श्रवणम्

8.44.24
वसु॒र्वसु᳚पति॒र्हि क॒मस्य᳚ग्ने वि॒भाव᳚सुः ।
स्याम᳚ ते सुम॒तावपि᳚ ॥
▶ पदपाठः (Word-by-word)
वसुः᳚ । वसु᳚॑पतिः । हि । क॒म् । असि᳚ । अ॒ग्ने॒ । वि॒भा॑व᳚सुः ।
स्याम᳚ । ते॒ । सु॒॑म॒तौ । अपि᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने त्वं विभावसुर्दीप्तिधनो वसुपतिर्धनपतिः वसुर्वासयिताचासि भवसि । हि यस्मादतोवयमपि ते तव सुमतावनुग्रहबुद्धौ सुष्टुतौ स्याम भवेम ॥ २४ ॥