स॒मिधा॒ग्निं दु᳚वस्यत घृ॒तैर्बो᳚धय॒ताति᳚थिम् ।
आस्मि᳚न्ह॒व्या जु᳚होतन ॥
स॒म्॑इधा᳚ । अ॒ग्निम् । दु॒व॒स्य॒त॒ । घृ॒तैः । बो॒ध॒य॒त॒ । अति᳚थिम् ।
आ । अ॒स्मि॒न् । ह॒व्या । जु॒हो॒त॒न॒ ॥
हे ऋत्विजोतिथिमतिथिवत्प्रियमग्निं समिधा दुवस्यत परिचरत । घृतैर्दीप्तिसाधनैराज्यैर्बोधयतच । अस्मिन्समिद्धेग्नौ हव्या हवींष्याजुहोतनाजुहु- तच ॥ १ ॥
अग्ने॒ स्तोमं᳚ जुषस्व मे॒ वर्ध᳚स्वा॒नेन॒ मन्म᳚ना ।
प्रति᳚ सू॒क्तानि᳚ हर्य नः ॥
अग्ने᳚ । स्तोम᳚म् । जु॒ष॒स्व॒ । मे॒ । वर्ध᳚स्व । अ॒नेन᳚ । मन्म᳚ना ।
प्रति᳚ । सु॒॑उ॒क्तानि᳚ । ह॒र्य॒ । नः॒ ॥
हे अग्ने मे आङ्गिरसस्य मम स्तोमं स्तोत्रं जुषस्व सेवस्व अनेन मन्मना मननीयेन स्तोत्रेण वर्धस्व च । नोस्माकं सूक्तानि प्रतिहर्य कामय च ॥ २ ॥
अ॒ग्निं दू॒तं पु॒रो द᳚धे हव्य॒वाह॒मुप᳚ ब्रुवे ।
दे॒वा{4} आ सा᳚दयादि॒ह ॥
अ॒ग्निम् । दू॒तम् । पु॒रः । द॒धे॒ । ह॒व्य॒॑वाह᳚म् । उप᳚ । ब्रु॒वे॒ ।
दे॒वान् । आ । सा॒द॒या॒त् । इ॒ह ॥
दूतं देवानां हव्यवाहं हविषां वोढारं चाग्निं पुरोदधे पुरस्करोमि उपब्रुवे उपस्तौमि च । सोग्निरिहयज्ञे देवानासादयादासादयतु ॥ ३ ॥
उत्ते᳚ बृ॒हन्तो᳚ अ॒र्चयः᳚ समिधा॒नस्य᳚ दीदिवः ।
अग्ने᳚ शु॒क्रास᳚ ईरते ॥
उत् । ते॒ । बृ॒हन्तः᳚ । अ॒र्चयः᳚ । स॒म्॑इ॒धा॒नस्य᳚ । दी॒दि॒॑वः॒ ।
अग्ने᳚ । शु॒क्रासः᳚ । ई॒र॒ते॒ ॥
हे दीदिवोदीप्ताग्ने समिधानस्य समिध्यमानस्य ते तव बृहन्तोमहान्तः शुक्रासोज्वलन्तोर्चयः दीप्तयः उदीरयते उद्गच्छन्ति ॥ ४ ॥
उप᳚ त्वा जु॒ह्वो॒३॒᳚ मम᳚ घृ॒ताची᳚र्यन्तु हर्यत ।
अग्ने᳚ ह॒व्या जु᳚षस्व नः ॥
उप᳚ । त्वा॒ । जु॒ह्वः᳚ । मम᳚ । घृ॒ताचीः᳚ । य॒न्तु॒ । ह॒र्य॒त॒ ।
अग्ने᳚ । ह॒व्या । जु॒ष॒स्व॒ । नः॒ ॥
हे हर्यत कामयमानाग्ने मम मदीया घृताचीर्घृतमञ्चन्त्योजुह्वः स्रुचस्त्वा त्वामुपयन्तु नोस्माकं हव्या हव्यानि जुषस्व सेवस्व च ॥ ५ ॥
म॒न्द्रं होता᳚रमृ॒त्विजं᳚ चि॒त्रभा᳚नुं वि॒भाव᳚सुम् ।
अ॒ग्निमी᳚ळे॒ स उ᳚ श्रवत् ॥
म॒न्द्रम् । होता᳚रम् । ऋ॒त्विज᳚म् । चि॒त्र॑भा᳚नुम् । वि॒भा॑व᳚सुम् ।
अ॒ग्निम् । ई॒ळे॒ । सः । ऊं॒ इति᳚ । श्र॒व॒त् ॥
