अष्टमं मण्डलम् - सूक्तम् 96

21 ऋचः

ऋषिः: तिरश्चीरांगिरसो द्युतानो वा मारुतः देवता: इंद्रः छन्दः: त्रिष्टुप्

सूक्तम् 8.96 - सम्पूर्णम्

1 / 21
ऋक्: 8.96.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (21)
8.96.1 समानपद
अ॒स्मा उ॒षास॒ आति᳚रन्त॒ याम॒मिन्द्रा᳚य॒ नक्त॒मूर्म्या᳚ः सु॒वाचः᳚ ।
अ॒स्मा आपो᳚ मा॒तरः᳚ स॒प्त त᳚स्थु॒र्नृभ्य॒स्तरा᳚य॒ सिन्ध᳚वः सुपा॒राः ॥
▶ पदपाठः (Word-by-word)
अ॒स्मै । उ॒षसः᳚ । आ । अ॒ति॒र॒न्त॒ । याम᳚म् । इन्द्रा᳚य । नक्त᳚म् । ऊर्म्याः᳚ । सु॒॑वाचः᳚ ।
अ॒स्मै । आपः᳚ । मा॒तरः᳚ । स॒प्त । त॒स्थुः॒ । नृ॑भ्यः᳚ । तरा᳚य । सिन्ध᳚वः । सु॒॑पा॒राः ॥
▶ सायणभाष्यम् (Sayana Commentary)

इन्द्रसामर्थ्यात् भीताउषसः उषःकालाः अस्मैपूर्वोक्तगुणोपेतायेन्द्राय यामं स्वस्वगमनं आ अतिरन्त तिरतिर्वर्धनकर्मा समन्तादवर्धयन्त । यथा पूर्वमुद्यन्ति तथेदानीमपि अस्मै उद्गताअभवन् । तथा ऊर्म्याः रात्रिनामैतत् ऋगतिप्रापणयोः अर्तेरूच्चेति मिप्रत्ययः भवेछन्दसीतियत् सर्वैरभिगन्तव्याः रात्रौहि सर्वे स्वनिवासं गच्छन्ति स्वनिलयप्राप्तिहेतुभूताः रात्रयः नक्तं अपररात्रिकाले सुवाचः शोभनवाचोभवन्ति तस्मि- न्काले हि सर्वे वेदाध्ययनानि शास्त्रश्रवणचिन्तनादीनि कुर्वन्ति तस्मात्कल्याणवाचोभवन् इन्द्रेनुशासति वेदाद्यनुमाने निरताअभवन् । तथा आपः आपॢव्याप्तौ सर्वतोव्याप्तामातरः जगतांनिर्मात्र्यः सप्त सप्तसंख्याकाः सिन्धवः स्यन्दमाना गंगाद्यानद्यः यद्वा सप्रणशीलाः सिन्धवः सरितः तासामावरकस्य अहेः हननेनोत्पादकत्वादस्माइन्द्राय तस्थुः नृभ्यस्तराय मनुष्याणां सुखेन तरणार्थं सुपाराः शोभनपाराः सुखेन तर्तुं योग्याः अभवन्नित्यर्थः ॥ १ ॥

8.96.2
अति᳚विद्धा विथु॒रेणा᳚ चि॒दस्त्रा॒ त्रिः स॒प्त सानु॒ संहि᳚ता गिरी॒णाम् ।
न तद्दे॒वो न मर्त्य᳚स्तुतुर्या॒द्यानि॒ प्रवृ᳚द्धो वृष॒भश्च॒कार᳚ ॥
▶ पदपाठः (Word-by-word)
अति᳚॑विद्धा । वि॒थु॒रेण᳚ । चि॒त् । अस्त्रा᳚ । त्रिः । स॒प्त । सानु᳚ । सम्॑हि᳚ता । गि॒री॒णाम् ।
न । तत् । दे॒वः । न । मर्त्यः᳚ । तु॒तु॒र्या॒त् । यानि᳚ । प्र॑वृ᳚द्धः । वृ॒ष॒भः । च॒कार᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

विथुरेण । वर्णव्यत्ययः । चिदप्यर्थे विधुरेण असहायेनापि अस्त्रा असुक्षेपणे ताच्छीलिकस्तृन् शत्रुक्षेपणशीलेनेन्द्रेण । यद्वा अस्त्रा अस्त्रेण वज्रेण त्रिःसप्त एकविंशतिसंख्यानि संहिता संहितानि एकत्र संघीभूतानि गिरीणां सप्तानां पर्वतानां सानु सानूनि अतिविद्धा अतिविद्धानि अतीत्य ताडितानि तेन मुक्तोवज्रपातः तानि भित्वागमदित्यर्थः । अत्र तैत्तिरीयकं ब्राह्मणं-दर्भपुंजीलमुद्धृत्य सप्तगिरीन् भित्वा तमहन्नित्यादि । तस्येन्द्रस्य तत्तानि सानुभेदनानि कर्माणि देवैन्द्राद्मतिरिक्तोदेवो मर्त्यो मनुष्योवा नतुतुर्यात् नतरेत तथाकर्तुं नशक्नोतीत्यर्थः । तॄप्लवनतरणयोः लिङिछान्दसः शपःश्लुः बहुलंछन्दसीत्युत्वम् । यद्वा तुरत्वरणे जौहोत्यादिकः । प्रवृद्धः सोमपानेन बलेनवा प्रवृद्धः वृषभः कामानामुदकानांवा वर्षकः इन्द्रः यानि कर्माणि चकार कृतवान् तानि देवो मनुष्योवा नतुतुर्यात् नहन्यात् हन्तुं शक्तोनभवेत् । अस्मिन्पक्षे तुरी गतिहिंसात्वरणयो- रित्येतस्यरूपम् । यथायोग्यं दीर्घाभावोह्रस्वश्छान्दसः न तथाकर्तुं शक्नोतीत्यर्थः ॥ २ ॥

