अष्टमं मण्डलम् - सूक्तम् 27

22 ऋचः

ऋषिः: मनुर्वैवस्वतः देवता: विश्वेदेवाः छन्दः: बृहती

सूक्तम् 8.27 - सम्पूर्णम्

1 / 22
ऋक्: 8.27.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (22)
8.27.1
अ॒ग्निरु॒क्थे पु॒रोहि᳚तो॒ ग्रावा᳚णो ब॒र्हिर᳚ध्व॒रे ।
ऋ॒चा या᳚मि म॒रुतो॒ ब्रह्म᳚ण॒स्पतिं᳚ दे॒वा{4} अवो॒ वरे᳚ण्यम् ॥
▶ पदपाठः (Word-by-word)
अ॒ग्निः । उ॒क्थे । पु॒रः॑हि᳚तः । ग्रावा᳚णः । ब॒र्हिः । अ॒ध्व॒रे ।
ऋ॒चा । या॒मि॒ । म॒रुतः᳚ । ब्रह्म᳚णः । पति᳚म् । दे॒वान् । अवः᳚ । वरे᳚ण्यम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

मनुः प्रार्थयते उक्थे स्तोत्रशस्त्रात्मके अध्वरे हिंसारहितेस्मिन् यज्ञे अग्निः पुरोहितः यज्ञार्थं पुरतउत्तरवेद्यां ऋत्विग्भिः निहितोभूत् तथा ग्रावाणश्च सोमाभिषवार्थं पुरतोनिहिताः बर्हिश्च पुरतोनिहितमासादितं एवं सामग्र्यां सत्यां मरुतः एकोनपच्चाशन्मरुद्गणान् ब्रह्मणस्पतिः स्तोत्रस्य पालयि- तारमेतन्नामकं देवं देवानिन्द्रादींश्च एतान् सर्वान् देवान् वरेण्यं वरणीयं भजनीयं अवोरक्षणं ऋचासूक्तरूपया स्तुत्या यामि मनुरहं याचामि । याचतेर्लटिरूपम् वर्णलोपश्छान्दसः ॥ १ ॥

8.27.2 समानपद
आ प॒शुं गा᳚सि पृथि॒वीं वन॒स्पती᳚नु॒षासा॒ नक्त॒मोष᳚धीः ।
विश्वे᳚ च नो वसवो विश्ववेदसो धी॒नां भू᳚त प्रावि॒तारः᳚ ॥
▶ पदपाठः (Word-by-word)
आ । प॒शुम् । गा॒सि॒ । पृ॒थि॒वीम् । वन॒स्पती᳚न् । उ॒षसा᳚ । नक्त᳚म् । ओष᳚धीः ।
विश्वे᳚ । च॒ । नः॒ । व॒स॒वः॒ । वि॒श्व॒॑वे॒द॒सः॒ । धी॒नाम् । भू॒त॒ । प्र॒॑अ॒वि॒तारः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पूर्वार्धर्चेग्निःसंबोध्यते पश्वादिशब्दसन्द्रावात् । हे अग्ने नोस्मदीये यज्ञे पशुमग्नीपोमीयं पशुंप्रति आगासि आगच्छसि । गाङ् गतौ व्यत्ययेनपरस्मैपदम् । तथा पृथिवीमिदं देवसदनंप्रति । किच्च वनस्पतीन् मथनसाधनानरणिरूपान्वनस्पतीन्प्रति । तथा उषसा होतव्यत्वेनोषः कालं तथा नक्तं यष्टव्यत- या रात्रिंच प्रति । किच्च ओषधीः उषदाहे अत्र मादनकर्मा ओषन्ति माद्यन्ति अनेनेति ओषः सोमः । सधीयते निधीयते येष्विति ओषधयोग्रावाणः तान् प्रति आगच्छसि । यद्वा ओषध्यः फलपाकान्तालताः ताःप्रति आयाहि । अथवा हे स्तोतः पश्वादीनागासि समंतात्स्तुहि । कैगै शब्देइतिधातुः । ततः हे वसवः वासयितारोविश्ववेदसः सर्वधनाः सर्वज्ञानावा हे विश्वे सर्वेपि देवानोस्मदीयानां कर्मणां प्रावितारोभूत अनेनाग्निनासह यूयं प्रकर्षेण रक्षकाभवत ॥ २ ॥

8.27.3
प्र सू न᳚ एत्वध्व॒रो॒३॒᳚॑ग्ना दे॒वेषु᳚ पू॒र्व्यः ।
आ॒दि॒त्येषु॒ प्र वरु᳚णे धृ॒तव्र᳚ते म॒रुत्सु᳚ वि॒श्वभा᳚नुषु ॥
▶ पदपाठः (Word-by-word)
प्र । सु । नः॒ । ए॒तु॒ । अ॒ध्व॒रः । अ॒ग्ना । दे॒वेषु᳚ । पू॒र्व्यः ।
आ॒दि॒त्येषु᳚ । प्र । वरु᳚णे । धृ॒त॑व्र᳚ते । म॒रुत्॑सु᳚ । वि॒श्व॑भा᳚नुषु ॥
▶ सायणभाष्यम् (Sayana Commentary)

