त्वाम᳚ग्ने मनी॒षिण॒स्त्वां हि᳚न्वन्ति॒ चित्ति᳚भिः ।
त्वां व᳚र्धन्तु नो॒ गिरः᳚ ॥
त्वां व᳚र्धन्तु नो॒ गिरः᳚ ॥
पदपाठः (Word-by-word)
त्वाम् । अ॒ग्ने॒ । म॒नी॒षिणः᳚ । त्वाम् । हि॒न्व॒न्ति॒ । चित्ति᳚॑भिः ।
त्वाम् । व॒र्ध॒न्तु॒ । नः॒ । गिरः᳚ ॥
त्वाम् । व॒र्ध॒न्तु॒ । नः॒ । गिरः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे अग्ने त्वां मनीषिणो मनसईश्वराः स्तोतारः स्तुतिभिः स्तुवन्तीतिशेषः । किञ्च त्वामेव चित्तिभिः कर्मभिर्हिन्वन्ति प्रीणयन्ति नोस्माकं गिरः स्तुतयः त्वामेव वर्धन्तु वर्धयन्तु ॥ १९ ॥