8.96.3
इन्द्र᳚स्य॒ वज्र᳚ आय॒सो निमि᳚श्ल॒ इन्द्र᳚स्य बा॒ह्वोर्भूयि᳚ष्ठ॒मोजः᳚ ।
शी॒र्षन्निन्द्र᳚स्य॒ क्रत᳚वो निरे॒क आ॒सन्नेष᳚न्त॒ श्रुत्या᳚ उपा॒के ॥
▶ पदपाठः (Word-by-word)
इन्द्र᳚स्य । वज्रः᳚ । आ॒य॒सः । नि॑मि᳚श्लः । इन्द्र᳚स्य । बा॒ह्वोः । भूयि᳚ष्ठम् । ओजः᳚ ।
शी॒र्षन् । इन्द्र᳚स्य । क्रत᳚वः । नि॒रे॒के । आ॒सन् । आ । ई॒ष॒न्त॒ । श्रुत्यै᳚ । उ॒पा॒के ॥
▶ सायणभाष्यम् (Sayana Commentary)

उक्तगुणस्य इन्द्रस्य वज्रआयसः अयसा निर्मितः अयोमयइत्यर्थः सवज्रः इन्द्रेण स्वहस्ते निमिश्लः संमिश्रः अत्यन्तं संबद्धःकृतः अतएव इन्द्रस्य बाह्वोर्भुजयोर्भूयिष्ठं बहुतममोजोवीर्यमस्ति । तथानिरेके निपूर्वाद्रिच्यतेर्वा निस्पूर्वादेतेर्वेति संदेहादनवग्रहः । निर्गमने यदा युद्धार्थमिन्द्रोनिर्गच्छति तदानीमिन्द्रस्य शीर्षन् शिरसि क्रतवः कर्माणि शिरस्राणनिधानादीनि । यद्वा शिरइति गलप्रभृत्यूर्ध्वमंगमुच्यते तत्रत्याभ्यामक्षिभ्यां दर्शनप्रेरणादीनि कर्माणि भवन्ति । तथा आसन् आस्यस्य आसन्नादेशः आस्येच यानि कर्माणि युद्धार्थं वाजिनो गजान् संनाहयतेत्यादीनि भवन्ति । किंच श्रुत्यै संग्रामाय निर्गच्छतोनुशासत इन्द्रस्य वाक्यश्रवणार्थं सर्वे उपजीविनो भृत्याः उपाके अन्तिके एषन्त । अयमिंद्रोस्मान् कुत्रकुत्र कार्ये नियोक्ष्यतीत्येतेन मनसा तदन्तिके समन्तादागच्छन्ति । ईषगतिहिंसादर्शनेषु भौवादिकः ॥ ३ ॥

8.96.4
मन्ये᳚ त्वा य॒ज्ञियं᳚ य॒ज्ञिया᳚नां॒ मन्ये᳚ त्वा॒ च्यव᳚न॒मच्यु᳚तानाम् ।
मन्ये᳚ त्वा॒ सत्व᳚नामिन्द्र के॒तुं मन्ये᳚ त्वा वृष॒भं च᳚र्षणी॒नाम् ॥
▶ पदपाठः (Word-by-word)
मन्ये᳚ । त्वा॒ । य॒ज्ञिय᳚म् । य॒ज्ञिया᳚नाम् । मन्ये᳚ । त्वा॒ । च्यव᳚नम् । अच्यु᳚तानाम् ।
मन्ये᳚ । त्वा॒ । सत्व᳚नाम् । इ॒न्द्र॒ । के॒तुम् । मन्ये᳚ । त्वा॒ । वृ॒ष॒भम् । च॒र्ष॒णी॒नाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

एतदादयः प्रत्यक्षाः हे इन्द्र त्वा त्वां यज्ञियानां यज्ञार्हाणां देवानामपि यज्ञियं पुरस्तादेव यज्ञार्हमितिमन्ये अवबुध्ये । तथा त्वा त्वां अच्युतानां च्युतिरहितानामपि पर्व तानां च्यवनं च्यावयितारं वज्रेण विभेदकमिति मन्ये जानामि । यद्वा अच्युतानां बलेनच्यावयितुमशक्यानां बलिनां वीराणां अपि स्वबलेन विद्रावयितारमिति जाने । किंच हेइन्द्र सत्वनां सत्वानां षणसंभक्तौ क्वनिप् संभजमानानां भटानां केतुमुच्छ्रितमिति मन्ये । यद्वा सत्वानां स्तुतिभिर्हविर्भिर्वा संभक्तॄणां यष्टृणां केतुं आत्मनः प्रज्ञापकं तेषां पूजनीयमितिवा मन्ये । तथा त्वा त्वां चर्षणीनां मनुष्याणां वृषभं अभिमतफलवर्षकमिति मन्ये जानामि ॥ ४ ॥

8.96.5
आ यद्वज्रं᳚ बा॒ह्वोरि᳚न्द्र॒ धत्से᳚ मद॒च्युत॒मह᳚ये॒ हन्त॒वा उ᳚ ।
प्र पर्व᳚ता॒ अन᳚वन्त॒ प्र गाव॒ः प्र ब्र॒ह्माणो᳚ अभि॒नक्ष᳚न्त॒ इन्द्र᳚म् ॥
▶ पदपाठः (Word-by-word)
आ । यत् । वज्र᳚म् । बा॒ह्वोः । इ॒न्द्र॒ । धत्से᳚ । म॒द॒॑च्युत᳚म् । अह᳚ये । हन्त॒वै । ऊं॒ इति᳚ ।
प्र । पर्व᳚ताः । अन᳚वन्त । प्र । गावः᳚ । प्र । ब्र॒ह्माणः᳚ । अ॒भि॒॑नक्ष᳚न्तः । इन्द्र᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र बाह्वोर्वज्रमायुधं कीदृशं मदच्युतं शत्रूणां मदस्य च्यावयितारं यद्यदा आधत्से आदधासि । किमर्थं अहये अहिनामानमसुरं मेघंवा हन्तवै उइत्यवधारणे हन्तुमेव । किंच यदावा इन्द्रेण अहिनामके असुरे हते सति पर्वता जगदापूरकामेघाः प्रानवन्त नुशब्दे प्रकर्षेणाशब्दयन् यदावा । गावः तत् स्थान्युदकानि च प्रकर्षेण ध्वनिमकुर्वन् । उदकान्यध्वनयन्नित्यत्र याजुषोनिगमः-यददः संप्रयन्तीरहावनदताहते तस्मादानद्योनाम- स्थेति । तुरीयःपादः परोक्षः तदानीमभिनक्षन्तः अभितइन्द्रं स्तुतिभिर्हविर्भिर्गच्छन्तो ब्रह्माणो ब्राह्मणाइन्द्रं पर्यचरन् । यद्वा ब्रह्माणः वृहवृद्धौ प्रवृद्धाः पर्वतादयः इन्द्रमस्तुवन् इति ॥ ५ ॥

