श्रवणम्

8.73.1
उदी᳚राथामृताय॒ते यु॒ञ्जाथा᳚मश्विना॒ रथ᳚म् ।
अन्ति॒ षद्भू᳚तु वा॒मवः᳚ ॥
▶ पदपाठः (Word-by-word)
उत् । ई॒रा॒था॒म् । ऋ॒त॒॑य॒ते । यु॒ञ्जाथा᳚म् । अ॒श्वि॒ना॒ । रथ᳚म् ।
अन्ति᳚ । सत् । भू॒तु॒ । वा॒म् । अवः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विना अश्विनौ ऋतायते यज्ञमिच्छते मह्यं मदर्थं उदीराथां उद्गच्छतं तदर्थमाह्वानं यज्ञंवा प्राप्तुं युंजाथां योजयतमश्वैः रथम् । वां युवयोरवो रक्षणं अन्ति अस्मदन्तिके सद्वर्तमानं भूतु भवतु ॥ १ ॥