श्रवणम्

8.44.26
युवा᳚नं वि॒श्पतिं᳚ क॒विं वि॒श्वादं᳚ पुरु॒वेप᳚सम् ।
अ॒ग्निं शु᳚म्भामि॒ मन्म᳚भिः ॥
▶ पदपाठः (Word-by-word)
युवा᳚नम् । वि॒श्पति᳚म् । क॒विम् । वि॒श्व॒॑अद᳚म् । पु॒रु॒॑वेप᳚सम् ।
अ॒ग्निम् । शु॒म्भा॒मि॒ । मन्म᳚॑भिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

युवानं नित्यतरुणं विश्पतिं विशांपतिं कविं क्रान्तकर्माणं विश्वादं सर्वस्य हविषोत्तारं पुरुवेपसं बहुकर्माणं वेषः वेपइति कर्मनामसुपाठात् अग्निं मन्मभिः मननीयैः स्तोत्रैः शुंभामि शोभयामि ॥ २६ ॥