मन्द्रं मादनं होतारं देवानामाह्वातारमृत्विजमृतौ यष्टव्यं चित्रभानुं चित्रदीप्तिं विभावसुं दीप्तिधनमग्निमीळे स्तौमि । सोग्निः श्रवदस्मदीयां स्तुतिं श्रृणोत्वेव ॥ ६ ॥
प्र॒त्नं होता᳚र॒मीड्यं॒ जुष्ट᳚म॒ग्निं क॒विक्र᳚तुम् ।
अ॒ध्व॒राणा᳚मभि॒श्रिय᳚म् ॥
प्र॒त्नम् । होता᳚रम् । ईड्य᳚म् । जुष्ट᳚म् । अ॒ग्निम् । क॒वि॑क्र᳚तुम् ।
अ॒ध्व॒राणा᳚म् । अ॒भि॒॑श्रिय᳚म् ॥
प्रत्नं पुराणं होतारं देवानामाह्वातारं ईड्यं स्तुत्यं जुष्टं प्रीतं सेवितं वा कविक्रतुं क्रांतकर्माणं अध्वराणां यज्ञानामभिश्रियमभिश्रयितारं अग्निमिळे स्तौमि ॥ ७ ॥
जु॒षा॒णो अ᳚ङ्गिरस्तमे॒मा ह॒व्यान्या᳚नु॒षक् ।
अग्ने᳚ य॒ज्ञं न᳚य ऋतु॒था ॥
जु॒षा॒णः । अ॒ङ्गि॒रः॒॑त॒म॒ । इ॒मा । ह॒व्यानि᳚ । आ॒नु॒षक् ।
अग्ने᳚ । य॒ज्ञम् । न॒य॒ । ऋ॒तु॒॑था ॥
हे अङ्गिरस्तमांगिरसांश्रेष्ठाग्ने इमा इमान्यस्मदीयानि हव्यानि हवींष्यानुषगनुषक्तं यथाभवति तथा जुषाणः सेवमानोभव । ऋतुथा कालेकाले यज्ञं च नय ॥ ८ ॥
स॒मि॒धा॒न उ᳚ सन्त्य॒ शुक्र᳚शोच इ॒हा व᳚ह ।
चि॒कि॒त्वान्दैव्यं॒ जन᳚म् ॥
स॒म्॑इ॒धा॒नः । ऊं॒ इति᳚ । स॒न्त्य॒ । शुक्र᳚॑शोचे । इ॒ह । आ । व॒ह॒ ।
चि॒कि॒त्वान् । दैव्य᳚म् । जन᳚म् ॥
हे सन्त्य भजनशील शुक्रशोचे ज्वलद्दीप्ते त्वं समिधानउ समिध्यमानएव दैव्यं देवसम्बन्धिनं जनं चिकित्वान् जानन्निह यज्ञे आवह ॥ ९ ॥
विप्रं॒ होता᳚रम॒द्रुहं᳚ धू॒मके᳚तुं वि॒भाव᳚सुम् ।
य॒ज्ञानां᳚ के॒तुमी᳚महे ॥
विप्र᳚म् । होता᳚रम् । अ॒द्रुह᳚म् । धू॒म॑के᳚तुम् । वि॒भा॑व᳚सुम् ।
य॒ज्ञाना᳚म् । के॒तुम् । ई॒म॒हे॒ ॥
विप्रं मेधाविनं होतारं ह्वातारं अद्रुहमद्रोग्धारं धूमकेतुं धूमध्वजं विभावसुं दीप्तिधनं यज्ञानां केतुं पताकस्थानीयमग्निमीमहे अभीष्टं याचामहे ॥ १० ॥
अग्ने॒ नि पा᳚हि न॒स्त्वं प्रति᳚ ष्म देव॒ रीष᳚तः ।
भि॒न्धि द्वेषः᳚ सहस्कृत ॥
अग्ने᳚ । नि । पा॒हि॒ । नः॒ । त्वम् । प्रति᳚ । स्म॒ । दे॒व॒ । रिष᳚तः ।
भि॒न्धि । द्वेषः᳚ । स॒हः॒॑कृ॒त॒ ॥
हे सहस्कृत बलेनकृत देव दीप्ताग्ने रिषतोहिंसकान् नोस्मान्प्रति निपाहि प्रतिरक्ष । स्मेति पूरणः द्वेषोद्विषः शत्रूंश्च भिन्धि विदारय ॥ ११ ॥
