अष्टमं मण्डलम् - सूक्तम् 73

18 ऋचः

ऋषिः: गोपवन आत्रेयः सप्तवध्रिर्वा देवता: अश्विनौ छन्दः: गायत्री

सूक्तम् 8.73 - सम्पूर्णम्

1 / 18
ऋक्: 8.73.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (18)
8.73.1
उदी᳚राथामृताय॒ते यु॒ञ्जाथा᳚मश्विना॒ रथ᳚म् ।
अन्ति॒ षद्भू᳚तु वा॒मवः᳚ ॥
▶ पदपाठः (Word-by-word)
उत् । ई॒रा॒था॒म् । ऋ॒त॒॑य॒ते । यु॒ञ्जाथा᳚म् । अ॒श्वि॒ना॒ । रथ᳚म् ।
अन्ति᳚ । सत् । भू॒तु॒ । वा॒म् । अवः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विना अश्विनौ ऋतायते यज्ञमिच्छते मह्यं मदर्थं उदीराथां उद्गच्छतं तदर्थमाह्वानं यज्ञंवा प्राप्तुं युंजाथां योजयतमश्वैः रथम् । वां युवयोरवो रक्षणं अन्ति अस्मदन्तिके सद्वर्तमानं भूतु भवतु ॥ १ ॥

8.73.2
नि॒मिष᳚श्चि॒ज्जवी᳚यसा॒ रथे॒ना या᳚तमश्विना ।
अन्ति॒ षद्भू᳚तु वा॒मवः᳚ ॥
▶ पदपाठः (Word-by-word)
नि॒॑मिषः᳚ । चि॒त् । जवी᳚यसा । रथे᳚न । आ । या॒त॒म् । अ॒श्वि॒ना॒ ।
अन्ति᳚ । सत् । भू॒तु॒ । वा॒म् । अवः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

निमिषश्चित् निमेषादपि जवीयसा अतिशयवेगेन रथेनायातमागच्छतम् अस्मद्यज्ञं हेअश्विना । शिष्टमुक्तम् ॥ २ ॥

8.73.3
उप᳚ स्तृणीत॒मत्र᳚ये हि॒मेन᳚ घ॒र्मम᳚श्विना ।
अन्ति॒ षद्भू᳚तु वा॒मवः᳚ ॥
▶ पदपाठः (Word-by-word)
उप᳚ । स्तृ॒णी॒त॒म् । अत्र᳚ये । हि॒मेन᳚ । घ॒र्मम् । अ॒श्वि॒ना॒ ।
अन्ति᳚ । सत् । भू॒तु॒ । वा॒म् । अवः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अत्रये महर्षये असुरैरग्नौप्रक्षिप्ताय तस्य हितार्थं घर्ममग्निदाहकं हिमेनोदकेन उपस्तृणीतं उपस्तीर्णवन्तौ । हिमेनाग्निंघ्रंसमवारयेथामितिनिगमः ॥ ३ ॥

8.73.4
कुह᳚ स्थ॒ः कुह᳚ जग्मथु॒ः कुह᳚ श्ये॒नेव᳚ पेतथुः ।
अन्ति॒ षद्भू᳚तु वा॒मवः᳚ ॥
▶ पदपाठः (Word-by-word)
कुह᳚ । स्थः॒ । कुह᳚ । ज॒ग्म॒थुः॒ । कुह᳚ । श्ये॒ना॑इ᳚व । पे॒त॒थुः॒ ।
अन्ति᳚ । सत् । भू॒तु॒ । वा॒म् । अवः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनौ युवां कुह क्वस्थः भवथः इदानीं कुह क्व कुत्र जग्मथुः गच्छथः स्वेच्छया कुह क्ववा श्येनेव श्येनाविव शीघ्रपतनौ सन्तौ पेतथुः पतथः । एवमचिन्त्यस्वभावौ कृपयासंनिहितौ भवतमितिशेषः । तादृशयोरवोन्तिके भवतु ॥ ४ ॥