पूर्व्यः पुरातनः पूर्व्यान् पुरातनानिन्द्रादीन् देवान्प्रति क्रियमाणत्वाद्यज्ञोपि पूर्व्यइत्युच्यते तादृशोमुख्योनोस्मदीयोध्वरोयज्ञः अग्रा सुपांसुलुगिति सप्तम्याडादेशः अग्नौ अग्निर्देवानां मुख्यत्वात् प्रथममभिहितः तस्मिन्नग्नौ सर्वेष्वन्येषु देवेषु च सु सुष्ठु प्रैतु प्रकर्षेण गच्छतु । देवान् विशिनष्टि आदि- त्येषु अदितेः पुत्रेषु इन्द्रादिषु धृतव्रते धृतकर्मणि वरुणेच विश्वभानुषु सर्वतोव्याप्ततेजस्केषु मरुत्सुच प्रैतु ॥ ३ ॥

8.27.4
विश्वे॒ हि ष्मा॒ मन᳚वे वि॒श्ववे᳚दसो॒ भुव᳚न्वृ॒धे रि॒शाद᳚सः ।
अरि᳚ष्टेभिः पा॒युभि᳚र्विश्ववेदसो॒ यन्ता᳚ नो॑वृ॒कं छ॒र्दिः ॥
▶ पदपाठः (Word-by-word)
विश्वे᳚ । हि । स्म॒ । मन᳚वे । वि॒श्व॑वे᳚दसः । भुव᳚न् । वृ॒धे । रि॒शाद᳚सः ।
अरि᳚ष्टेभिः । पा॒यु॑भिः᳚ । वि॒श्व॒॑वे॒द॒सः॒ । यन्त᳚ । नः॒ । अ॒वृ॒कम् । छ॒र्दिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

विश्ववेदसः सर्वतोव्याप्तधना बहुधनाइत्यर्थः तादृशा रिशादसः रिशतां हिंसतां शत्रूणामसितारः उपक्षपयितारोवा विश्वेहिष्म सर्वेखलु देवा मनवे षष्ठ्यर्थेचतुर्थी मनोः वृधे वर्धनाय भुवन् भवन्तु स्तोत्रे मनुष्याय धनं दत्वा तं वर्धयन्त्वित्याशास्ते । ततः हे विश्ववेदसः सर्वधनाः सर्वज्ञावादेवाः अरिष्टेभिः परैरहिंसितैः पायुभिः पालनैः सह अवृकं वृकःस्तेनस्तद्रहितं बाधारहितमित्यर्थः । तादृशं छर्दिर्गृहं नोस्मभ्यं यन्त प्रयच्छत शत्रून्हत्वा गृ- हेष्वस्माभिः कर्माणि कारयतेत्यर्थः । यन्तेति यमेर्लोटि छान्दसोविकरणस्यलुक् तस्य तबादेशः तेनानुनासिकलोपाभावः ॥ ४ ॥

8.27.5
आ नो᳚ अ॒द्य सम᳚नसो॒ गन्ता॒ विश्वे᳚ स॒जोष᳚सः ।
ऋ॒चा गि॒रा मरु᳚तो॒ देव्यदि᳚ते॒ सद᳚ने॒ पस्त्ये᳚ महि ॥
▶ पदपाठः (Word-by-word)
आ । नः॒ । अ॒द्य । स॑म᳚नसः । गन्त᳚ । विश्वे᳚ । स॒॑जोष᳚सः ।
ऋ॒चा । गि॒रा । मरु᳚तः । देवि᳚ । अदि᳚ते । सद᳚ने । पस्त्ये᳚ । म॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

समनसः सर्वेषुस्तोत्रेषु समानमनस्काः विश्वे सर्वेदेवाः यूयं सजोषसः परस्परं संगताः सन्तः गिरा शुश्रूषुतया प्राप्तव्ययेत्यर्थः तया ऋचासह अद्या- स्मिन्यागदिने नोयष्टृनस्मानागन्त आगच्छत । अनन्तरं हे मरुतः देवि द्योतमाने महि महति देवानां मातृत्वात् महत्वयुक्ते हे अदिते अदीने एतन्ना- मिके देवि सदने स्थाने पस्त्येस्मदीयेगृहे स्तोतव्यतया उपविशत । मरुतइत्यादेर्वाक्यभेदादनिघातः उत्तरत्र पूर्वस्यामन्त्रितस्याविद्यमानवत्वेन वा- क्यादित्वादनिघातः ॥ ५ ॥