अ॒ग्निः प्र॒त्नेन॒ मन्म᳚ना॒ शुम्भा᳚नस्त॒न्वं१॒᳚ स्वाम् ।
क॒विर्विप्रे᳚ण वावृधे ॥
अ॒ग्निः । प्र॒त्नेन᳚ । मन्म᳚ना । शुम्भा᳚नः । त॒न्व᳚म् । स्वाम् ।
क॒विः । विप्रे᳚ण । व॒वृ॒धे॒ ॥
कविः क्रान्तकर्माग्निः प्रत्नेन पुराणेन मन्मना मननीयेन स्तोत्रेण स्वां स्वकीयां तन्वं तनुमंगं शुंभानः शोभयन् विप्रेण मेधाविना स्तोत्रा ववृधे प्रवुद्धोभवति ॥ १२ ॥
ऊ॒र्जो नपा᳚त॒मा हु᳚वे॒॑ग्निं पा᳚व॒कशो᳚चिषम् ।
अ॒स्मिन्य॒ज्ञे स्व᳚ध्व॒रे ॥
ऊ॒र्जः । नपा᳚तम् । आ । हु॒वे॒ । अ॒ग्निम् । पा॒व॒क॑शो᳚चिषम् ।
अ॒स्मिन् । य॒ज्ञे । सु॒॑अ॒ध्व॒रे ॥
ऊर्जोन्नस्य नपातं पुत्रं पावकशोचिषं शोधकदीप्तिमग्निं स्वध्वरे असुरैरत्यन्तमहिंस्येस्मिन्यज्ञे आहुवे आह्वयामि ॥ १३ ॥
स नो᳚ मित्रमह॒स्त्वमग्ने᳚ शु॒क्रेण᳚ शो॒चिषा᳚ ।
दे॒वैरा स᳚त्सि ब॒र्हिषि᳚ ॥
सः । नः॒ । मि॒त्र॒॑म॒हः॒ । त्वम् । अग्ने᳚ । शु॒क्रेण᳚ । शो॒चिषा᳚ ।
दे॒वैः । आ । स॒त्सि॒ । ब॒र्हिषि᳚ ॥
हे मित्रमहोमित्राणां पूजनीयाग्ने सत्वं शुकेण ज्वलता शोचिषा तेजसा देवैःसह बर्हिषि यज्ञे आसत्स्यासीद ॥ १४ ॥
यो अ॒ग्निं त॒न्वो॒३॒᳚ दमे᳚ दे॒वं मर्त᳚ः सप॒र्यति᳚ ।
तस्मा॒ इद्दी᳚दय॒द्वसु᳚ ॥
यः । अ॒ग्निम् । त॒न्वः᳚ । दमे᳚ । दे॒वम् । मर्तः᳚ । स॒प॒र्यति᳚ ।
तस्मै᳚ । इत् । दी॒द॒य॒त् । वसु᳚ ॥
योमर्तोमनुष्यो दमे गृहे अग्निं देवं तन्वोधनस्यप्राप्त्यर्थमितिशेषः । भोजनं तनाइति धननामसुपाठात् । सपर्यति परिचरति तस्माइत् तस्माएव वसु धनं दीदयत् सोग्निः प्रयच्छति ॥ १५ ॥
अ॒ग्निर्मू॒र्धा दि॒वः क॒कुत्पति᳚ः पृथि॒व्या अ॒यम् ।
अ॒पां रेतां᳚सि जिन्वति ॥
अ॒ग्निः । मू॒र्धा । दि॒वः । क॒कुत् । पतिः᳚ । पृ॒थि॒व्याः । अ॒यम् ।
अ॒पाम् । रेतां᳚सि । जि॒न्व॒ति॒ ॥
मूर्धा देवानां श्रेष्ठो दिवोद्युलोकस्य ककुदुच्छ्र्तः पृथिव्याश्च पतिरयमग्निः अपांरेतांसि स्थावरजंगमात्मकानि भूतानि जिन्वति प्रीणयति ॥ १६ ॥
उद᳚ग्ने॒ शुच᳚य॒स्तव᳚ शु॒क्रा भ्राज᳚न्त ईरते ।
तव॒ ज्योतीं᳚ष्य॒र्चयः᳚ ॥
उत् । अ॒ग्ने॒ । शुच᳚यः । तव᳚ । शु॒क्राः । भ्राज᳚न्तः । ई॒र॒ते॒ ।
तव᳚ । ज्योतीं᳚षि । अ॒र्चयः᳚ ॥
