श्रवणम्

8.73.14
आ नो॒ गव्ये᳚भि॒रश्व्यै᳚ः स॒हस्रै॒रुप᳚ गच्छतम् ।
अन्ति॒ षद्भू᳚तु वा॒मवः᳚ ॥
▶ पदपाठः (Word-by-word)
आ । नः॒ । गव्ये᳚भिः । अश्व्यैः᳚ । स॒हस्रैः᳚ । उप᳚ । ग॒च्छ॒त॒म् ।
अन्ति᳚ । सत् । भू॒तु॒ । वा॒म् । अवः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनौ नोस्मान् सहस्रैरपरिमितैर्गंव्येभिर्गोसमूहैः अश्व्यैरश्वसमूहैश्चोपागच्छतम् ॥ १४ ॥