8.27.6 समानपद
अ॒भि प्रि॒या म᳚रुतो॒ या वो॒ अश्व्या᳚ ह॒व्या मि᳚त्र प्रया॒थन᳚ ।
आ ब॒र्हिरिन्द्रो॒ वरु᳚णस्तु॒रा नर᳚ आदि॒त्यासः᳚ सदन्तु नः ॥
▶ पदपाठः (Word-by-word)
अ॒भि । प्रि॒या । म॒रु॒तः॒ । या । वः॒ । अश्व्या᳚ । ह॒व्या । मि॒त्र॒ । प्र॒॑या॒थन᳚ ।
आ । ब॒र्हिः । इन्द्रः᳚ । वरु᳚णः । तु॒राः । नरः᳚ । आ॒दि॒त्यासः᳚ । स॒द॒न्तु॒ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मरुतःप्रिया प्रियाणि या यानि वोयुष्माकमश्व्या अश्व्यानि प्रियान् अश्वसंघान् अभिप्रयाथन अस्मद्यज्ञंप्रति प्रापयत यूयमश्वैर्युक्ताः सन्तआगच्छ- तेत्यर्थः । अथ हे मित्र मित्रशब्देनान्येवरुणादयोप्युच्यन्ते हे मित्रादयोदेवाः हव्या हव्यानि हवनयोग्यानि हवींषि स्वीकर्तुमागच्छतेत्यर्थः । स्तूय- माना आगच्छत । प्रपूर्वाद्यातेर्लोटि तप्तनप्तनथनाश्चेतिथनादेशः । आगत्यच इन्द्रोवरुणः इन्द्रावरुणौ तुराः संग्रामे शत्रुवधार्थं त्वरमाणाः नरोनेतार- आदित्यासःअदितेः पुत्रामरुदादयोदेवाश्च नोस्मदीये यज्ञे बर्हिः बर्हिषि आसादिते आसदन्तु आसीदन्तु प्रविशन्तु । सदेःसीदादेशाभावश्छान्दसः ॥ ६ ॥

8.27.7 समानपद
व॒यं वो᳚ वृ॒क्तब᳚र्हिषो हि॒तप्र᳚यस आनु॒षक् ।
सु॒तसो᳚मासो वरुण हवामहे मनु॒ष्वदि॒द्धाग्न᳚यः ॥
▶ पदपाठः (Word-by-word)
व॒यम् । वः॒ । वृ॒क्त॑ब᳚र्हिषः । हि॒त॑प्र᳚यसः । आ॒नु॒षक् ।
सु॒त॑सो᳚मासः । व॒रु॒ण॒ । ह॒वा॒म॒हे॒ । म॒नु॒ष्वत् । इ॒द्ध॑अ᳚ग्नयः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वरुण वरुणादयोदेवाः वृक्तबर्हिषऋत्विजोवयं आनुषक् स्नुगादिषु अनुषक्तं यथा भवति तथा हितप्रयसः प्रीणातीति प्रयोन्नं तेषु निहितहविष्काः- सन्तः वोयुष्मान् हवामहे एतानि हवींष्यादातुमाह्वयामः । कीदृशाः सुतसोमासः अभिषुतसोमाः इद्धाग्नयः आहुतिभिः समिद्धाग्नयो वयमाह्वया- मः । तत्रदृष्टान्तः-मनुष्वत् मनुर्यथा यज्ञे युष्मानाजुहाव तद्वत् ॥ ७ ॥

8.27.8 समानपद
आ प्र या᳚त॒ मरु᳚तो॒ विष्णो॒ अश्वि᳚ना॒ पूष॒न्माकी᳚नया धि॒या ।
इन्द्र॒ आ या᳚तु प्रथ॒मः स᳚नि॒ष्युभि॒र्वृषा॒ यो वृ᳚त्र॒हा गृ॒णे ॥
▶ पदपाठः (Word-by-word)
आ । प्र । या॒त॒ । मरु᳚तः । विष्णो॒ इति᳚ । अश्वि᳚ना । पूष᳚न् । माकी᳚नया । धि॒या ।
इन्द्रः᳚ । आ । या॒तु॒ । प्र॒थ॒मः । स॒नि॒ष्यु॑भिः᳚ । वृषा᳚ । यः । वृ॒त्र॒॑हा । गृ॒णे ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे विश्वेदेवाः प्रयात प्रकर्षेणास्मदीयकर्मण्यागच्छत । हे मरुतः हे विष्णो स्वबलेन सर्वतोव्याप्त एतन्नामकदेव हे अश्विना अश्विनौ पूषन् स्तोतृन् ध- नादिना पोषयतीतिपूषा एतन्नामकदेव मरुदादयो हे देवाः । माकीनया अस्मच्छब्दात् युष्मदस्मदोरिति खत्रूशैषिकः एकवचने तवकममकाविति ममकादेशः वर्णलोपश्छान्दसः । मया क्रियमाणया धिया स्तुत्या सहास्मद्यज्ञं प्रत्यागच्छत । मरुदादेरामन्त्रितस्य वाक्यभेदादनिघातः । किच्च प्रथ- मोदेवानां मुख्यः सइन्द्रश्चायातु वृषा कामानां सेक्ता यइन्द्रः सनिष्युभिः सनिः संभजनं तदात्मनइच्छद्धिः स्तोतृभिः वृत्रहा अपामावरकस्य वृत्रासु- रस्य हन्तेति गृणे गृणते स्तूयते । गृशब्देइत्यस्य कर्मणि लिटि छांदसोविकरणः ॥ ८ ॥