हे अग्ने तव शुचयो निर्मलाः शुक्राः शुक्लवर्णा भ्राजन्तोदीप्यमानाः अर्चयः प्रभास्तव ज्योतींषि तेजांस्युदीरते प्रेरयन्ति ॥ १७ ॥
ईशि᳚षे॒ वार्य᳚स्य॒ हि दा॒त्रस्या᳚ग्ने॒ स्व᳚र्पतिः ।
स्तो॒ता स्यां॒ तव॒ शर्म᳚णि ॥
ईशि᳚षे । वार्य᳚स्य । हि । दा॒त्रस्य᳚ । अ॒ग्ने॒ । स्वः᳚॑पतिः ।
स्तो॒ता । स्या॒म् । तव᳚ । शर्म᳚णि ॥
हे अग्ने स्वःपतिः स्वर्गस्य स्वामी त्वं वार्यस्य वरणीयस्य दात्रस्य दातव्यस्य धनस्य ईशिषे ईश्वरोसि । शर्मणि सुखे निमित्ते तव स्तोता स्यां भवेयम् ॥ १८ ॥
त्वाम᳚ग्ने मनी॒षिण॒स्त्वां हि᳚न्वन्ति॒ चित्ति᳚भिः ।
त्वां व᳚र्धन्तु नो॒ गिरः᳚ ॥
त्वाम् । अ॒ग्ने॒ । म॒नी॒षिणः᳚ । त्वाम् । हि॒न्व॒न्ति॒ । चित्ति᳚॑भिः ।
त्वाम् । व॒र्ध॒न्तु॒ । नः॒ । गिरः᳚ ॥
हे अग्ने त्वां मनीषिणो मनसईश्वराः स्तोतारः स्तुतिभिः स्तुवन्तीतिशेषः । किञ्च त्वामेव चित्तिभिः कर्मभिर्हिन्वन्ति प्रीणयन्ति नोस्माकं गिरः स्तुतयः त्वामेव वर्धन्तु वर्धयन्तु ॥ १९ ॥
अद᳚ब्धस्य स्व॒धाव᳚तो दू॒तस्य॒ रेभ᳚त॒ः सदा᳚ ।
अ॒ग्नेः स॒ख्यं वृ᳚णीमहे ॥
अद᳚ब्धस्य । स्व॒धा॑व᳚तः । दू॒तस्य᳚ । रेभ᳚तः । सदा᳚ ।
अ॒ग्नेः । स॒ख्यम् । वृ॒णी॒म॒हे॒ ॥
हे अग्ने अदब्धस्य केनाप्यहिंसितस्य स्वधावतोबलवतो दूतस्य देवानां रेभतोदेवान् स्तुवतः अग्नेः तव सख्यं सदा वयं वृणीमहे ॥ २० ॥
अ॒ग्निः शुचि᳚व्रततम॒ः शुचि॒र्विप्र॒ः शुचि᳚ः क॒विः ।
शुची᳚ रोचत॒ आहु᳚तः ॥
अ॒ग्निः । शुचि᳚व्रत॑तमः । शुचिः᳚ । विप्रः᳚ । शुचिः᳚ । क॒विः ।
शुचिः᳚ । रो॒च॒ते॒ । आ॑हु᳚तः ॥
शुचिव्रततमःअतिशयेनशुद्धकर्मा शुचिः शुद्धएव विप्रोमेधावी शुचिः शुद्धःसन्नेव कविः क्रान्तकर्मा शुचिरेवाहुतोग्निः रोचते प्रकाशते ॥ २१ ॥
उ॒त त्वा᳚ धी॒तयो॒ मम॒ गिरो᳚ वर्धन्तु वि॒श्वहा᳚ ।
अग्ने᳚ स॒ख्यस्य᳚ बोधि नः ॥
उ॒त । त्वा॒ । धी॒तयः᳚ । मम᳚ । गिरः᳚ । व॒र्ध॒न्तु॒ । वि॒श्वहा᳚ ।
अग्ने᳚ । स॒ख्यस्य᳚ । बो॒धि॒ । नः॒ ॥
उतातिच हे अग्ने त्वा त्वां मम धीतयः कर्माणि गिरः स्तुतयश्च विश्वहा सर्वदा वर्धन्तु वर्धयन्तु । नोस्माकं सख्यस्य सख्यं सखिकर्म स्तुत्यादिकं बोधि बुध्यस्व ॥ २२ ॥
यद᳚ग्ने॒ स्याम॒हं त्वं त्वं वा᳚ घा॒ स्या अ॒हम् ।
स्युष्टे᳚ स॒त्या इ॒हाशिषः᳚ ॥