8.96.6
तमु᳚ ष्टवाम॒ य इ॒मा ज॒जान॒ विश्वा᳚ जा॒तान्यव᳚राण्यस्मात् ।
इन्द्रे᳚ण मि॒त्रं दि᳚धिषेम गी॒र्भिरुपो॒ नमो᳚भिर्वृष॒भं वि᳚शेम ॥
▶ पदपाठः (Word-by-word)
तम् । ऊं॒ इति᳚ । स्त॒वा॒म॒ । यः । इ॒मा । ज॒जान᳚ । विश्वा᳚ । जा॒तानि᳚ । अव᳚राणि । अ॒स्मा॒त् ।
इन्द्रे᳚ण । मि॒त्रम् । दि॒धि॒षे॒म॒ । गीः॒॑भिः । उपो॒ इति᳚ । नमः᳚॑भिः । वृ॒ष॒भम् । वि॒शे॒म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

परस्परं स्तोतारआहुः तमु तमेवेन्द्रं वयं संहत्य स्तवाम स्तोत्रं करवाम । यइन्द्रः इमा इमानि भूतानि जजान जनयामास तस्मादस्मादिन्द्रादेव विश्वा विश्वानि सर्वाणि वस्तुजातानि सर्वाणि जगन्तिवा अवराणि अवरकालीनानि पश्चाद्भवानि भवन्ति तेनानेनेन्द्रेण वयं गीर्भिःस्तुतिभिः मित्रं लुप्तभावे प्रत्ययेन निर्देशः मैत्रीं दिधिषेम धारयेम । दिधिष धारणेइति धातुं केचिद्वदन्ति यद्वा मित्रं छान्दसमेकवचनं वयमिन्द्रेणसह मित्राणि सुहृदोभवामेति गीर्भिरिन्द्रं शव्दयेम । धिषशब्दे जौहोत्यादिकः अत्रव्यत्ययेन द्विविकरणाता श्लुश्च शप् च । ततोनमोभिः क्रियमाणैर्नमस्कारैः दीयमानैर्हविर्भिर्वा वृषभं कामानांवर्षकमिन्द्रं उपोविशेम अस्मदभिमुखमेव कुर्याम ॥ ६ ॥

8.96.7
वृ॒त्रस्य᳚ त्वा श्व॒सथा॒दीष᳚माणा॒ विश्वे᳚ दे॒वा अ᳚जहु॒र्ये सखा᳚यः ।
म॒रुद्भि᳚रिन्द्र स॒ख्यं ते᳚ अ॒स्त्वथे॒मा विश्वा॒ः पृत᳚ना जयासि ॥
▶ पदपाठः (Word-by-word)
वृ॒त्रस्य᳚ । त्वा॒ । श्व॒सथा᳚त् । ईष᳚माणाः । विश्वे᳚ । दे॒वाः । अ॒ज॒हुः॒ । ये । सखा᳚यः ।
म॒रुत्॑भिः᳚ । इ॒न्द्र॒ । स॒ख्यम् । ते॒ । अ॒स्तु॒ । अथ᳚ । इ॒माः । विश्वाः᳚ । पृत᳚नाः । ज॒या॒सि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र तव ये विश्वेदेवाः प्राक्सखायः संग्रामे सखित्वं कुर्यामिति मित्राणि अभवन् ते सर्वे देवाः वृत्रस्य वृत्रासुरस्य श्वसथात् श्वसेरौणादिकोथ- प्रत्ययः सर्वानागच्छतोदृष्ट्वा तेषां भीत्युत्पादनाय वृत्रासुरः श्वासमकार्षीत् श्वासाद्भीताः सन्तः अतएव ईषमाणाः सर्वतः पलायमानाः त्वा त्वामजहुः संग्रामेत्यक्तवन्तः एवंसति हेइन्द्र मरुद्भिः सह सख्यं सखिभावस्ते तवास्तु । ये मरुतस्त्वां नपरित्यजन्ति तैः सहेति । अथानंतरं इमा विश्वाः पृतनाः शत्रुसेना जयासि स्वबलेनाभिभवसि अनेन वृत्रघ्नं तमिन्द्रमाह । अत्र इन्द्रोवैवृत्रंहनिष्यन् इत्यादिब्राह्मणमनुसं- धेयम् ॥ ७ ॥

8.96.8
त्रिः ष॒ष्टिस्त्वा᳚ म॒रुतो᳚ वावृधा॒ना उ॒स्रा इ᳚व रा॒शयो᳚ य॒ज्ञिया᳚सः ।
उप॒ त्वेमः᳚ कृ॒धि नो᳚ भाग॒धेयं॒ शुष्मं᳚ त ए॒ना ह॒विषा᳚ विधेम ॥
▶ पदपाठः (Word-by-word)
त्रिः । ष॒ष्टिः । त्वा॒ । म॒रुतः᳚ । व॒वृ॒धा॒नाः । उ॒स्राः॑इ᳚व । रा॒शयः᳚ । य॒ज्ञिया᳚सः ।
उप᳚ । त्वा॒ । आ । इ॒मः॒ । कृ॒धि । नः॒ । भा॒ग॒॑धेय᳚म् । शुष्म᳚म् । ते॒ । ए॒ना । ह॒विषा᳚ । वि॒धे॒म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

प्रसंगादेतावन्तोमरुतः सहायाअभन्नित्याह-हे इन्द्र त्रिः त्रयः जसः सुपांसुलुगितिसुः षष्टिः षष्ट्युत्तरं त्रिसंख्याका मरुतः । तेच तैत्तिरीयके-ईदृङ्- चान्यादृङ्चेत्यादिना नवसुगणेषु सप्तसप्तनिपादिताः । तत्र आदिपंचगणाः संहितायामाम्नायन्ते स्वतवांश्च प्रघासीच सांतपनश्च गृहमेधीच क्रीडीच शाकीचोज्जषीचेति । खैलिकः षष्ठोगणः ततोधुनिश्च ध्वान्तश्चेत्याद्यास्त्रयोरण्येनुवाक्याः । इत्थं त्रयः षष्टिसंख्याकाः उस्राइवराशयः गावइव संघीभूतास्ते त्वा त्वां वावृधानाः स्वबलेन वर्धितवन्तः तेमरुतः यज्ञियासो यज्ञार्हाअभवन् । तं मरुत्सहायमिन्द्रं त्वा त्वां वयं एमः उपगच्छामः ततस्त्वं नोस्मभ्यं भागधेयं भजनीयं धनं कृधिकुरु । पश्चाद्वयमपि एना एनेन सोमलक्षणेन हविषा ते तुभ्यं शुष्मं शत्रूणां शोषकं बलं विधेम । विधविधाने विदध्म कुर्मइत्यर्थः ॥ ८ ॥