8.27.9
वि नो᳚ देवासो अद्रु॒हो॑च्छि᳚द्रं॒ शर्म᳚ यच्छत ।
न यद्दू॒राद्व᳚सवो॒ नू चि॒दन्ति᳚तो॒ वरू᳚थमाद॒धर्ष᳚ति ॥
▶ पदपाठः (Word-by-word)
वि । नः॒ । दे॒वा॒सः॒ । अ॒द्रु॒हः॒ । अच्छि᳚द्रम् । शर्म᳚ । य॒च्छ॒त॒ ।
न । यत् । दू॒रात् । व॒स॒वः॒ । नु । चि॒त् । अन्ति᳚तः । वरू᳚थम् । आ॒॑द॒धर्ष᳚ति ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अद्रुहः स्तोतृणामद्रोग्धारः यद्वा द्रुहेरौणादिकः कर्मणिक्विप् शत्रुभिरहिंस्याः हे देवासो मरुदादयोदेवाः अच्छिद्रं बाधकरहितं साधियोवा शर्म शृ- णाति दुःखादिकमिति शर्मगृहं तत् नोस्मभ्यं वियच्छत । हे वसवः शत्रूणां वासयितारोमरुदादयः दूराद्दूरदेशात् अन्तितः अन्तिकदेशाद्वा कश्चिदा- गत्य नूचित्कदाचिदपि वरूथं वरणीथं वरणीयं संभजनीयं यद्गृहं नादधर्षति आधर्षणं हिंसनं नकरेति तद्गृहं प्रयच्छतेति समन्वयः । धृषप्रसहने- इत्यस्य विभाषितणिच् त्वात् यदा णिच्नास्ति तदा रूपम् ॥ ९ ॥

8.27.10 समानपद
अस्ति॒ हि वः᳚ सजा॒त्यं᳚ रिशादसो॒ देवा᳚सो॒ अस्त्याप्य᳚म् ।
प्र ण॒ः पूर्व᳚स्मै सुवि॒ताय᳚ वोचत म॒क्षू सु॒म्नाय॒ नव्य᳚से ॥
▶ पदपाठः (Word-by-word)
अस्ति᳚ । हि । वः॒ । स॒॑जा॒त्य᳚म् । रि॒शा॒द॒सः॒ । देवा᳚सः । अस्ति᳚ । आप्य᳚म् ।
प्र । नः॒ । पूर्व᳚स्मै । सु॒वि॒ताय᳚ । वो॒च॒त॒ । म॒क्षु । सु॒म्नाय᳚ । नव्य᳚से ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे रिशादसो रिशतां हिंसतामसितारो देवासोदेवा द्योतमानाः मरुदादयः वो युष्माकं सजात्यमस्ति परस्परं समानजातिभावोस्तिखलु । किच्च आप्यं आपिर्बन्धुः तस्यभावआप्यं स्तोतृषु स्तुत्यलक्षणसंबन्धात् वैवस्वतेन मनुना मया स्तोत्रा सह युष्माकं बन्धुभावोस्ति खलु । ततःपूर्वस्मै प्रथमभावि- ने सुविताय सुष्ठु ईयते सर्वैरागम्यतइति सुवितोभ्युदयः तस्मै नव्यसे नवीयसे नवतराय सुम्रायच उभयं मक्षु शीघ्रं नोस्माकं प्रवोचत प्रकर्षेण ब्रूत अभ्युदयधनानि प्रयच्छतेत्यर्थः ॥ १० ॥

8.27.11 समानपद
इ॒दा हि व॒ उप᳚स्तुतिमि॒दा वा॒मस्य᳚ भ॒क्तये᳚ ।
उप᳚ वो विश्ववेदसो नम॒स्युरा{4} असृ॒क्ष्यन्या᳚मिव ॥
▶ पदपाठः (Word-by-word)
इ॒दा । हि । वः॒ । उप᳚॑स्तुतिम् । इ॒दा । वा॒मस्य᳚ । भ॒क्तये᳚ ।
उप᳚ । वः॒ । वि॒श्व॒॑वे॒द॒सः॒ । न॒म॒स्युः । आ । असृ᳚क्षि । अन्या᳚म्॑इव ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे विश्ववेदसः सर्वधनाः हे देवा नमस्युरन्नमिच्छन् मनुरहं वोयुष्मद्विषयामुपस्तुतिमन्यामिव अदृष्टपूर्वामिवस्थिताःकैश्चिदप्यकृतामित्यर्थः तादृशी- मुपस्तुतिमिदाहि हिरवधारणे इदानीमेवोपासृक्षि उपासृजामि करोमीत्यर्थः । किमर्थं वोयुष्मत्संबन्धिनो वामस्य वननीयस्य इदा इदानीमेव भक्त- ये संभजनाय लाभायेत्यर्थः । असृक्षीति सृजेहुङिरूपम् पादादित्वादनिघातः ॥ ११ ॥