यत् । अ॒ग्ने॒ । स्या॒म् । अ॒हम् । त्वम् । त्वम् । वा॒ । घ॒ । स्याः । अ॒हम् ।
स्युः । ते॒ । स॒त्याः । इ॒ह । आ॒॑शिषः᳚ ॥
हे अग्ने यद्यदि अहं त्वं बहुधनः स्यां भवेयम् । त्वं वा घ त्वं वाखलु अहं दरिद्रः स्तोता स्याः भवेः ततः ते तव आशिषः आशासनानि इहास्मद्विषये सत्याः सत्यानि स्युर्भवेयुः ॥ २३ ॥
वसु॒र्वसु᳚पति॒र्हि क॒मस्य᳚ग्ने वि॒भाव᳚सुः ।
स्याम᳚ ते सुम॒तावपि᳚ ॥
वसुः᳚ । वसु᳚॑पतिः । हि । क॒म् । असि᳚ । अ॒ग्ने॒ । वि॒भा॑व᳚सुः ।
स्याम᳚ । ते॒ । सु॒॑म॒तौ । अपि᳚ ॥
हे अग्ने त्वं विभावसुर्दीप्तिधनो वसुपतिर्धनपतिः वसुर्वासयिताचासि भवसि । हि यस्मादतोवयमपि ते तव सुमतावनुग्रहबुद्धौ सुष्टुतौ स्याम भवेम ॥ २४ ॥
अग्ने᳚ धृ॒तव्र᳚ताय ते समु॒द्राये᳚व॒ सिन्ध᳚वः ।
गिरो᳚ वा॒श्रास᳚ ईरते ॥
अग्ने᳚ । धृ॒त॑व्र᳚ताय । ते॒ । स॒मु॒द्राय᳚॑इव । सिन्ध᳚वः ।
गिरः᳚ । वा॒श्रासः᳚ । ई॒र॒ते॒ ॥
हे अग्ने धृतव्रताय धृतकर्मणे ते तुभ्यं वाश्रासो वाशनशीलागिरो मम स्तुतयः सिन्धवोनद्यः समुद्रायेव यथा समुद्राय तथा ईरते प्रवर्तन्ते ॥ २५ ॥
युवा᳚नं वि॒श्पतिं᳚ क॒विं वि॒श्वादं᳚ पुरु॒वेप᳚सम् ।
अ॒ग्निं शु᳚म्भामि॒ मन्म᳚भिः ॥
युवा᳚नम् । वि॒श्पति᳚म् । क॒विम् । वि॒श्व॒॑अद᳚म् । पु॒रु॒॑वेप᳚सम् ।
अ॒ग्निम् । शु॒म्भा॒मि॒ । मन्म᳚॑भिः ॥
युवानं नित्यतरुणं विश्पतिं विशांपतिं कविं क्रान्तकर्माणं विश्वादं सर्वस्य हविषोत्तारं पुरुवेपसं बहुकर्माणं वेषः वेपइति कर्मनामसुपाठात् अग्निं मन्मभिः मननीयैः स्तोत्रैः शुंभामि शोभयामि ॥ २६ ॥
य॒ज्ञानां᳚ र॒थ्ये᳚ व॒यं ति॒ग्मज᳚म्भाय वी॒ळवे᳚ ।
स्तोमै᳚रिषेमा॒ग्नये᳚ ॥
य॒ज्ञाना᳚म् । र॒थ्ये᳚ । व॒यम् । ति॒ग्म॑ज᳚म्भाय । वी॒ळवे᳚ ।
स्तोमैः᳚ । इ॒षे॒म॒ । अ॒ग्नये᳚ ॥
यज्ञानां रथ्ये नेत्रे तिग्मजंभाय तीक्ष्णज्वालाय वीळवे बलवते अग्नये स्तोमैः स्तोत्रैः वयमाङ्गिरसा इषेम स्तुतिं कर्तुमिच्छेम ॥ २७ ॥
अ॒यम᳚ग्ने॒ त्वे अपि᳚ जरि॒ता भू᳚तु सन्त्य ।
तस्मै᳚ पावक मृळय ॥
अ॒यम् । अ॒ग्ने॒ । त्वे इति᳚ । अपि᳚ । ज॒रि॒ता । भू॒तु॒ । स॒न्त्य॒ ।
तस्मै᳚ । पा॒व॒क॒ । मृ॒ळ॒य॒ ॥
