स॒मिधा॒ग्निं दु᳚वस्यत घृ॒तैर्बो᳚धय॒ताति᳚थिम् ।
आस्मि᳚न्ह॒व्या जु᳚होतन ॥
आस्मि᳚न्ह॒व्या जु᳚होतन ॥
पदपाठः (Word-by-word)
स॒म्॑इधा᳚ । अ॒ग्निम् । दु॒व॒स्य॒त॒ । घृ॒तैः । बो॒ध॒य॒त॒ । अति᳚थिम् ।
आ । अ॒स्मि॒न् । ह॒व्या । जु॒हो॒त॒न॒ ॥
आ । अ॒स्मि॒न् । ह॒व्या । जु॒हो॒त॒न॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे ऋत्विजोतिथिमतिथिवत्प्रियमग्निं समिधा दुवस्यत परिचरत । घृतैर्दीप्तिसाधनैराज्यैर्बोधयतच । अस्मिन्समिद्धेग्नौ हव्या हवींष्याजुहोतनाजुहु- तच ॥ १ ॥