श्रवणम्

8.44.4
उत्ते᳚ बृ॒हन्तो᳚ अ॒र्चयः᳚ समिधा॒नस्य᳚ दीदिवः ।
अग्ने᳚ शु॒क्रास᳚ ईरते ॥
▶ पदपाठः (Word-by-word)
उत् । ते॒ । बृ॒हन्तः᳚ । अ॒र्चयः᳚ । स॒म्॑इ॒धा॒नस्य᳚ । दी॒दि॒॑वः॒ ।
अग्ने᳚ । शु॒क्रासः᳚ । ई॒र॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे दीदिवोदीप्ताग्ने समिधानस्य समिध्यमानस्य ते तव बृहन्तोमहान्तः शुक्रासोज्वलन्तोर्चयः दीप्तयः उदीरयते उद्गच्छन्ति ॥ ४ ॥