8.96.9
ति॒ग्ममायु᳚धं म॒रुता॒मनी᳚कं॒ कस्त᳚ इन्द्र॒ प्रति॒ वज्रं᳚ दधर्ष ।
अ॒ना॒यु॒धासो॒ असु᳚रा अदे॒वाश्च॒क्रेण॒ ता{4} अप᳚ वप ऋजीषिन् ॥
▶ पदपाठः (Word-by-word)
ति॒ग्मम् । आयु᳚धम् । म॒रुता᳚म् । अनी᳚कम् । कः । ते॒ । इ॒न्द्र॒ । प्रति᳚ । वज्र᳚म् । द॒ध॒र्ष॒ ।
अ॒ना॒यु॒धासः᳚ । असु᳚राः । अ॒दे॒वाः । च॒क्रेण᳚ । तान् । अप᳚ । व॒प॒ । ऋ॒जी॒षि॒न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र ते तव स्वभूतं तिग्मं तीक्ष्णमायुधं आयुध्यतेनेनेति आयुधं धनुः तत्र मरुतां त्रयःषष्टिसंख्याकानां त्वत्सहायानां अनीकं संघंच त्वदीयं वज्रंच कः कोवा देवोमनुष्योवा प्रतिदधर्ष प्रतिकूलमभिभवति अभिभावुकोनास्तीत्यर्थः । धनुराद्यायुधवर्जिता अदेवाः देववर्जिता देवद्विषोये असुराः सन्ति हे ऋजीषिन् अपार्जितोभिषुत्यः सोम ऋजीषी तद्वन्निन्द्र तानसुरान चक्रेण चक्रसमानवीर्येण चक्ररूपेण वज्रेण वा अपवप अपगतान्कुरु अपनुदेत्यर्थः ॥ ९ ॥

8.96.10
म॒ह उ॒ग्राय᳚ त॒वसे᳚ सुवृ॒क्तिं प्रेर᳚य शि॒वत᳚माय प॒श्वः ।
गिर्वा᳚हसे॒ गिर॒ इन्द्रा᳚य पू॒र्वीर्धे॒हि त॒न्वे᳚ कु॒विद॒ङ्ग वेद᳚त् ॥
▶ पदपाठः (Word-by-word)
म॒हे । उ॒ग्राय᳚ । त॒वसे᳚ । सु॒॑वृ॒क्तिम् । प्र । ई॒र॒य॒ । शि॒व॑त᳚माय । प॒श्वः ।
गिर्वा᳚हसे । गिरः᳚ । इन्द्रा᳚य । पू॒र्वीः । धे॒हि । त॒न्वे᳚ । कु॒वित् । अ॒ङ्ग । वेद᳚त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे स्तोतः महे महते गुणैः उग्राय बलेनोद्गूर्णाय तवसे तुइति धातुर्वृद्भ्यर्थः । प्रवृद्धाय शिवतमाय कल्याणतमायेन्द्राय सुवृक्तिंशोभनां स्तुतिं प्रेरय चोदय कुरु । किमर्थं पश्वः पशोः द्विपाच्च चतुष्पाच्च पशोर्मम अस्मदीयाय गवेवा यद्वा पशोरतीन्द्रियार्थं द्रष्टुर्मम धनादिकं दातुं गवे सुखादिकं प्रदातुमिन्द्राय स्तुतिं प्रेरय । एतदेवाह हे स्तोतः गिर्वाहसे गीर्भिः स्तुतिभिरुह्यमानायेन्द्राय पूर्वीर्बह्वीः गिरः स्तुतीः धेहि कुरु । ततः सइन्द्रः तन्वे तनोति कुलमिति तनूस्तनयः तस्मै पुत्राय स्वशरीराय आत्मनेवा कुवित् बहुनामैतत् बहुधनं अंग क्षिप्रं वेदत् लंभयतु ददातु । विदॢलाभे लेट्यडागमः कुविच्छब्दयोगादनिघातः ॥ १० ॥

8.96.11
उ॒क्थवा᳚हसे वि॒भ्वे᳚ मनी॒षां द्रुणा॒ न पा॒रमी᳚रया न॒दीना᳚म् ।
नि स्पृ᳚श धि॒या त॒न्वि᳚ श्रु॒तस्य॒ जुष्ट᳚तरस्य कु॒विद॒ङ्ग वेद᳚त् ॥
▶ पदपाठः (Word-by-word)
उ॒क्थ॑वा᳚हसे । वि॒॑भ्वे᳚ । म॒नी॒षाम् । द्रुणा᳚ । न । पा॒रम् । ई॒र॒य॒ । न॒दीना᳚म् ।
नि । स्पृ॒श॒ । धि॒या । त॒न्वि᳚ । श्रु॒तस्य᳚ । जुष्ट᳚॑तरस्य । कु॒वित् । अ॒ङ्ग । वेद᳚त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे स्तोतः उक्थवाहसे उक्थैः स्तोत्रशस्त्रादिभिरुह्यमानाय अतएव विभ्वे महत यद्वा शत्रूणामभिभवित्रे इन्द्राय इन्द्रार्थं मनीषां मनसईषां स्तुतिं ईरय प्रेरय । तत्रदृष्टान्तः-द्रुणानयथा नाविकः नदीनां नदमानानां सरितां पारं तीरंप्रति पथिकं द्रुणा नावा प्रापयति तद्वदिंद्रं प्रति स्तुतिं गमयेति । किंच निस्पृश नितरां धनं स्पर्शय गमय तन्वि आत्मनि पुत्रेवा । किदृशं श्रुतस्य सर्वत्र विश्रुतस्य प्रसिद्धस्य जुष्टतरस्य अत्यर्थं प्रीणयितु- रिन्द्रस्य स्वभुतं धनं धिया त्वदीयया स्तुत्या कर्मणावा आत्मानं गमय ततस्त्वयाभिष्टुतइन्द्रः कुविद्बहुधनं अंग क्षिप्रं वेदत् लंभयतु ददातु ॥ ११ ॥