8.73.5
यद॒द्य कर्हि॒ कर्हि᳚ चिच्छुश्रू॒यात᳚मि॒मं हव᳚म् ।
अन्ति॒ षद्भू᳚तु वा॒मवः᳚ ॥
▶ पदपाठः (Word-by-word)
यत् । अ॒द्य । कर्हि᳚ । कर्हि᳚ । चि॒त् । शु॒श्रु॒यात᳚म् । इ॒मम् । हव᳚म् ।
अन्ति᳚ । सत् । भू॒तु॒ । वा॒म् । अवः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यद्यस्मान्ननिर्धार्यते अतोद्यास्मिन्काले कर्हि कस्मिन्नपि देशे कर्हि कस्मिन्नपि काले इमं हवं अस्मदीयमाह्वानं शुश्रुयातं शृणुयातम् ॥ ५ ॥

8.73.6
अ॒श्विना᳚ याम॒हूत᳚मा॒ नेदि᳚ष्ठं या॒म्याप्य᳚म् ।
अन्ति॒ षद्भू᳚तु वा॒मवः᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒श्विना᳚ । या॒म॒॑हूत᳚मा । नेदि᳚ष्ठम् । या॒मि॒ । आप्य᳚म् ।
अन्ति᳚ । सत् । भू॒तु॒ । वा॒म् । अवः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यामहूतमा अतिशयेन काले ह्वातव्यावश्विनाश्विनौ यामि नेदिष्ठमन्तिकतममाप्यं बांधवं च यामि तयोः ॥ ६ ॥

8.73.7
अव᳚न्त॒मत्र᳚ये गृ॒हं कृ᳚णु॒तं यु॒वम᳚श्विना ।
अन्ति॒ षद्भू᳚तु वा॒मवः᳚ ॥
▶ पदपाठः (Word-by-word)
अव᳚न्तम् । अत्र᳚ये । गृ॒हम् । कृ॒णु॒तम् । यु॒वम् । अ॒श्वि॒ना॒ ।
अन्ति᳚ । सत् । भू॒तु॒ । वा॒म् । अवः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विना युवं युवां अत्रये अग्न्यागारे दह्यमानाय अवन्तं रक्षन्तं गृहं कृणुतं कृतवन्तौ तादृशयोर्वामवोभवतु । अवन्तमिति व्यत्ययेन पुँल्लिंगता ॥ ७ ॥

8.73.8
वरे᳚थे अ॒ग्निमा॒तपो॒ वद᳚ते व॒ल्ग्वत्र᳚ये ।
अन्ति॒ षद्भू᳚तु वा॒मवः᳚ ॥
▶ पदपाठः (Word-by-word)
वरे᳚थे॒ इति᳚ । अ॒ग्निम् । आ॒॑तपः᳚ । वद᳚ते । व॒ल्गु । अत्र᳚ये ।
अन्ति᳚ । सत् । भू॒तु॒ । वा॒म् । अवः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनौ वल्गु मनोहरं वदते स्तुवते अत्रये आतपः आतपादौष्ण्यादग्निं वरेथे आवारयतम् ॥ ८ ॥

8.73.9
प्र स॒प्तव᳚ध्रिरा॒शसा॒ धारा᳚म॒ग्नेर᳚शायत ।
अन्ति॒ षद्भू᳚तु वा॒मवः᳚ ॥
▶ पदपाठः (Word-by-word)
प्र । स॒प्त॑व᳚ध्रिः । आ॒॑शसा᳚ । धारा᳚म् । अ॒ग्नेः । अ॒शा॒य॒त॒ ।
अन्ति᳚ । सत् । भू॒तु॒ । वा॒म् । अवः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सप्तवध्रिर्महर्षिः हे अश्विनौ युवयोराशसा आशंसनेन स्तुत्या मंजूषाया निर्गत्य अग्नेर्धारां तस्यां मञ्चूषाया प्राशायत आशाययत् स्वस्वनिरोधिकां तां दग्धवानित्यर्थः । सप्तवध्रेः पेटिकान्तः प्रवेशोश्विनोरनुग्रहान्निर्गमश्च विजिहीष्ववनस्पत इत्यत्र स्पष्टमुक्तः ॥

8.73.10
इ॒हा ग᳚तं वृषण्वसू शृणु॒तं म᳚ इ॒मं हव᳚म् ।
अन्ति॒ षद्भू᳚तु वा॒मवः᳚ ॥
▶ पदपाठः (Word-by-word)
इ॒ह । आ । ग॒त॒म् । वृ॒ष॒ण्व॒सू॒ इति᳚ वृषण्॑वसू । शृ॒णु॒तम् । मे॒ । इ॒मम् । हव᳚म् ।
अन्ति᳚ । सत् । भू॒तु॒ । वा॒म् । अवः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वृषण्वसू वर्षणधनौ अश्विनाविहास्मिन्यज्ञमागतमागच्छतं तदर्थं म इमं हवं शृणुतम् ॥ १० ॥

