अग्ने᳚ धृ॒तव्र᳚ताय ते समु॒द्राये᳚व॒ सिन्ध᳚वः ।
गिरो᳚ वा॒श्रास᳚ ईरते ॥
गिरो᳚ वा॒श्रास᳚ ईरते ॥
पदपाठः (Word-by-word)
अग्ने᳚ । धृ॒त॑व्र᳚ताय । ते॒ । स॒मु॒द्राय᳚॑इव । सिन्ध᳚वः ।
गिरः᳚ । वा॒श्रासः᳚ । ई॒र॒ते॒ ॥
गिरः᳚ । वा॒श्रासः᳚ । ई॒र॒ते॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे अग्ने धृतव्रताय धृतकर्मणे ते तुभ्यं वाश्रासो वाशनशीलागिरो मम स्तुतयः सिन्धवोनद्यः समुद्रायेव यथा समुद्राय तथा ईरते प्रवर्तन्ते ॥ २५ ॥