8.96.12
तद्वि᳚विड्ढि॒ यत्त॒ इन्द्रो॒ जुजो᳚षत्स्तु॒हि सु᳚ष्टु॒तिं नम॒सा वि᳚वास ।
उप᳚ भूष जरित॒र्मा रु᳚वण्यः श्रा॒वया॒ वाचं᳚ कु॒विद॒ङ्ग वेद᳚त् ॥
▶ पदपाठः (Word-by-word)
तत् । वि॒वि॒ड्ढि॒ । यत् । ते॒ । इन्द्रः᳚ । जुजो᳚षत् । स्तु॒हि । सु॒॑स्तु॒तिम् । नम᳚सा । आ । वि॒वा॒स॒ ।
उप᳚ । भू॒ष॒ । ज॒रि॒तः॒ । मा । रु॒व॒ण्यः॒ । श्र॒वय᳚ । वाच᳚म् । कु॒वित् । अ॒ङ्ग । वेद᳚त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे त्विक् तत्सोमादिहविः स्तोत्रंवा विविड्ढि व्यापय तानीन्द्रार्थं कुर्वित्यर्थः । ते तव स्वभूतं यद्धविः स्तोत्रंवा इन्द्रोजुजोषत् स्वीकुर्यात् तत्कुरु । जुषीप्रीतिसेवनयोः लेटिशपःश्लुः अडागमश्छान्दसत्वात् श्नाभ्यस्तस्येति गुणप्रतिषेधाभावः । हे स्तोतः सुष्टुतिं सुस्तुतिं शोभनास्तुतिर्यस्य सतथोक्तः तादृशमिन्द्रं स्तुहि । तथा नमसा स्तोत्रेण हविषावा आविवास इन्द्रमाभिमुख्येन परिचर । विवासतिःपरिचरणकर्मा लोटिरूपम् । हे जरितः स्तोतः उपभुष भूषअलंकारे अलंकृतोभव मारुवण्यः धनाभावात् मा ध्वनयः मारोदीरित्यर्थः । धनागमने कारणमाह-हे स्तोतः वाचं स्तुतिं इन्द्रं श्रावय ज्ञापय ततस्त्वया स्तुतइन्द्रः तुभ्यं कुवित् बहुधनं क्षिप्रं प्रयच्छत् ॥ १२ ॥ पृष्ठ्यषडहगतेषूक्थ्येषु तृतीयसवने ब्राह्मणाच्छंसिशस्त्रे अवद्रप्सइतितृचः । सूत्रितंच-अवद्रप्सोअंशुमतीमतिष्ठदिति तिस्रोच्छामइन्द्रमिति नित्यमैकाहिकमिति ।

8.96.13
अव᳚ द्र॒प्सो अं᳚शु॒मती᳚मतिष्ठदिया॒नः कृ॒ष्णो द॒शभि᳚ः स॒हस्रै᳚ः ।
आव॒त्तमिन्द्र॒ः शच्या॒ धम᳚न्त॒मप॒ स्नेहि᳚तीर्नृ॒मणा᳚ अधत्त ॥
▶ पदपाठः (Word-by-word)
अव᳚ । द्र॒प्सः । अं॒शु॒॑मती᳚म् । अ॒ति॒ष्ठ॒त् । इ॒या॒नः । कृ॒ष्णः । द॒श॑भिः᳚ । स॒हस्रैः᳚ ।
आव᳚त् । तम् । इन्द्रः᳚ । शच्या᳚ । धम᳚न्तम् । अप᳚ । स्नेहि᳚तीः । नृ॒॑मनाः᳚ । अ॒ध॒त्त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अत्रेतिहासमाचक्षते-किलकृष्णोनामासुरः दशसहस्रसंख्यैरसुरैः परिवृतःसन् अंशुमतीनामधेयाया नद्यास्तीरे अतिष्ठत् । तत्र तं कृष्णमुदकमध्ये स्थितं इन्द्रोबृहस्पतिनासहागच्छत् आगत्य तं कृष्णं तस्यानुचरांश्च बृहस्पतिसहायोजघानेति । केचिदन्यथावदन्ति-तेषां कथाहेतुः द्रप्सइति उदककणोभिधीयते सतुसोमः । द्रप्सश्चस्कन्देत्यादिषु । सोमपरत्वेनोक्तत्वादेतत् पदमाश्रित्याहुः-अपऋम्यतुदेवेभ्यः सोमोवृत्रभयार्दितः । नदीमं शुमतींनाम अभ्यतिष्ठत्कुरून्प्रति १ तंबृहस्पतिनैकेन सोभ्ययाद्वृत्रहासह । योत्स्यमानंसुसंहृष्टैर्मरुद्भिर्विविधायुधैः २ दृष्ट्वा तानायतःसोमः स्वबलेनव्यवस्थितः । मत्वानोवृत्रमायान्तं जिघांसुमरिसेनया ३ व्यवस्थितंधनुष्मन्तं तमुवाचबृहस्पतिः । मरुत्पतिरयंसोमः प्रेहिदेवान्पुनर्विभो ४ सोब्रवीन्नेतितंशक्रः ओजसैवबलाद्बली । इयायदेवानादाय तंपपुर्विधिवत्सुराः ५ जघ्नुःपीत्वाचदैत्यानां समरेनवतीर्नव । तदवद्रप्सइत्यस्मिन्नृ- चेसर्वंनिगद्यते ६ एतदनार्षत्वेनादरणीयंभवति । एषोर्थः क्रमेणऋक्षुवक्ष्यते । तथाचास्याऋचोयमर्थः-द्रप्सः द्रुतं सरति गच्छतीतिद्रप्सः पृषो- दरादिः द्रुतं गच्छन् दशभिः सहस्रैः दशसहस्रसंख्यैरसुरैः इयानः कृष्णः एतन्नामकःअसुरः अंशुमतीं नामनदीं अवातिष्ठत् अवतिष्ठते ततः शच्या कर्मणा प्रज्ञानेनवा धमन्तं उदकस्यान्तरुच्छ्वसन्तं यद्वा जगद्भीतिकरं शब्दं कुर्वन्तं तं कृष्णासुरं इन्द्रोमरुद्भिःसह आवत् प्राप्नोत् । पश्चात् तं कृष्णासुरं तस्यानुचरांश्च हतवानित्याह-नृमनाः नृषु मनोयस्यसः यद्वा कर्मनेतृषु ऋत्विक्षु एकविधं मनोयस्य सतथोक्तः तादृशः सन् स्नेहितिर्वधकर्मसुपठितः सर्वस्यहिंसित्रीस्तस्यसेनाः अपाधत्त अपधानं हननं अवधीदित्यर्थः अपस्नीहितिं नृमणाअधद्राइति छन्दोगाः पठंति । तस्यानुचरान्हत्वा तं द्रुतं गच्छन्तमसुरं अपाधत्त हतवान् ॥ १३ ॥

