अ॒ग्निः प्र॒त्नेन॒ मन्म᳚ना॒ शुम्भा᳚नस्त॒न्वं१॒᳚ स्वाम् ।
क॒विर्विप्रे᳚ण वावृधे ॥
क॒विर्विप्रे᳚ण वावृधे ॥
पदपाठः (Word-by-word)
अ॒ग्निः । प्र॒त्नेन᳚ । मन्म᳚ना । शुम्भा᳚नः । त॒न्व᳚म् । स्वाम् ।
क॒विः । विप्रे᳚ण । व॒वृ॒धे॒ ॥
क॒विः । विप्रे᳚ण । व॒वृ॒धे॒ ॥
सायणभाष्यम् (Sayana Commentary)
कविः क्रान्तकर्माग्निः प्रत्नेन पुराणेन मन्मना मननीयेन स्तोत्रेण स्वां स्वकीयां तन्वं तनुमंगं शुंभानः शोभयन् विप्रेण मेधाविना स्तोत्रा ववृधे प्रवुद्धोभवति ॥ १२ ॥