अष्टमं मण्डलम् - सूक्तम् 84

9 ऋचः

ऋषिः: उशना काव्यः देवता: अग्निः छन्दः: गायत्री

सूक्तम् 8.84 - सम्पूर्णम्

1 / 9
ऋक्: 8.84.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (9)
8.84.1
प्रेष्ठं᳚ वो॒ अति᳚थिं स्तु॒षे मि॒त्रमि᳚व प्रि॒यम् ।
अ॒ग्निं रथं॒ न वेद्य᳚म् ॥
▶ पदपाठः (Word-by-word)
प्रेष्ठ᳚म् । वः॒ । अति᳚थिम् । स्तु॒षे । मि॒त्रम्॑इ᳚व । प्रि॒यम् ।
अ॒ग्निम् । रथ᳚म् । न । वेद्य᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे यजमानाः प्रेष्ठं युष्माकं धनदानेन प्रियतमं अतिथिं युष्माभिरतिथिवत् पूज्यं यद्वा अत सातत्यगमने ऋतन्यञ्चीत्यादिना अतेरिथिन् सततं देवानां हविः प्रदातुं गच्छन्तं मित्रमिव सखायमिव प्रियं स्तोतुः प्रीणनकरं रथंन रथमिव वेद्यं वेदोधनं धनहितं लाभहेतुं यथा रथी रथेन धनं लभते तद्वत् स्तोतारोनेनधनं लभन्ते तादृशं धनलाभकार्५अणमग्निं वोयुष्मत्कर्मसिध्यार्थं स्तुषे काव्यउशना स्तौति ॥ १ ॥

8.84.2
क॒विमि᳚व॒ प्रचे᳚तसं॒ यं दे॒वासो॒ अध᳚ द्वि॒ता ।
नि मर्त्ये᳚ष्वाद॒धुः ॥
▶ पदपाठः (Word-by-word)
क॒विम्॑इ᳚व । प्र॑चे᳚तसम् । यम् । दे॒वासः᳚ । अध᳚ । द्वि॒ता ।
नि । मर्त्ये᳚षु । आ॒॑द॒धुः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अधापिच देवासोदेवाः इन्द्रादयः यमग्निं मर्त्येषु मनुष्येषु द्विता द्विधान्यादधुः गार्हपत्याहवनीयात्मकत्वेन द्विधा निहितवन्तः । तत्रदृष्टान्तः-कविमिव प्रचेतसं प्रकृष्टज्ञानं कविं क्रान्तकर्माणं पुरुषं यथा द्विधा कार्यद्वयेऽन्यो नियोजयति तद्वत् । यद्वा दिवि पृथिव्यां च निहितवन्तः भूमौतु हविराहरणार्थम् । दिवितु हविः प्रदानार्थं इति द्वैधं विधानं कृतवन्तइत्यर्थः ॥ २ ॥

8.84.3
त्वं य᳚विष्ठ दा॒शुषो॒ नॄ{4}ः पा᳚हि शृणु॒धी गिरः᳚ ।
रक्षा᳚ तो॒कमु॒त त्मना᳚ ॥
▶ पदपाठः (Word-by-word)
त्वम् । य॒वि॒ष्ठ॒ । दा॒शुषः᳚ । नॄन् । पा॒हि॒ । शृ॒णु॒धि । गिरः᳚ ।
रक्ष᳚ । तो॒कम् । उ॒त । त्मना᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे यविष्ठ युवतम यद्वा यौतेस्तृजन्तस्य इष्ठनिरूपं देवानां हविषां मिश्रयितृतमाग्ने त्वं दाशुषो हविर्दत्तवतो नॄन् कर्मणां नेतॄन् यजमानान् पाहि धनादिदानेन रक्ष । नॄःपाहीत्यत्र संहितायां नॄन्पेइति नकारस्य रुत्वं अत्रानुनासिकइति पूर्वस्यानुनासिकः । किंच गिरः त्वद्विषयाः स्तुतीः शृणुधि अवहितः सन् शृणु । श्रु श्रवणे श्रु शुणु पॄ इत्यादिना हेर्ध्यादेशः । उतापिच त्मना आत्मनैव स्वयमेव तोकमस्मदीयं तनयं पुत्रं रक्ष पालय । त्मनेति सर्वत्र संबध्यते आत्मना स्वयमेव रक्ष । त्वदन्यं पालयितारं नविंदामः । त्वमेवास्मदीयं स्तोत्रं शृणु ॥ ३ ॥

