श्रवणम्

8.44.27
य॒ज्ञानां᳚ र॒थ्ये᳚ व॒यं ति॒ग्मज᳚म्भाय वी॒ळवे᳚ ।
स्तोमै᳚रिषेमा॒ग्नये᳚ ॥
▶ पदपाठः (Word-by-word)
य॒ज्ञाना᳚म् । र॒थ्ये᳚ । व॒यम् । ति॒ग्म॑ज᳚म्भाय । वी॒ळवे᳚ ।
स्तोमैः᳚ । इ॒षे॒म॒ । अ॒ग्नये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यज्ञानां रथ्ये नेत्रे तिग्मजंभाय तीक्ष्णज्वालाय वीळवे बलवते अग्नये स्तोमैः स्तोत्रैः वयमाङ्गिरसा इषेम स्तुतिं कर्तुमिच्छेम ॥ २७ ॥