श्रवणम्

8.44.14
स नो᳚ मित्रमह॒स्त्वमग्ने᳚ शु॒क्रेण᳚ शो॒चिषा᳚ ।
दे॒वैरा स᳚त्सि ब॒र्हिषि᳚ ॥
▶ पदपाठः (Word-by-word)
सः । नः॒ । मि॒त्र॒॑म॒हः॒ । त्वम् । अग्ने᳚ । शु॒क्रेण᳚ । शो॒चिषा᳚ ।
दे॒वैः । आ । स॒त्सि॒ । ब॒र्हिषि᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मित्रमहोमित्राणां पूजनीयाग्ने सत्वं शुकेण ज्वलता शोचिषा तेजसा देवैःसह बर्हिषि यज्ञे आसत्स्यासीद ॥ १४ ॥