8.73.11
किमि॒दं वां᳚ पुराण॒वज्जर᳚तोरिव शस्यते ।
अन्ति॒ षद्भू᳚तु वा॒मवः᳚ ॥
▶ पदपाठः (Word-by-word)
किम् । इ॒दम् । वा॒म् । पु॒रा॒ण॒॑वत् । जर᳚तोः॑इव । श॒स्य॒ते॒ ।
अन्ति᳚ । सत् । भू॒तु॒ । वा॒म् । अवः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनौ वां युवयोरर्थं गमनाय पुराणवत् पुराणवत् पुराणयोरतिवृद्धयोरिव । तदेवाह जरतोरिव शस्यते पुनःपुनरागच्छतमिति शस्यते किमिदं यथा लोके वृद्धोजीर्णो बहुवारमाहूतोपि नागच्छति तद्वद्युवामपीत्यर्थः एवमनागमाद्ब्रवीति ॥ ११ ॥

8.73.12
स॒मा॒नं वां᳚ सजा॒त्यं᳚ समा॒नो बन्धु᳚रश्विना ।
अन्ति॒ षद्भू᳚तु वा॒मवः᳚ ॥
▶ पदपाठः (Word-by-word)
स॒मा॒नम् । वा॒म् । स॒॑जा॒त्य᳚म् । स॒मा॒नः । बन्धुः᳚ । अ॒श्वि॒ना॒ ।
अन्ति᳚ । सत् । भू॒तु॒ । वा॒म् । अवः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विना अश्विनौ वां युवयोः परस्परं सजात्यं समानजातित्वं समानमेकमेव उभयोरपि अश्वरूपायासूर्यपत्न्याउत्पत्तेः सजात्यं तथा युवयोः बन्धुर्बन्धकः स्रुवः समानएकएव । अथवर्षिरहं समान एकएव बन्धुः ॥ १२ ॥

8.73.13
यो वां॒ रजां᳚स्यश्विना॒ रथो᳚ वि॒याति॒ रोद᳚सी ।
अन्ति॒ षद्भू᳚तु वा॒मवः᳚ ॥
▶ पदपाठः (Word-by-word)
यः । वा॒म् । रजां᳚सि । अ॒श्वि॒ना॒ । रथः᳚ । वि॒॑याति᳚ । रोद᳚सी॒ इति᳚ ।
अन्ति᳚ । सत् । भू॒तु॒ । वा॒म् । अवः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विना अश्विनौ वां युवयोर्योरथोस्ति सरथो रजांसि लोकान् रोदसी द्यावापृथिव्यौच वियाति विशेषेण गच्छति अतस्तेन रथेन शीघ्रमागच्छ- तमिति शेषः ॥ १३ ॥

8.73.14
आ नो॒ गव्ये᳚भि॒रश्व्यै᳚ः स॒हस्रै॒रुप᳚ गच्छतम् ।
अन्ति॒ षद्भू᳚तु वा॒मवः᳚ ॥
▶ पदपाठः (Word-by-word)
आ । नः॒ । गव्ये᳚भिः । अश्व्यैः᳚ । स॒हस्रैः᳚ । उप᳚ । ग॒च्छ॒त॒म् ।
अन्ति᳚ । सत् । भू॒तु॒ । वा॒म् । अवः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनौ नोस्मान् सहस्रैरपरिमितैर्गंव्येभिर्गोसमूहैः अश्व्यैरश्वसमूहैश्चोपागच्छतम् ॥ १४ ॥

8.73.15
मा नो॒ गव्ये᳚भि॒रश्व्यै᳚ः स॒हस्रे᳚भि॒रति᳚ ख्यतम् ।
अन्ति॒ षद्भू᳚तु वा॒मवः᳚ ॥
▶ पदपाठः (Word-by-word)
मा । नः॒ । गव्ये᳚भिः । अश्व्यैः᳚ । स॒हस्रे᳚भिः । अति᳚ । ख्य॒त॒म् ।
अन्ति᳚ । सत् । भू॒तु॒ । वा॒म् । अवः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनौ नोस्मान् गव्येभिर्गोसमूहैरश्व्यैश्च सहस्रेभिः सहस्रसंख्याकैर्मास्मानतिख्यतम् । अतीति प्रतीत्यस्मिन्नर्थे । मानिवारयतमित्यर्थः ॥ १५ ॥