8.84.4
कया᳚ ते अग्ने अङ्गिर॒ ऊर्जो᳚ नपा॒दुप᳚स्तुतिम् ।
वरा᳚य देव म॒न्यवे᳚ ॥
▶ पदपाठः (Word-by-word)
कया᳚ । ते॒ । अ॒ग्ने॒ । अ॒ङ्गि॒रः॒ । ऊर्जः᳚ । न॒पा॒त् । उप᳚॑स्तुतिम् ।
वरा᳚य । दे॒व॒ । म॒न्यवे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अंगिरः अंगिरसां वरिष्ठ यद्वा अंगति सर्वत्र गच्छतीत्यंगिराः तादृश हे ऊर्जोनपात् नपादित्यपत्यनाम अन्नस्यपुत्र हविर्भिर्वर्धमानत्वात् । यद्वा नपादिति नप्ता हविर्लक्षणस्यान्नस्य नप्तः-अग्नौप्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायतेवृष्टिरिति । वृष्टेरोषधयः ओषधीभ्यः अग्निरिति अन्नस्यनप्तः हे देव द्योतमानाग्ने वराय सर्वैर्वरणीयाय मन्यवे शत्रूनतिमन्यमानाय ते तुभ्यं कया कीदृश्या वाचा उपस्तुतिमुपस्तोत्रमहंभरेयं त्वं महान् खलु अहमल्पः तदर्थं स्तुतिं कुर्यामिति ऋषिरग्निं प्रतिवदति ॥ ४ ॥

8.84.5
दाशे᳚म॒ कस्य॒ मन᳚सा य॒ज्ञस्य᳚ सहसो यहो ।
कदु᳚ वोच इ॒दं नमः᳚ ॥
▶ पदपाठः (Word-by-word)
दाशे᳚म । कस्य᳚ । मन᳚सा । य॒ज्ञस्य᳚ । स॒ह॒सः॒ । य॒हो॒ इति᳚ ।
कत् । ऊं॒ इति᳚ । वो॒चे॒ । इ॒दम् । नमः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऋषिराग्निंप्रतिबूते हे सहसोयहो यहुरित्यपत्यनाम बलेन निष्पाद्यमानत्वात् बलस्यपुत्र हे अग्ने कस्य कीदृशस्य यज्ञस्य यज्ञवतो यजनीयदेववतो यजमानस्य मनसा युक्ताः सन्तो हवींषि तुभ्यं वयं दाशेम प्रयच्छेम पूजायां बहुवचनम् । किंच तुभ्यं इदंनमो हविर्नमस्कारंवा कत् कदावा वोचे वच्यादेशस्य लुङ्यात्मनेपदे उत्तमैकवचने रूपम् ॥ ५ ॥

8.84.6
अधा॒ त्वं हि न॒स्करो॒ विश्वा᳚ अ॒स्मभ्यं᳚ सुक्षि॒तीः ।
वाज᳚द्रविणसो॒ गिरः᳚ ॥
▶ पदपाठः (Word-by-word)
अध᳚ । त्वम् । हि । नः॒ । करः᳚ । विश्वाः᳚ । अ॒स्मभ्य᳚म् । सु॒॑क्षि॒तीः ।
वाज᳚॑द्रविणसः । गिरः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने अधानन्तरं त्वं हिरवधारणे त्वमेवास्मभ्यं करः कुरु देहीत्यर्थः करोतेर्लेट्यडागमः । किमित्यपेक्षायामाह-नोस्मदीयागिरस्त्वद्विषया विश्वाः सर्वाः स्तुतीरेवं कुरु यथा सुक्षितीः क्षियन्ति निवसन्तीत्यत्रेतिक्षितयोगृहाः शोभननिवासाः यद्वा क्षितयोमनुष्याः कल्याणपुत्रपौत्रादियुक्ताः तथा वाजद्रविणसः अन्नयुक्तधनवतीः अथवा वाजोदीप्तिः सर्वतोदीप्तधनाश्च कुरु त्वमस्माभिः स्तुतः सन् गृहपुत्रान्नधनादीनि देहीत्यर्थः ॥ ६ ॥

