उ॒त त्वा᳚ धी॒तयो॒ मम॒ गिरो᳚ वर्धन्तु वि॒श्वहा᳚ ।
अग्ने᳚ स॒ख्यस्य᳚ बोधि नः ॥
अग्ने᳚ स॒ख्यस्य᳚ बोधि नः ॥
पदपाठः (Word-by-word)
उ॒त । त्वा॒ । धी॒तयः᳚ । मम᳚ । गिरः᳚ । व॒र्ध॒न्तु॒ । वि॒श्वहा᳚ ।
अग्ने᳚ । स॒ख्यस्य᳚ । बो॒धि॒ । नः॒ ॥
अग्ने᳚ । स॒ख्यस्य᳚ । बो॒धि॒ । नः॒ ॥
सायणभाष्यम् (Sayana Commentary)
उतातिच हे अग्ने त्वा त्वां मम धीतयः कर्माणि गिरः स्तुतयश्च विश्वहा सर्वदा वर्धन्तु वर्धयन्तु । नोस्माकं सख्यस्य सख्यं सखिकर्म स्तुत्यादिकं बोधि बुध्यस्व ॥ २२ ॥