8.27.12
उदु॒ ष्य वः᳚ सवि॒ता सु᳚प्रणीत॒यो॑स्था᳚दू॒र्ध्वो वरे᳚ण्यः ।
नि द्वि॒पाद॒श्चतु᳚ष्पादो अ॒र्थिनो॑वि᳚श्रन्पतयि॒ष्णवः᳚ ॥
▶ पदपाठः (Word-by-word)
उत् । ऊं॒ इति᳚ । स्यः । वः॒ । स॒वि॒ता । सु॒॑प्र॒नी॒त॒यः । अस्था᳚त् । ऊ॒र्ध्वः । वरे᳚ण्यः ।
नि । द्वि॒॑पादः᳚ । चतुः᳚॑पादः । अ॒र्थिनः᳚ । अवि᳚श्रन् । प॒त॒यि॒ष्णवः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सुप्रणीतयः शोभनप्रणीतिः स्तुतिः शोभनप्रणयनाः शोभनस्तुतयोमरुतः वोयुष्माकं मध्ये ऊर्ध्वः ऊर्ध्वंगन्ता वरेण्यः सर्वैर्वरणीयः संभजनीयः स्यः ससविता सर्वस्य स्वकर्मणि प्रेरकः एतन्नामकः सदेवः यदा उदस्थात् स्वतेजसा उद्गतोभूत् तदा अर्थिनः द्विपादः पादद्वययुक्ताः पुरुषाः चतुष्पादः पादचतुष्टययुक्ताअश्वादयः पतयिष्णवः पतनशीलाः पक्षिणश्च न्यविश्रन् स्वस्वकार्येषु निविशन्ते । सूर्येउदिते केचनपुरुषा अग्निहोत्रादिकंकुर्वन्ति केचन देवता विषयं स्तोत्रं कुर्वन्ति पश्वादयस्तृणादिभक्षणार्थं सर्वत्रसच्चरन्ति । न्यविश्रन् निपूर्वाद्विशतेर्लङि व्यत्ययेन परस्मैपदं बहुलंछन्दसीतिरु- डागमः ॥ १२ ॥

8.27.13
दे॒वंदे᳚वं॒ वो॑व᳚से दे॒वंदे᳚वम॒भिष्ट᳚ये ।
दे॒वंदे᳚वं हुवेम॒ वाज᳚सातये गृ॒णन्तो᳚ दे॒व्या धि॒या ॥
▶ पदपाठः (Word-by-word)
दे॒वम्॑दे᳚वम् । वः॒ । अव᳚से । दे॒वम्॑दे᳚वम् । अ॒भिष्ट᳚ये ।
दे॒वम्॑दे᳚वम् । हु॒वे॒म॒ । वाज᳚॑सातये । गृ॒णन्तः᳚ । दे॒व्या । धि॒या ॥
▶ सायणभाष्यम् (Sayana Commentary)

वयं देव्या द्योतमानया धिया स्तुत्या गृणन्तः स्तुवन्तः सन्तोवोयुष्माकंमध्ये देवंदेवं दीप्यमानं देवं अवसे कर्मरक्षणायाह्वयाम । अनुक्रमेणाह अभि- ष्टये अभिलषितप्राप्त्यर्थंच देवंदेवं वयमाह्वयाम ततोवाजसातये अन्नलाभाय हुवेम आह्वयाम ॥ १३ ॥

8.27.14
दे॒वासो॒ हि ष्मा॒ मन᳚वे॒ सम᳚न्यवो॒ विश्वे᳚ सा॒कं सरा᳚तयः ।
ते नो᳚ अ॒द्य ते अ᳚प॒रं तु॒चे तु नो॒ भव᳚न्तु वरिवो॒विदः᳚ ॥
▶ पदपाठः (Word-by-word)
दे॒वासः᳚ । हि । स्म॒ । मन᳚वे । स॑म᳚न्यवः । विश्वे᳚ । सा॒कम् । स॑रा᳚तयः ।
ते । नः॒ । अ॒द्य । ते । अ॒प॒रम् । तु॒चे । तु । नः॒ । भव᳚न्तु । व॒रि॒वः॒॑विदः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

समन्यवः समानमनसः यद्वा संग्रामेषु शत्रुहननार्थं समानक्रोधयुक्ताः विश्वे सर्वेएव देवासोहिष्म मरुदादयोदेवाःखलु मनवे एतन्नामकाय ऋषये म- त्द्यं साकं सह युगपदेव सरातयः धनादिदानेन सहिताभवन्तु । पुनरपि प्रार्थयते तेदेवाः नोस्माकं अद्यास्मिन्दिने अपरच्च किंबहुना सर्वेषु दिवसेषु धनदातारोभवन्तु । नकेवलमस्माकमेव किंतु तुचे तुगित्यपत्यनाम तुजिपिजिहिंसादाननिकेतनेषु तोजयति हिनस्ति पितुर्दुःखादिकमिति तुक् पुत्रः तस्मै नोस्माकं पुत्राय तु क्षिप्रं वरिवोविदः वरणीयस्य धनस्य लंभयितारोभवन्तु ॥ १४ ॥