8.84.7
कस्य᳚ नू॒नं परी᳚णसो॒ धियो᳚ जिन्वसि दम्पते ।
गोषा᳚ता॒ यस्य᳚ ते॒ गिरः᳚ ॥
▶ पदपाठः (Word-by-word)
कस्य᳚ । नू॒नम् । परी᳚णसः । धियः᳚ । जि॒न्व॒सि॒ । द॒म्॑प॒ते॒ ।
गो॑सा᳚ता । यस्य᳚ । ते॒ । गिरः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे दंपते गृहपते यदा गाहपत्ये वर्तसे तदा जायापतिस्वरूपोसि तस्माद्दंपतिशब्देनाग्निरभिधीयते । तथाविध हे अग्ने नूनमिदानीं कस्य कीदृशस्य जनस्य परीणसः बहूनि धियः कर्माणि जिन्वसि प्रीणयसि । यस्य ते तव संबन्धिन्योगिरः स्तुतयः गोसाता गोसातौ गवां लाभे भवन्ति खलु । तस्मात्त्वं कुत्र तिष्ठसि । अस्माकमिदानीं गवेच्छा प्रवर्तते । यद्वा हे अग्ने त्वमिदानीं कस्य कर्माणि प्रीणयसि नकस्यापीत्यर्थः । अस्माकमेव कर्माणि प्रीणयेतिभावः ॥ ७ ॥

8.84.8
तं म᳚र्जयन्त सु॒क्रतुं᳚ पुरो॒यावा᳚नमा॒जिषु᳚ ।
स्वेषु॒ क्षये᳚षु वा॒जिन᳚म् ॥
▶ पदपाठः (Word-by-word)
तम् । म॒र्ज॒य॒न्त॒ । सु॒॑क्रतु᳚म् । पु॒रः॒॑यावा᳚नम् । आ॒जिषु᳚ ।
स्वेषु᳚ । क्षये᳚षु । वा॒जिन᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

सुक्रतुं शोभनप्रज्ञं सुकर्माणं वा आजिषु संग्रामेषु पुरोयावानं शत्रुहननार्थं पुरतएवगन्तारं वाजिनं बलवन्तं तं तादृशमग्निं यजमानाः स्वेषु आत्मीयेषु क्षयेषु गृहेषु मर्जयन्त निर्मथितमग्निमलंकुर्वन्ति परिचरन्तीति यावत् ॥ ८ ॥

8.84.9
क्षेति॒ क्षेमे᳚भिः सा॒धुभि॒र्नकि॒र्यं घ्नन्ति॒ हन्ति॒ यः ।
अग्ने᳚ सु॒वीर᳚ एधते ॥
▶ पदपाठः (Word-by-word)
क्षेति᳚ । क्षेमे᳚भिः । सा॒धु॑भिः᳚ । नकिः᳚ । यम् । घ्नन्ति᳚ । हन्ति᳚ । यः ।
अग्ने᳚ । सु॒॑वीरः᳚ । ए॒ध॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने योमनुष्यः साधुभिः साधयद्भिः क्षेमेभिः पालनैः सह क्षेति स्वगृहे निवसति । तथा यं जनं नकिः नकेचन घ्नन्ति न हिंसन्ति । यएवं हन्ति शत्रून् स्वयमेव हन्ति समनुष्यस्तव स्तोता खलु अन्यथा तस्यैतावन्नघटते । ततः सः स्तोता सुवीरः शोभनपुत्रादियुक्तः सन् एधते आत्मीयगृहेषु धनादिभिर्वर्धते ॥ ९ ॥

आमेहवमिति नवर्चं पंचमं सूक्तं कृष्णोनामांगिरसऋषिः गायत्रीछन्दः एतदादीनि त्रीणिसूक्तानि अश्विदेवत्यानि । तथाचानुक्रान्तं-आमेकृष्ण- आश्विनंहीति । प्रातरनुवाकाश्विने क्रतौ गायत्रेछंदस्याश्विनशस्त्रे चेदंसूक्तम् । सूत्रितंव-उदीराथामामेहवमिति ।