म॒न्द्रं होता᳚रमृ॒त्विजं᳚ चि॒त्रभा᳚नुं वि॒भाव᳚सुम् ।
अ॒ग्निमी᳚ळे॒ स उ᳚ श्रवत् ॥
अ॒ग्निमी᳚ळे॒ स उ᳚ श्रवत् ॥
पदपाठः (Word-by-word)
म॒न्द्रम् । होता᳚रम् । ऋ॒त्विज᳚म् । चि॒त्र॑भा᳚नुम् । वि॒भा॑व᳚सुम् ।
अ॒ग्निम् । ई॒ळे॒ । सः । ऊं॒ इति᳚ । श्र॒व॒त् ॥
अ॒ग्निम् । ई॒ळे॒ । सः । ऊं॒ इति᳚ । श्र॒व॒त् ॥
सायणभाष्यम् (Sayana Commentary)
मन्द्रं मादनं होतारं देवानामाह्वातारमृत्विजमृतौ यष्टव्यं चित्रभानुं चित्रदीप्तिं विभावसुं दीप्तिधनमग्निमीळे स्तौमि । सोग्निः श्रवदस्मदीयां स्तुतिं श्रृणोत्वेव ॥ ६ ॥