उद᳚ग्ने॒ शुच᳚य॒स्तव᳚ शु॒क्रा भ्राज᳚न्त ईरते ।
तव॒ ज्योतीं᳚ष्य॒र्चयः᳚ ॥
तव॒ ज्योतीं᳚ष्य॒र्चयः᳚ ॥
पदपाठः (Word-by-word)
उत् । अ॒ग्ने॒ । शुच᳚यः । तव᳚ । शु॒क्राः । भ्राज᳚न्तः । ई॒र॒ते॒ ।
तव᳚ । ज्योतीं᳚षि । अ॒र्चयः᳚ ॥
तव᳚ । ज्योतीं᳚षि । अ॒र्चयः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे अग्ने तव शुचयो निर्मलाः शुक्राः शुक्लवर्णा भ्राजन्तोदीप्यमानाः अर्चयः प्रभास्तव ज्योतींषि तेजांस्युदीरते प्रेरयन्ति ॥ १७ ॥