8.27.15
प्र वः᳚ शंसाम्यद्रुहः सं॒स्थ उप᳚स्तुतीनाम् ।
न तं धू॒र्तिर्व᳚रुण मित्र॒ मर्त्यं॒ यो वो॒ धाम॒भ्यो॑वि᳚धत् ॥
▶ पदपाठः (Word-by-word)
प्र । वः॒ । शं॒सा॒मि॒ । अ॒द्रु॒हः॒ । स॒म्॑स्थे । उप᳚॑स्तुतीनाम् ।
न । तम् । धू॒र्तिः । व॒रु॒ण॒ । मि॒त्र॒ । मर्त्य᳚म् । यः । वः॒ । धाम᳚॑भ्यः । अवि᳚धत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अद्रुहः अद्रोग्धारः अहिंस्यावा मरुदादयः उपस्तुतीनामुपस्तोत्राणां संस्थे तासां यज्ञे क्रियमाणत्वादस्मत्संस्थानभूतेस्मिन्यज्ञे वो युष्मान्प्रशंसामि प्रकर्षेण स्तौमि । हे वरुण मित्र मित्रावरुणौ तं मर्त्यं मनुष्यं धूर्तिः धूर्वीहिंसार्थः शत्रुभ्योहिंसा तन्नबाधते योमनुष्यः वोयुष्माकं धामभ्यस्तेजोभ्यः धीयतेस्मिन्निति धाम शरीरंवा तेभ्योविधत् विधविधाने हवींषि विदधाति प्रयच्छति एतेन तेजसामपि हविर्भक्षणमस्तीति ज्ञायते ॥ १५ ॥

8.27.16
प्र स क्षयं᳚ तिरते॒ वि म॒हीरिषो॒ यो वो॒ वरा᳚य॒ दाश᳚ति ।
प्र प्र॒जाभि᳚र्जायते॒ धर्म᳚ण॒स्पर्यरि᳚ष्ट॒ः सर्व᳚ एधते ॥
▶ पदपाठः (Word-by-word)
प्र । सः । क्षय᳚म् । ति॒र॒ते॒ । वि । म॒हीः । इषः᳚ । यः । वः॒ । वरा᳚य । दाश᳚ति ।
प्र । प्र॒॑जाभिः᳚ । जा॒य॒ते॒ । धर्म᳚णः । परि᳚ । अरि᳚ष्टः । सर्वः᳚ । ए॒ध॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मरुदादयः समनुष्यः क्षयं क्षियंति निवसन्त्यत्रेतिक्षयोगृहं तत् समनुष्यः प्रतिरते प्रकर्षेण वर्धयति । तिरतिर्वृद्धिकर्मा सएव महीर्महान्तिइषोन्ना- निच विवर्धयति । योमनुष्यः वराय वरणीयाय धनाय तदर्थं वोयुष्मभ्यं दाशति हवींषि प्रयच्छति धनादिभिर्वर्धयतीत्यन्वयः । किच्च धर्मणः ध्रिय- ते ऋत्विग्भिरिति धर्म कर्म युष्मद्विषयात्कमर्णः सकाशात् समनुष्यः प्रजाभिः पुत्रपौत्रादिभिः परि परितः सर्वतः प्रजायते प्रकर्षेणाविर्भवति । आ- त्मावैपुत्रनामासीतिश्रुतेः । ततः अरिष्ट अन्यैरहिंसितः सर्वोयुष्माकं हविःप्रदानात्सकलोजनः एधते धनादिभिर्वर्धते ॥ १६ ॥

8.27.17 समानपद
ऋ॒ते स वि᳚न्दते यु॒धः सु॒गेभि᳚र्या॒त्यध्व᳚नः ।
अ॒र्य॒मा मि॒त्रो वरु᳚ण॒ः सरा᳚तयो॒ यं त्राय᳚न्ते स॒जोष᳚सः ॥
▶ पदपाठः (Word-by-word)
ऋ॒ते । सः । वि॒न्द॒ते॒ । यु॒धः । सु॒॑गेभिः᳚ । या॒ति॒ । अध्व᳚नः ।
अ॒र्य॒मा । मि॒त्रः । वरु᳚णः । स॑रा᳚तयः । यम् । त्राय᳚न्ते । स॒॑जोष᳚सः ॥
▶ सायणभाष्यम् (Sayana Commentary)