हे पावक शोधक सन्त्य संभजनीयाग्ने त्वे अपि त्वय्यपि अस्मदीयोजनो जरिता स्तोता भूतु भवतु । तस्मै जरित्रे मृळय सुखमुत्पादय तं सुखय वा ॥ २८ ॥
धीरो॒ ह्यस्य᳚द्म॒सद्विप्रो॒ न जागृ᳚वि॒ः सदा᳚ ।
अग्ने᳚ दी॒दय᳚सि॒ द्यवि᳚ ॥
धीरः᳚ । हि । असि᳚ । अ॒द्म॒॑सत् । विप्रः᳚ । न । जागृ᳚विः । सदा᳚ ।
अग्ने᳚ । दी॒दय᳚सि । द्यवि᳚ ॥
हे अग्ने त्वं धीरोसिहि भवसि खलु । अद्मसद्धविषिसीदन् विप्रोन मेधावीव जागृविः प्रजानां हितकरणे जागरणशीलोसि सदा द्यव्यन्तरिक्षे दीदय- सि दीव्यसि च ॥ २९ ॥
पु॒राग्ने᳚ दुरि॒तेभ्य᳚ः पु॒रा मृ॒ध्रेभ्य᳚ः कवे ।
प्र ण॒ आयु᳚र्वसो तिर ॥
पु॒रा । अ॒ग्ने॒ । दुः॒॑इ॒तेभ्यः᳚ । पु॒रा । मृ॒ध्रेभ्यः᳚ । क॒वे॒ ।
प्र । नः॒ । आयुः᳚ । व॒सो॒ इति᳚ । ति॒र॒ ॥
हे वसो वासक कवे क्रान्तकर्मन्नग्ने दुरितेभ्यः पापेभ्यःपुरा मृध्रेभ्योहिंसकेभ्यश्च पुरा यदा दुरितानि शत्रवश्चास्मान् हिंसितुमुद्युंजते ततः प्रागेवेत्यर्थः नोस्माकमायुः प्रतिर वर्धय ॥ ३० ॥
आद्यायइति द्विचत्वारिंशदृचंतृतीयं सूक्तम् । अत्रेयमनुक्रमणिका-आघद्विचत्वारिंशन्त्रिशोक आद्याग्नेन्द्री । अनुक्तगोत्रत्वात्काण्वोत्रिशोकऋषिः परंगायत्रं प्राग्वत्सप्रेरितिपरिभाषया गायत्रीछन्दः । अनुक्तत्वादिन्द्रोदेवता । आद्यायाअग्निश्चेन्द्रश्च । महाव्रते निष्केवल्ये गायत्रतृचाशीतावेत्सूक्तम् । तथैवपञ्चमारण्यकेसूत्रितम्-आघायेअग्निमिन्धत आतुनइन्द्रक्षुमन्तमिति सूक्तेइति । तृतीयेपर्यायेच्छावाकशस्त्रे आदितः सप्तदशर्चः । तथैवातिरात्रइ- तिखडेसूत्र्यते-आघायेअग्निमिन्धतइति सप्तदशेति । आग्नयणे आग्नेन्द्रस्य हविषआघायइत्येषानुवाक्या । सूत्रितञ्चाआघायेअग्निमिन्धतेसुकर्माणःसुरु- चोदेवयन्तइतिस्तोत्रमिति । मैत्रावरुणातिरिक्तोक्थ्ये स्तोत्रमिन्द्रायेत्याद्याः षळ्कृचोविकल्पेन स्तोत्रियानुरुपाः । सूत्रितञ्च-तद्वोगायसुतेसचा स्तो- त्रमिन्द्रायगायतेति । द्वितीये पर्याये ब्राह्मणाच्छंसिनः अभित्वावृषभेतिस्तोत्रियःस्तृचः । सूत्रितञ्च-अभित्वावृषभासुतेभिप्रगोपतिंगिरेति । चातुर्विं- शिकेहनि प्रातःसवने सिन्धिविश्वाइति ब्राह्मणाच्छसिनः षळहस्तोत्रियः । तथाचसूत्रितम्-भिन्धिविश्वाअपद्विषइति ब्राह्मणाच्छंसिनइति ।