श्रवणम्

8.44.9
स॒मि॒धा॒न उ᳚ सन्त्य॒ शुक्र᳚शोच इ॒हा व᳚ह ।
चि॒कि॒त्वान्दैव्यं॒ जन᳚म् ॥
▶ पदपाठः (Word-by-word)
स॒म्॑इ॒धा॒नः । ऊं॒ इति᳚ । स॒न्त्य॒ । शुक्र᳚॑शोचे । इ॒ह । आ । व॒ह॒ ।
चि॒कि॒त्वान् । दैव्य᳚म् । जन᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सन्त्य भजनशील शुक्रशोचे ज्वलद्दीप्ते त्वं समिधानउ समिध्यमानएव दैव्यं देवसम्बन्धिनं जनं चिकित्वान् जानन्निह यज्ञे आवह ॥ ९ ॥