8.96.14
द्र॒प्सम᳚पश्यं॒ विषु᳚णे॒ चर᳚न्तमुपह्व॒रे न॒द्यो᳚ अंशु॒मत्या᳚ः ।
नभो॒ न कृ॒ष्णम᳚वतस्थि॒वांस॒मिष्या᳚मि वो वृषणो॒ युध्य᳚ता॒जौ ॥
▶ पदपाठः (Word-by-word)
द्र॒प्सम् । अ॒प॒श्य॒म् । विषु᳚णे । चर᳚न्तम् । उ॒प॒॑ह्व॒रे । न॒द्यः᳚ । अं॒शु॒॑मत्याः᳚ ।
नभः᳚ । न । कृ॒ष्णम् । अ॒व॒त॒स्थि॒॑वांस᳚म् । इष्या᳚मि । वः॒ । वृ॒ष॒णः॒ । युध्य᳚त । आ॒जौ ॥
▶ सायणभाष्यम् (Sayana Commentary)

चतुर्थः पादोमारुतः मरुतः प्रति यद्वाक्यमिन्द्रउवाच । तदत्रकीर्त्यते हे मरुतः द्रप्सं द्रुतगामिनं कृष्णमहमपश्यं अदर्शम् । कुत्रवर्तमानं विषुणे विष्वगंचने सर्वतोविस्तृतेदेशे यद्वा विषुणे विषमे परैरदृश्ये देशे चरन्तं परितोगच्छन्तं किंच अंशुमत्याः एतन्नामिकायानद्यो नद्याः उपह्वरे अत्यन्तंगूढे स्थाने नभोन नभसि यथादित्योदीप्यते तद्वतत्र दीप्यमानं अवतस्थिवांसं उदकस्यान्तरवस्थितं कृष्णं एतन्नामकं असुरं अपश्यं तस्मिन् दृष्टेसति हे वृषणः कामानामुदकानांवा सेक्तारोमरुतः वोयुष्मान् युद्धार्थं इष्यामि अहमिच्छामि । ततोयूयं तमिमं कृष्णं आजौ अजन्ति गच्छन्त्यत्रयोद्धारः आयुधानि प्रक्षेपयन्तीतिवा आजिः संग्रामः तस्मिन् युध्यत संहरत वाक्यभेदादनिघातः । केचिदिष्यामिवोमरुतइतिपठन्ति । तत्र हेमरुतः वोयुष्मानिच्छामीत्यर्थोभवति ॥ १४ ॥

8.96.15
अध᳚ द्र॒प्सो अं᳚शु॒मत्या᳚ उ॒पस्थे॑धा᳚रयत्त॒न्वं᳚ तित्विषा॒णः ।
विशो॒ अदे᳚वीर॒भ्या॒३॒᳚चर᳚न्ती॒र्बृह॒स्पति᳚ना यु॒जेन्द्र᳚ः ससाहे ॥
▶ पदपाठः (Word-by-word)
अध᳚ । द्र॒प्सः । अं॒शु॒॑मत्याः᳚ । उ॒प॑स्थे᳚ । अधा᳚रयत् । त॒न्व᳚म् । ति॒त्वि॒षा॒णः ।
विशः᳚ । अदे᳚वीः । अ॒भि । आ॒॑चर᳚न्तीः । बृह॒स्पति᳚ना । यु॒जा । इन्द्रः᳚ । स॒स॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अध अथ द्रप्सोद्रुतगामी कृष्णः अंशुमत्यानद्याः उपस्थे समीपे तित्विषाणो दीप्यमानः सन् तन्वं आत्मीयं शरीरं अधारयत् परैरहिंस्यत्वेन बेभर्ति । यद्वा बलप्राप्त्यर्थं स्वशरीरमाहाशदिभिरपोषयत् तत्र इन्द्रोगत्वा बृहस्पतिना एतन्नामकेन देवेन युजा सहायेन अदेवीः अद्योतमानाः कृष्णरूपा- इत्यर्थः । यद्वा पापयुक्तत्वादस्तुत्याः आचरन्तीः आगच्छन्तीर्विशः असुरसोनाः अभिससहे जघान । तमवधीदित्यर्थः प्रसंगादवगम्यते ॥ १५ ॥

8.96.16
त्वं ह॒ त्यत्स॒प्तभ्यो॒ जाय᳚मानो॑श॒त्रुभ्यो᳚ अभव॒ः शत्रु᳚रिन्द्र ।
गू॒ळ्हे द्यावा᳚पृथि॒वी अन्व᳚विन्दो विभु॒मद्भ्यो॒ भुव᳚नेभ्यो॒ रणं᳚ धाः ॥
▶ पदपाठः (Word-by-word)
त्वम् । ह॒ । त्यत् । स॒प्त॑भ्यः᳚ । जाय᳚मानः । अ॒श॒त्रु॑भ्यः᳚ । अ॒भ॒वः॒ । शत्रुः᳚ । इ॒न्द्र॒ ।
गू॒ळ्हे इति᳚ । द्यावा᳚पृथि॒वी इति᳚ । अनु᳚ । अ॒वि॒न्दः॒ । वि॒भु॒मत्॑भ्यः᳚ । भुव᳚नेभ्यः । रण᳚म् । धाः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वं खलु तत् कर्म कृतवानसि । किंतत् उच्यते-जायमानस्त्वं प्रादुर्भवन्नेव अशत्रुभ्यः शत्रुरहितेभ्यः सप्तभ्यः कृष्णवृत्रनमुचिशंबरादिसप्तभ्यो- बलवद्भ्यः शत्रुभ्यः तदर्थं शत्रुरभवः । यद्वा सप्तभ्यः सप्तैवांगिरसः । सप्तभ्यः अंगिरोभ्यः गवानयनार्थं प्रादुर्भवन्ने वाशत्रुभ्योबलवद्भ्यः पणिभ्यः शत्रुरभवः । किंच हे इन्द्र त्वं गूह्ळे तमसा गूढे संवृते द्यावापृथिवी द्यावापृथिव्यौ सूर्यात्मना ते प्रकाश्य अनुक्रमेण अविन्दः अलभथाः । तथा विभुमद्भ्यः महत्त्वयुक्तेभ्योभुवनेभ्योलोकेभ्यः रणं रमणं धाः धारयसि विदधासीत्यर्थः ॥ १६ ॥

