श्रवणम्

8.44.16
अ॒ग्निर्मू॒र्धा दि॒वः क॒कुत्पति᳚ः पृथि॒व्या अ॒यम् ।
अ॒पां रेतां᳚सि जिन्वति ॥
▶ पदपाठः (Word-by-word)
अ॒ग्निः । मू॒र्धा । दि॒वः । क॒कुत् । पतिः᳚ । पृ॒थि॒व्याः । अ॒यम् ।
अ॒पाम् । रेतां᳚सि । जि॒न्व॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

मूर्धा देवानां श्रेष्ठो दिवोद्युलोकस्य ककुदुच्छ्र्तः पृथिव्याश्च पतिरयमग्निः अपांरेतांसि स्थावरजंगमात्मकानि भूतानि जिन्वति प्रीणयति ॥ १६ ॥