श्रवणम्

8.44.3
अ॒ग्निं दू॒तं पु॒रो द᳚धे हव्य॒वाह॒मुप᳚ ब्रुवे ।
दे॒वा{4} आ सा᳚दयादि॒ह ॥
▶ पदपाठः (Word-by-word)
अ॒ग्निम् । दू॒तम् । पु॒रः । द॒धे॒ । ह॒व्य॒॑वाह᳚म् । उप᳚ । ब्रु॒वे॒ ।
दे॒वान् । आ । सा॒द॒या॒त् । इ॒ह ॥
▶ सायणभाष्यम् (Sayana Commentary)

दूतं देवानां हव्यवाहं हविषां वोढारं चाग्निं पुरोदधे पुरस्करोमि उपब्रुवे उपस्तौमि च । सोग्निरिहयज्ञे देवानासादयादासादयतु ॥ ३ ॥