सः अर्यमादीनां हविर्दाता मनुष्यः युधः युधसंप्रहारे भावेक्विप् युद्धादृते विनापि विन्दते धनानिलभते । किच्च सुगोभिः शोभनगमनैः सुष्ठुगन्तृभिर्वा अश्वैः सह अध्वनोमार्गान् गन्तव्यान् देशानित्यर्थः तान् याति गच्छति यं जनम् अर्यमा सततं गच्छन् मित्रः स्तोतृणां यष्टृणां च धनप्रदानेन मित्रभू- तोवरुणः निवारयिता शत्रूणां यद्वा वरणीयः संभजनीयः एतन्नामकाः सरातयः समानदानास्त्रयोदेवाः सजोषसः परस्परं संगताः सन्तःयं हव्यप्रदा- तारं त्रायन्ते स्वरक्षणैः पालयन्ति सधनादीनि विन्दतीत्यन्वयः ॥ १७ ॥

8.27.18
अज्रे᳚ चिदस्मै कृणुथा॒ न्यञ्च᳚नं दु॒र्गे चि॒दा सु᳚सर॒णम् ।
ए॒षा चि᳚दस्माद॒शनि᳚ः प॒रो नु सास्रे᳚धन्ती॒ वि न᳚श्यतु ॥
▶ पदपाठः (Word-by-word)
अज्रे᳚ । चि॒त् । अ॒स्मै॒ । कृ॒णु॒थ॒ । नि॒॑अञ्च᳚नम् । दुः॒॑गे । चि॒त् । आ । सु॒॑स॒र॒णम् ।
ए॒षा । चि॒त् । अ॒स्मा॒त् । अ॒शनिः᳚ । प॒रः । नु । सा । अस्रे᳚धन्ती । वि । न॒श्य॒तु॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे देवाः अज्रेचित् ज्रिअभिभवे परैरनभिभवनीयेपि परपुरे न्यच्चनं नितरां गमनमस्मै मनवे कृणुथ यूयं कुरुत । यद्वा ज्रे ऋजुगमने प्रस्थे गमनं कुरुत तथा दुर्गेचित् अगन्तव्येपि स्थले सुसरणं सुगतौ शोभनगमनमासमन्तात्कुरुत एवंसति सैषाशनिः शत्रूणां तदेतदायुधं अस्मात्सर्वतोगन्तुर्मनोर्नुक्षिप्रं परः परस्ताद्धवेत् पश्चात्साशनिः अस्रेधन्ती कांश्चिदप्यहिंसती विनश्यतु विनष्टाभवेत् ॥ १८ ॥

8.27.19
यद॒द्य सूर्य᳚ उद्य॒ति प्रिय᳚क्षत्रा ऋ॒तं द॒ध ।
यन्नि॒म्रुचि᳚ प्र॒बुधि᳚ विश्ववेदसो॒ यद्वा᳚ म॒ध्यंदि᳚ने दि॒वः ॥
▶ पदपाठः (Word-by-word)
यत् । अ॒द्य । सूर्यः᳚ । उ॒त्॑य॒ति । प्रिय᳚॑क्षत्राः । ऋ॒तम् । द॒ध ।
यत् । नि॒॑म्रुचि᳚ । प्र॒॑बुधि᳚ । वि॒श्व॒॑वे॒द॒सः॒ । यत् । वा॒ । म॒ध्यन्दि᳚ने । दि॒वः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे प्रियक्षत्राः प्रीणयितृबलाः देवाः सूर्ये सर्वस्य स्वस्वकर्मणि प्रेरके सवितरि उद्यति उद्गच्छतिसति अद्यास्मिन्दिने यद्यदा ऋतं कल्याणभूतं गृहं दध धारयत दधातेर्लिटि मध्यमबहुवचनेरूपम् । यद्यदा हे विश्ववेदसः सर्वधनादेवाः निम्रुचि निम्रुचिर्गत्यर्थः सूर्यस्य निम्रोचने नितरां गमने सायमित्य- र्थः तस्मिन् धारयथ । यद्वा प्रबुधितस्य प्रबोधने प्रातः काले । यद्वा दिवः सूर्यतेजसा दीप्यमानस्याह्नो मध्यन्दिने मध्ये धनं मनवे धत्तेत्युत्तरत्रसंबंध: ॥ १९ ॥ .