8.73.16
अ॒रु॒णप्सु᳚रु॒षा अ᳚भू॒दक॒र्ज्योति᳚रृ॒ताव᳚री ।
अन्ति॒ षद्भू᳚तु वा॒मवः᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒रु॒ण॑प्सुः᳚ । उ॒षाः । अ॒भू॒त् । अकः᳚ । ज्योतिः᳚ । ऋ॒त॑व᳚री ।
अन्ति᳚ । सत् । भू॒तु॒ । वा॒म् । अवः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनौ उषा अरुणप्सुः शुभ्रवर्णा भूद्भवति । न केवलं स्वयं ज्योतिस्तेजः अकः करोति सर्वत ऋतावरीऋतवत्युषाः ॥ १६ ॥

8.73.17
अ॒श्विना॒ सु वि॒चाक᳚शद्वृ॒क्षं प᳚रशु॒मा{4} इ᳚व ।
अन्ति॒ षद्भू᳚तु वा॒मवः᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒श्विना᳚ । सु । वि॒॑चाक᳚शत् । वृ॒क्षम् । प॒र॒शु॒मान्॑इ᳚व ।
अन्ति᳚ । सत् । भू॒तु॒ । वा॒म् । अवः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सुविचाकशत् अत्यन्तं दीप्यमानः सूर्योग्निर्वा वृक्षं परशुमानिव सयथा शकलयति तद्वत्तमोनिशारयतीतिशेषः । दृष्टान्तसामर्थ्यादेवलभ्यते यस्मादेवं तस्मादश्विनौ आह्वयइति शेषः ॥ १७ ॥

8.73.18
पुरं॒ न धृ᳚ष्ण॒वा रु᳚ज कृ॒ष्णया᳚ बाधि॒तो वि॒शा ।
अन्ति॒ षद्भू᳚तु वा॒मवः᳚ ॥
▶ पदपाठः (Word-by-word)
पुर᳚म् । न । धृ॒ष्णो॒ इति᳚ । आ । रु॒ज॒ । कृ॒ष्णया᳚ । बा॒धि॒तः । वि॒शा ।
अन्ति᳚ । सत् । भू॒तु॒ । वा॒म् । अवः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे धृष्णो धर्षक सप्तवध्रे त्वं कृष्णया कर्षया विशा प्रवेशयन्त्या पेटिकया बाधितस्त्वं ततोनिर्गत्य तामेवारुज पीडय अश्विनोरनुग्रहात् । कमिव पुरंन यथा शत्रुः पुरं पिडयति एवं स्वयं स्वात्मानं प्रेष्यति । अथवा गोपवनः सप्तवध्रिमेवं ब्रवीति वां युवयोरवोरक्षणं गमनंवा समीपे तत्र त्रिषु वर्गेषु अन्तिषदित्युत्तरोर्धर्चोन्वितपदाध्याहारेण योज्यः ॥ १८ ॥

विशोविशोवइति पंचदशर्चं चतुर्थंसूक्तम् । अत्रेयमनुक्रमणिका-विशोविशोवः पञ्चोनाग्नेयं त्वनुष्टुम्मुखास्तृचाश्चत्वारोन्त्यास्तिस्रोनुष्टुभ आर्क्षस्य श्रुतर्वणोदानस्तुतिरिति । अनुवृत्तेर्गोपवनऋषिः आदितस्तृषु तृचेषु सर्वाः प्रथमाअनुष्टुभः द्वितीयातृतीये प्राग्वत्सप्रपरिभाषया गायत्र्यौ त्रयोदश्याद्यास्तिस्रोनुष्टुभः अस्योत्तरस्यचाग्निर्देवता अन्त्यस्तिस्रः श्रुतर्वनाम्रोराज्ञोदानस्तुतिः । व्योमविश्वदेवस्तुत्पञ्चशारदीयेष्विदंसूक्तमाज्य- शस्त्रम् । सूत्रितञ्च-विशोविशोवोअतिथिमित्याज्यमिति ।