8.96.17
त्वं ह॒ त्यद᳚प्रतिमा॒नमोजो॒ वज्रे᳚ण वज्रिन्धृषि॒तो ज᳚घन्थ ।
त्वं शुष्ण॒स्यावा᳚तिरो॒ वध᳚त्रै॒स्त्वं गा इ᳚न्द्र॒ शच्येद᳚विन्दः ॥
▶ पदपाठः (Word-by-word)
त्वम् । ह॒ । त्यत् । अ॒प्र॒ति॒॑मा॒नम् । ओजः᳚ । वज्रे᳚ण । व॒ज्रि॒न् । धृ॒षि॒तः । ज॒घ॒न्थ॒ ।
त्वम् । शुष्ण᳚स्य । अव᳚ । अ॒ति॒रः॒ । वध᳚त्रैः । त्वम् । गाः । इ॒न्द्र॒ । शच्या᳚ । इत् । अ॒वि॒न्दः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वंह त्वंखलु त्यदेतत्कर्माकार्षीः । किंतत् अभिधीयते-यतः हेवज्रिन् वज्रवन्निन्द्र धृषितः धृष्टः संग्रामेषु शत्रुहनने कुशलःसन् । यद्वा धृष्टोधीरःसन् अप्रतिमानं प्रतिमानमुपमा । निरुपमं अस्य सदृशं अन्यदीयं वीर्यं नास्तीत्यर्थः । तादृशं शुष्णस्य ओजोबलं वज्रेणायुधेन जघंथ हतवानसि । अभ्यासाच्चेति हंतेर्घत्वम् । पूर्वं शुष्णस्य बलं विनाश्य इदानीं शुष्णमपिहतवानित्याह-त्वं वधत्रैः हननसाधनैः आयुधैः शुष्णस्य । क्रियाग्रहणं कर्तव्यमिति संप्रदानसंज्ञा चतुर्थ्यर्थे बहुलमिति षष्ठी । शुष्णमवातिरः कुत्साय राजर्षये अवाङ्मुखं कृत्वा अवधीः । तथाचनिगमः-कुत्सायशुष्णमशुषंनिबर्हीरिति । तथा हे इन्द्र त्वं शच्या स्वकीयया प्रज्ञया कर्मणावा गाः शत्रून्हत्वा तेषां गाअविन्दः अलभथाः । यद्वा अंगिरसां गाः पणीन् संप्रहृत्य लब्धवानसि ॥ १७ ॥

8.96.18
त्वं ह॒ त्यद्वृ᳚षभ चर्षणी॒नां घ॒नो वृ॒त्राणां᳚ तवि॒षो ब᳚भूथ ।
त्वं सिन्धू{4}᳚रसृजस्तस्तभा॒नान्त्वम॒पो अ᳚जयो दा॒सप᳚त्नीः ॥
▶ पदपाठः (Word-by-word)
त्वम् । ह॒ । त्यत् । वृ॒ष॒भ॒ । च॒र्ष॒णी॒नाम् । घ॒नः । वृ॒त्राणा᳚म् । त॒वि॒षः । ब॒भू॒थ॒ ।
त्वम् । सिन्धू᳚न् । अ॒सृ॒जः॒ । त॒स्त॒भा॒नान् । त्वम् । अ॒पः । अ॒ज॒यः॒ । दा॒स॑प᳚त्नीः ॥
▶ सायणभाष्यम् (Sayana Commentary)

त्वंखलु त्यत् तत्कर्मकृतवानसि । किंतत् हे वृषभ कामानां वर्षितरिन्द्र चर्षणीनां यष्टृणां मनुष्याणां भावितानां वृत्राणां उपद्रवाणां घनोहन्ता । अमुर्त्यर्थेपि छ्न्दोविषयत्वान्निपातनम् । तादृशस्त्वं तविषः प्रवृद्धोबलवान्वा बभूथ बभूविथ । बभूथाततंथेति इडभावोनिपात्यते । ततस्त्वं तस्तभानान् असुरैर्विरुध्यमानाः सिन्धून् सप्तगंगाद्यानदीः सरणायासृजः पश्चात् त्वंदासपत्नीः दासाउपक्षपयितारः शत्रवः तेपतयः स्वामिनो- यासांताः । नित्यंसपत्न्यादिष्वित्यत्र दासाच्चेत्युपसंख्यानात् ङीप् । असुरस्वामिकाः अपः अजयः जितवानसि तानसुरान् जित्वा उदकानिच प्रासज इत्यर्थः ॥ १८ ॥

8.96.19
स सु॒क्रतू॒ रणि᳚ता॒ यः सु॒तेष्वनु᳚त्तमन्यु॒र्यो अहे᳚व रे॒वान् ।
य एक॒ इन्नर्यपां᳚सि॒ कर्ता॒ स वृ᳚त्र॒हा प्रतीद॒न्यमा᳚हुः ॥
▶ पदपाठः (Word-by-word)
सः । सु॒॑क्रतुः᳚ । रणि᳚ता । यः । सु॒तेषु᳚ । अनु᳚त्त॑मन्युः । यः । अहा᳚॑इव । रे॒वान् ।
यः । एकः᳚ । इत् । नरि᳚ । अपां᳚सि । कर्ता᳚ । सः । वृ॒त्र॒॑हा । प्रति᳚ । इत् । अ॒न्यम् । आ॒हुः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अथ परोक्षकृतः सइन्द्रः सुक्रतुः शोभनप्रज्ञः शोभनकर्मा वा भवति । यः सुतेष्वभिषुतेषु सोमेषु रणिता तत्पानार्थं रमणशीलः । किंच अनुत्तमन्युः परैरनुन्नक्रोधः शत्रुभिर्नेतुमशक्यः तादृशोयः इन्द्रः रेवान् धनवान् । तत्रदृष्टान्तः-अहेव यथा अहानि दिवसाः धनवन्तः दिवसेषुहि धनानि प्रादुर्भवंति न शत्रिषु तद्वत् । तथा यइन्द्रः एकइत् असहायएव नरि कर्मनेतरि मनुष्ये अपांसि कर्माणि कर्ता कर्तुं शीलोभवति ताच्छीलिकस्तृन् अतएव षष्ठीप्रतिषेधः । सपूर्वोक्तगुणोपेतइन्द्रः वृत्रहा अपामावरकस्यासुरस्योपद्रवस्य वा हन्तृत्वात वृत्रहेति सर्वैः श्रूयते तमेवेन्द्रं अन्यं प्रति इदवधारणे अन्यंप्रत्येवाहुः इन्द्रः सर्वमन्यं शत्रुसंघं प्रतिभवति अभिभवत्येवेति वदन्ति ॥ १९ ॥

