श्रवणम्

8.44.11
अग्ने॒ नि पा᳚हि न॒स्त्वं प्रति᳚ ष्म देव॒ रीष᳚तः ।
भि॒न्धि द्वेषः᳚ सहस्कृत ॥
▶ पदपाठः (Word-by-word)
अग्ने᳚ । नि । पा॒हि॒ । नः॒ । त्वम् । प्रति᳚ । स्म॒ । दे॒व॒ । रिष᳚तः ।
भि॒न्धि । द्वेषः᳚ । स॒हः॒॑कृ॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सहस्कृत बलेनकृत देव दीप्ताग्ने रिषतोहिंसकान् नोस्मान्प्रति निपाहि प्रतिरक्ष । स्मेति पूरणः द्वेषोद्विषः शत्रूंश्च भिन्धि विदारय ॥ ११ ॥