यद᳚ग्ने॒ स्याम॒हं त्वं त्वं वा᳚ घा॒ स्या अ॒हम् ।
स्युष्टे᳚ स॒त्या इ॒हाशिषः᳚ ॥
स्युष्टे᳚ स॒त्या इ॒हाशिषः᳚ ॥
पदपाठः (Word-by-word)
यत् । अ॒ग्ने॒ । स्या॒म् । अ॒हम् । त्वम् । त्वम् । वा॒ । घ॒ । स्याः । अ॒हम् ।
स्युः । ते॒ । स॒त्याः । इ॒ह । आ॒॑शिषः᳚ ॥
स्युः । ते॒ । स॒त्याः । इ॒ह । आ॒॑शिषः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे अग्ने यद्यदि अहं त्वं बहुधनः स्यां भवेयम् । त्वं वा घ त्वं वाखलु अहं दरिद्रः स्तोता स्याः भवेः ततः ते तव आशिषः आशासनानि इहास्मद्विषये सत्याः सत्यानि स्युर्भवेयुः ॥ २३ ॥