श्रवणम्

8.44.5
उप᳚ त्वा जु॒ह्वो॒३॒᳚ मम᳚ घृ॒ताची᳚र्यन्तु हर्यत ।
अग्ने᳚ ह॒व्या जु᳚षस्व नः ॥
▶ पदपाठः (Word-by-word)
उप᳚ । त्वा॒ । जु॒ह्वः᳚ । मम᳚ । घृ॒ताचीः᳚ । य॒न्तु॒ । ह॒र्य॒त॒ ।
अग्ने᳚ । ह॒व्या । जु॒ष॒स्व॒ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे हर्यत कामयमानाग्ने मम मदीया घृताचीर्घृतमञ्चन्त्योजुह्वः स्रुचस्त्वा त्वामुपयन्तु नोस्माकं हव्या हव्यानि जुषस्व सेवस्व च ॥ ५ ॥