8.96.20
स वृ᳚त्र॒हेन्द्र᳚श्चर्षणी॒धृत्तं सु᳚ष्टु॒त्या हव्यं᳚ हुवेम ।
स प्रा᳚वि॒ता म॒घवा᳚ नो॑धिव॒क्ता स वाज᳚स्य श्रव॒स्य᳚स्य दा॒ता ॥
▶ पदपाठः (Word-by-word)
सः । वृ॒त्र॒॑हा । इन्द्रः᳚ । च॒र्ष॒णि॒॑धृत् । तम् । सु॒॑स्तु॒त्या । हव्य᳚म् । हु॒वे॒म॒ ।
सः । प्र॒॑अ॒वि॒ता । म॒घ॑वा᳚ । नः॒ । अ॒धि॒॑व॒क्ता । सः । वाज᳚स्य । श्र॒व॒स्य᳚स्य । दा॒ता ॥
▶ सायणभाष्यम् (Sayana Commentary)

वृत्रहा वृत्रस्य हन्ता सइन्द्रश्चर्षणीधृत् मनुष्याणां धनादिदानेन पोषकोभवति तमिन्द्रं हव्यं आह्वातुं योग्यं वयं सष्टुत्या शोभनया स्तुत्या हुवेम अस्मद्यज्ञेष्वाह्वयामः । किमर्थं यूयमाह्वयथेतिचेत् कारणं ब्रूमः-सइन्द्रः प्राविता प्रकर्षेणास्माकं रक्षिताभवति । किंच मघवा धनवानिन्द्रः नोस्माकमधिवक्ता अधिकं वक्ता बहुमानेन वक्ता भवति । यद्वा धनदानेनास्मानधिकं वक्तुमर्हति । अर्हेकृत्यतृचश्चेति तृच् । किंच सएवेन्द्रः श्रवस्यस्य श्रवसः कीर्तेर्निमित्तस्य वाजस्यान्नस्य । यद्वा श्रवसोन्नस्य हिताय वाजस्य बलस्य दाता भवतिखलु । तस्मादेवंगुणमिन्द्रं वयमाह्वयामः ॥ २० ॥

8.96.21
स वृ᳚त्र॒हेन्द्र᳚ ऋभु॒क्षाः स॒द्यो ज᳚ज्ञा॒नो हव्यो᳚ बभूव ।
कृ॒ण्वन्नपां᳚सि॒ नर्या᳚ पु॒रूणि॒ सोमो॒ न पी॒तो हव्य॒ः सखि᳚भ्यः ॥
▶ पदपाठः (Word-by-word)
सः । वृ॒त्र॒॑हा । इन्द्रः᳚ । ऋ॒भु॒क्षाः । स॒द्यः । ज॒ज्ञा॒नः । हव्यः᳚ । ब॒भू॒व॒ ।
कृ॒ण्वन् । अपां᳚सि । नर्या᳚ । पु॒रूणि᳚ । सोमः᳚ । न । पी॒तः । हव्यः᳚ । सखि᳚॑भ्यः ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऋभुक्षाः समहान् । यद्वा ऋभुशब्देन ऋभ्वादयस्त्रयोगृह्यन्ते ऋभुभिः सह क्षियति निवसतीति तादृशः । वृत्रहा सइन्द्रः सद्यस्तदानीमेव जज्ञानः प्रादुर्भवन् हव्यः सर्वैः स्तोतृभिर्यष्टृभिराह्वातव्योबभूव । किंच नर्या नर्याणि नरा मनुष्याः कर्मनेतारः तेभ्योहितानि पुरूणि बहूनि अपांसि कर्माणि कृण्वन् सखिभ्यः हविः प्रदानेनोपकारकत्वात् मित्रेभ्यः ऋत्विग्भ्यः हव्यः आह्वातव्यः हवनयोग्योवा बभूव । तत्रदृष्टान्तः-सोमोन यथा पीतःसोमः यष्टृभ्यः स्वर्गादिफलानि कुर्वन् देवैराह्वातव्योभवति तद्वत् ॥ २१ ॥

याइन्द्रेति पंचदशर्चं चतुर्थं सूक्तं काश्यपस्य रेभस्यार्षमैन्द्रम् । दशम्यतिजगती द्वापंचाशदक्षरा । एकादशीद्वादश्यावुपरिष्टाद्ब्हत्यौ त्र्यष्टकांत- द्वादशकवत्यौ त्रयोदश्यतिजगती चतुर्दशीत्रिष्टुप् पंचदशी जगती शिष्टाबृहत्यः । तथाचानुक्रम्यते-याइन्द्रपंचोना रेभः काश्यपो बार्हतमतिजग- त्युपरिष्टाद्बृहत्यावतिजगतीत्रिष्टुप् जगतीत्यन्ततइति । सूक्तविनियोगोलैंगिकः । महाव्रते निष्केवल्ये बार्हततृचारीतौ याइन्द्रेत्यादिनवर्चः तथै- वपंचमारण्यके सूत्र्यते-याइन्द्रभुजाअभरइति नव सूददोहाइति । चातुर्विंशिकेहनि माध्यन्दिने सवने ब्राह्मणाच्छंसिनो वैकल्पिकानुरूपतृचस्य याइन्द्रेत्यादिके द्वे द्वितीयातृतीये । सूत्र्यतेच-तमिन्द्रंजोहवीमि याइन्द्रभुजआभर इत्येकाद्वेचेति ।