॑भिः᳚ ।
येभिः᳚ । तृ॒क्षिम् । वृ॒ष॒णा॒ । त्रा॒स॒द॒स्य॒वम् । म॒हे । क्ष॒त्राय᳚ । जिन्व᳚थः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वाजिनीवसू अन्नमेवधनं ययोस्तौ अश्विनौ ऋतस्य सत्यभूतस्य यज्ञस्य पथिभिर्मार्गैर्नोस्मानुपयातं आगच्छतं वृषणा वृषणौ धनानां सेक्तारौ हे अश्विनौ त्रासदस्यवं त्रसदस्योः पुत्रं तृक्षिमेतन्नामकं येभिर्यैर्यज्ञमार्गैर्महे महते क्षत्राय धनाय जिन्वथः प्रीणयथः एवं तैर्मार्गैरस्मान् धनादिभिः प्रीणयितुमागतमित्यर्थः ॥ ७ ॥