8.27.20
यद्वा᳚भिपि॒त्वे अ᳚सुरा ऋ॒तं य॒ते छ॒र्दिर्ये॒म वि दा॒शुषे᳚ ।
व॒यं तद्वो᳚ वसवो विश्ववेदस॒ उप᳚ स्थेयाम॒ मध्य॒ आ ॥
▶ पदपाठः (Word-by-word)
यत् । वा॒ । अ॒भि॒॑पि॒त्वे । अ॒सु॒राः॒ । ऋ॒तम् । य॒ते । छ॒र्दिः । ये॒म । वि । दा॒शुषे᳚ ।
व॒यम् । तत् । वः॒ । व॒स॒वः॒ । वि॒श्व॒॑वे॒द॒सः॒ । उप᳚ । स्थे॒या॒म॒ । मध्ये᳚ । आ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे असुराः प्राज्ञाः संग्रामे आप्तानां क्षेप्तारोवा देवाः यद्वाभिपित्वे अस्मद्यज्ञं प्रति युष्माकं अभिप्राप्तौ ऋतं सत्यभूतं यज्ञं यते इणः शतरि रूपम् । ग- च्छते दाशुषे हवींषिदत्तवते यजमानाय यच्छर्दिः उछृदिर्दीप्तिदेवनयोः दीप्यतेनेनेति छर्दिस्तेजः यद्वा छर्दंति दीव्यन्तेत्रेति छर्दिर्गृहं तत् गृहं तेजोवा वियेम प्रयच्छथ यद्येवं यूयं कुरुथ तर्हि वयं हे वसवः स्तोतृणां धनादिभिराच्छादयितारः यद्वा शत्रूणां विवासयितारो विश्ववेदसः सर्वधनाःसर्वज्ञा- नावा हे देवाः वोयुष्मत्संबन्धि तत्कल्याणं गृहं षष्ठ्यर्थे द्वितीया भवद्धिः प्रत्तस्य गृहस्य मध्ये उपस्थेयाम उपतिष्ठेम युष्मान् हविर्भिः पूजयेम तिष्ठ- तेराशीर्लिङि लिङ्याशिष्यङित्यङ्प्रत्ययः ॥ २० ॥

8.27.21
यद॒द्य सूर॒ उदि᳚ते॒ यन्म॒ध्यंदि᳚न आ॒तुचि᳚ ।
वा॒मं ध॒त्थ मन᳚वे विश्ववेदसो॒ जुह्वा᳚नाय॒ प्रचे᳚तसे ॥
▶ पदपाठः (Word-by-word)
यत् । अ॒द्य । सूरे᳚ । उत्॑इ᳚ते । यत् । म॒ध्यन्दि᳚ने । आ॒॑तुचि᳚ ।
वा॒मम् । ध॒त्थ । मन᳚वे । वि॒श्व॒॑वे॒द॒सः॒ । जुह्वा᳚नाय । प्र॑चे᳚तसे ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे विश्ववेदसः सर्वतोव्याप्तधनाः हे देवाः यद्यदा अद्येदानीं सूरे सूर्ये उदिते सति यद्यदा मध्यन्दिने दिवसस्य मध्ये यद्वा आतुचि आतुचिर्गमनार्थः सू- र्यस्य आनिम्नोचने सायमित्यर्थः जुह्वानाय अग्नौ हवींषि जुह्वते अतएव प्रचेतसे प्रकृष्टज्ञानाय मनवे एतन्नामकाय ऋषये मह्यं वामं वननीयं धनं धत्थ धत्त तद्वृणीमहइत्युत्तरत्रसंबन्धः ॥ २१ ॥

8.27.22
व॒यं तद्व᳚ः सम्राज॒ आ वृ᳚णीमहे पु॒त्रो न ब᳚हु॒पाय्य᳚म् ।
अ॒श्याम॒ तदा᳚दित्या॒ जुह्व᳚तो ह॒विर्येन॒ वस्यो॒॑नशा᳚महै ॥
▶ पदपाठः (Word-by-word)
व॒यम् । तत् । वः॒ । स॒म्॑रा॒जः॒ । आ । वृ॒णी॒म॒हे॒ । पु॒त्रः । न । ब॒हु॒॑पाय्य᳚म् ।
अ॒श्याम᳚ । तत् । आ॒दि॒त्याः॒ । जुह्व᳚तः । ह॒विः । येन᳚ । वस्यः᳚ । अ॒नशा᳚महै ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सम्राजः सम्यग्दीप्यमानाः देवाः पुत्रोन एकवचनं छान्दसं युष्माकंपुत्राइव स्थिताः पुत्रा यथा पितृभिः पोष्याः तद्वत् युष्माभिःपोष्या वयम् । बहु- पाय्यं बहुभिर्भोज्यं वोयुष्मत्सम्बन्धि तद्धनं आवृणीमहे संभजामः । तथा हविः जुह्वतः यागं कुर्वतोवयं हे आदित्याः तद्धनं अश्याम प्राप्नुयाम । येन धनेन वस्यः वसीयः अतिशयेन वसुमत्वमनशामहै अश्नवामहै प्राप्नुमः । अश्नोतेर्लोटि व्यत्ययेन श्नम् प्रत्ययः ॥ २२ ॥

येत्रिंशतीति पच्चर्चमष्टमं सूक्तम् अत्रानुक्रान्तम्-येत्रिंशतिपच्चोपान्त्या पुरउष्णिगिति । मनुरृषिः प्राग्वत्सप्रीयपरिभाषया गायत्रीछन्दः उपान्त्यापु- रउष्णिक् पूर्ववद्विश्वेदेवादेवता । तृतीयेछन्दोमे वैश्वदेवशस्त्रे येत्रिंशतीत्येतत्सूक्तं वैश्वदेवनिविद्धानम् सूत्रितंच-येत्रिंशतीतिवैश्वदेवमिति ।